________________
ज्ञेयमीमांसा।
६५१
ननु 'तद्विभागप्रतिपादकं वचो यथार्थम् अर्हद्वचनत्वात् अनेकान्तात्मकवस्तुप्रतिपादकवचोवत्' इत्यनुमानात् तद्विभागप्रतिपत्तौ कथं न तस्यानुमानविषयता? न; एवमप्यागमादेव तद्विभागप्रतिपत्तेः-तद्व्यतिरेकेण प्रमाणान्तरस्य तत्प्रतिपत्तिनिबन्धनस्याभावात् । अर्हदागमस्य च प्रधानार्थसंवादनिबन्धनतत्प्रणीतत्वनिश्चयेऽनुमानतोऽतीन्द्रियार्थविषये प्रामाण्यं निश्चीयत इत्यभ्युपगम्यत
आगमनिरपेक्षस्य तु प्रमाणान्तरस्यास्मदादेस्तत्र प्रवृत्तिने विद्यत इत्येतावताऽहेतुवादत्वमेत-५ द्विषयागमस्योच्यत इति ॥४३॥ [आगमोक्तस्य वस्तुनो हेतुद्वारा वास्तविकत्वसाधनमेव हेतुवादस्य लक्षणमिति सूचनम् ]
वचनव्यापार केवलमपेक्ष्यायं क्रमः । यदा तु ज्ञान-दर्शन-चारित्रत्रितये यथावदनुष्ठानप्रवणः तद्विकलश्च पुरुषः प्रतीयते तदा अनुमानगम्योऽपि तांद्वभागो भवति, यथा-भव्यः अभव्य पुरुषः, सम्यग्ज्ञानादिपरिपूर्णाऽपरिपूर्णत्वाभ्याम् , लोकप्रसिद्धभव्याऽभव्यपुरुषवत् । अहेतुवादागमा-१० वगते वा धर्मिणि भव्याऽभव्यखरूपे तद्वि(तदविपरीतनिर्णयफलो हेतुवादः प्रवर्तते । योऽयमागमे भव्यादिरभिहितः स तथैव, यथोक्तहेतुसद्भावात् इत्याह
भविओ सम्मइंसण-णाण-चरित्तपडिवत्तिसंपन्नो।
णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ॥ ४४ ॥ भव्योऽयम्, सम्यग्दर्शन-ज्ञान-चारित्रप्रतिपत्तिसंपूर्णत्वात् उक्तपुरुषवत् । तत्परि-१५ पूर्णत्वादेव नियमात् संसारदुःखान्तं करिष्यति कर्मव्याधेरात्यन्तिकं विनाशमनुभविष्यति, तन्निवन्धनमिथ्यात्वादिप्रतिपक्षाभ्याससात्मीभावात्, व्याधिनिदानप्रतिकूलाचरणप्रवृत्ततथाविधातुरवत् । यः पुनर्न तत्प्रतिपक्षाभ्याससात्म्यवान् नासौ दुःखान्तकृद् भविष्यति तन्निदानानुष्ठानप्रवृत्त. तथाविधातुरवत् इति हेतुवादस्य लक्षणम् । हेतुवादश्च प्रायो दृष्टिवादः तस्य द्रव्यानुयोगत्वात् , "सम्यग्दर्शन-शान चारित्राणि मोक्षमार्गः" [ तत्त्वार्थसू०१-१] इत्यादेरनुमानादिगम्यस्यार्थस्य तत्र २० प्रतिपादनात् । यथा चात्रानुमानादिगम्यता तथा गन्धहस्तिप्रभृतिभिर्विक्रान्तमिति नेह प्रदर्श्यते ग्रन्थविस्तरभयात् ॥४४॥ [जीवादितत्त्वं कथं प्रतिपादयन् सिद्धान्तस्य आराधकः कथं वा प्रतिपादयन् तस्य विराधक
इत्यभिधानम् ] "जीवाऽजीवाऽऽश्रव-बन्ध-संवर-निर्जरा-मोक्षास्तत्त्वम्" [ तत्त्वार्थसू०१-४] इत्युभयवादा-२५ गमप्रतिपाद्यान् भावांस्तथैवाऽसंकीर्णरूपान् प्रतिपादयन् सैद्धान्तिकः पुरुषः इतरस्तु तद्विराधक इत्याह
जो हेउवायपक्खम्मि हेउओ आगमे य आगमिओ।
सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो ॥४५॥ यो हेतुवादागमविषयमर्थ हेतुवादागमेन, तद्विपरीतागमविषयं चार्थमागममात्रेण प्रदर्श-३० यति वक्ता स खसिद्धान्तस्य द्वादशाङ्गस्य प्रतिपादनकुशलः, अन्यथा प्रतिपादयंश्च-तदर्थस्य प्रतिपादयितुमशक्यत्वात् तत्प्रतिपादके वचस्यनास्थादिदोषमुत्पादयन्-सिद्धान्तविराधको भवति सर्वज्ञप्रणीतागमस्य निस्सारताप्रदर्शनात् तत्प्रत्यनीको भवतीति यावत् ।
तथाहि-पृथिव्यादेर्मनुष्यपर्यन्तस्य षड्डिधजीवनिकायस्य जीवत्वमागमेन अनुमानादिना च प्रमाणेन सिद्धं तथैव प्रतिपादयन् खसमयप्रज्ञापकः, अन्यथा तद्विराधकः । यतःप्रव्यक्तचेतने त्रसनि-३५ काये चैतन्यलक्षणं जीवत्वं स्वसंवेदनाध्यक्षतः स्वात्मनि प्रतीयते, परत्र त्वपरेणानुमानतः ।
१ तत्तद्विपरीत-वा. बा. विना।
८४ स०प्र०