________________
६५२
तृतीये काण्डेवनस्पतिपर्यन्तेषु पृथिव्यादिषु स्थावरेषु अनुमानतश्चैतन्यप्रतिपत्तिः । तथाहि-वनस्पतयश्चेतना,
१“साम्प्रतं वनस्पतिजीवास्तिले लिङ्गमाह से बेमि-इमं पि जाइधम्मयं एयं पिजाइधम्मय; इमं पिवुद्दिधम्मयं एवं पि वुद्दिधम्मयं; इमं पि चित्तमंतयं एयं पि चित्तमन्तयं; इमं पि छिण्णं मिलाइ एयं पि छिगं मिलाइ; इमं पि आहारगं एवं पि आहारग; इमं पि अणिच्चयं एवं पि अणिचयं; इमं पि असासयं एवं पि असासयं; इमं पि चओवचइयं एवं पि चओव. चइयं; इमं पि विपरिणामधम्मयं एयं पि विपरिणामधम्मयं"-आचारा. सू० अ० १ उ. ५ सू० ४६ पृ०६५।
महाभारत-मनुस्मृत्योरपि वनस्पत्यादीनां सचेतनत्वमित्थं समर्थितं दृश्यते"भरद्वाज उवाचपञ्चभिर्यदि भूतैस्तु युक्ताः स्थावर-जङ्गमाः । स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः॥ अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः । वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः॥ न शृण्वन्ति न पश्यन्ति न गन्ध-रसवेदिनः । न च स्पर्श विजानन्ति ते कथं पाञ्चभौतिकाः?॥ अद्रवत्वादनग्नित्वादभूमित्वादवायुतः । आकाशस्याप्रमेयत्वाद् वृक्षाणां नास्ति भौतिकम् ॥ भृगुरुवाचघनानामपि वृक्षाणामाकाशोऽस्ति न संशयः । तेषां पुष्प-फलव्यक्तिनित्यं समुपपद्यते ॥ ऊष्मतो म्लायते वर्ण खक फलं पुष्पमेव च । म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥ वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते । श्रोत्रेण गृह्यते शब्दस्तस्माच्छण्वन्ति पादपाः ॥ वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति । न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः ॥ पुण्यापुण्यैस्तथा गन्धैधूपैश्च विविधैरपि । अरोगाः पुष्पिताः सन्ति तस्माजिघ्रन्ति पादपाः ॥ पादैः सलिलपानाच व्याधीनां चापि दर्शनात् । व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥ वक्त्रेणोत्पलनालेन यथोर्च जलमाददेत् । तथा पवनसंयुक्तः पादैः पिबति पादपः ॥ सुख-दुःखयोश्च प्रहणात् छिन्नस्य च विरोहणात् । जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ तेन तजलमादत्तं जरयत्यग्निमारुतौ । आहारपरिणामाच्च नेहो वृद्धिश्च जायते"॥
महाभा० शान्ति० मो०प०अ० १८२ श्लो०६-१८ पृ० २९१ । "उद्भिजाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः॥ गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरुहाण्येव प्रताना वल्य एव च ॥ तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तःसंज्ञा भवन्त्येते सुख-दुःखसमन्विताः" ।
मनु० अ० १ श्लो० ४६-४९ पृ० १४-१५ । 'भक्षयति बलीवान् यवान्' 'भक्षयति बलीवर्दान् सस्यम्' वा इत्यत्र भक्षेहिंसाथ मन्यमानाः पतञ्जलि-चन्द्रगोमि-देव. नन्दि-कैयट-हेमचन्द्र-नागेश-ज्ञानेन्द्रसरस्वतीप्रमुखवैयाकरणा अपि वनस्पतेः सचेतनत्वं प्रतिपन्नाः। यथाक्रम तद्यथा
"अहिंसार्थस्येति किमर्थम् ? भक्षयन्ति यवान् बलीवर्दाः भक्षयति बलीवर्दान् यवान्"१-४-५२ इत्यकस्य सूत्रस्य "भरहिंसार्थस्य" इति वार्तिके-महाभाष्ये पृ० २७५।
"अहिंसायामिति किम् ? भक्षयति बलीवान सस्यम्"-२-१-४९-चान्द्रे।
"अहिंसार्थस्येति किम् ? भक्षयति बलीवर्दो यवम् भक्षयति बलीवद यवम्-अत्र हिंसाऽस्ति वनस्पतिकायानां प्राणि. लात्"-१-२-१२१-पृ. १०१ जैनेन्द्रे । ___"भक्षयन्ति यवानिति । क्षेत्रस्थानां प्ररोहाद्यवस्थायां यवानां भक्षणाद् हिंसा भवति, तदवस्थायां कैश्चिञ्चैतन्यस्याभ्युप. गमात् । परकीययवभक्षणे वा परो हिंसितो भवति । हिंसाले भक्षणेऽत्र भक्षिवर्तते"-१-४-५२ इति सूत्रस्य वार्तिकं स्पष्टयन् प्रदीपः ।
"वनस्पतीनां प्रसव-प्ररोह-वृद्ध्यादिमत्त्वेन चेतनखाद् तद्विशेषस्य सस्यस्य प्राणवियोगस्तद्भक्षणात् खाम्युपघातो वाऽत्र हिंसेति भहिंसार्थता"-२-२-६ हैमशब्दा०।
__ "पिण्ड्या अप्राणित्वाद् उदाहरणे भक्षेरहिंसार्थत्वम् । ननु यवानामपि अचेतनत्वात् तद्विषयस्यापि कथं हिंसार्थत्वम् ! अत आह-क्षेत्रस्थानामिति । इदमुपलक्षणम् बीजावस्थानामपि भक्षणे हिंसासत्त्वात् । हिंसाने इति । इदमुभयसाधारणम् तत्र आये यवान् हिंसन् भक्षयतीत्यर्थः द्वितीये तु 'परान्' इत्यध्याहार्यम्-परान् हिंसन् यवान् भक्षयतीत्यर्थः । अत्र आद्यमेव युकं भाष्यखरसादित्याहुः"-१-४-५२ इति पाणिनीयसूत्रस्य उपर्युक्तमेव वार्तिकं समुद्योतयन् उद्योतः। ___"अहिंसार्थस्य किम् । भक्षयति बलीवर्दान् सस्यम् । xxx बलीवर्दाः सस्यं भक्षयन्ति तान् भक्षयतीत्यर्थः । क्षेत्रस्थानो यवाना भक्ष्यमाणानां हिंसा झेया तस्यामवस्थायां तेषां चेतनलात्"-१-४-५२ सिद्धान्तको• तत्त्वबोधि।