________________
तृतीये काण्डे -
शिरोऽङ्गुल्याद्यङ्गोपाङ्गभावपरिणतस्थू रसूक्ष्म सूक्ष्मतरादिभेदभिन्नावयवात्मकस्य कायस्योत्पत्तिस्तदै - वानन्तानन्तपरमाणू पचितमनोवर्गणापरिणतिप्रतिलभ्यमन उत्पादोऽपि तदैवं वचनस्यापि कायोत्कृष्टतरवर्गणोत्पत्तिप्रतिलब्धवृत्तिरुत्पादः, तदैव च कायाऽऽत्मनोरन्योन्यानुप्रवेशाद् विषमीकृताऽसंख्यातात्मप्रदेशे काय क्रियोत्पत्तिः, तदैव च रूपादीनामपि प्रतिक्षणोत्पत्तिविनश्वराणामुत्पत्तिः, ५ तदैव च मिथ्यात्वाऽविरति प्रमाद-कपायादिपरिणति समुत्पादितकर्मबन्धनिमित्ताऽऽगामिगतिविशेषाणामप्युत्पत्तिः, तदैव चोत्सृज्यमानोपादीयमांनानन्तानन्त परमाण्वापादिततत्प्रमाण संयोग- विभागानामुत्पत्तिः ।
६५०
यद्वा यदैव शरीरादेर्द्रव्यस्योत्पत्तिस्तदैव त्रैलोक्यान्तर्गत समस्तद्रव्यैः सह साक्षात् पारंपर्येण वा संबन्धानामुत्पत्तिः सर्वद्रव्यव्याप्तिव्यवस्थिताकाश-धर्माधर्मादिद्रव्यसंबन्धात्, तदैव च भावि - १० स्वपर्याय- परज्ञानविषयत्वादीनां चोत्पादनशक्तीनामप्युत्पादः शिरो-ग्रीवा-चक्षु-नेत्र - पिच्छोदरचरणाद्यनेकावयवान्तर्भावकमयूराण्डकरसशक्तीनामिवः अन्यथा तत्र तेषामुत्तरकालमप्यनुत्पत्तिप्रसङ्गात् । उत्पाद - विनाश-स्थित्यात्मकाश्च प्रतिक्षणं भावाः शीतोष्णसंपर्कादिव शादवान्तरसूक्ष्मतर- तमादिभेदेन तथैव स्व- परापेक्षया युगपत् क्रमेण चोपलब्धेः । न च तर तमादिभेदेन नवपुराणतया क्रमेणोपलब्धिः प्रतिक्षणं तथोत्पत्तिमन्तरेण संभवति । न चास्मदाद्यध्यक्षं निरवशेष१५ धर्मात्मकवस्तुग्राहकं येनानन्तधर्माणामेकदा वस्तुन्यप्रतिपत्तेरभाव इत्युच्येत अनुमानतः प्रतिक्षणमनन्तधर्मात्मकस्य तस्य प्रदर्शितन्यायेन प्रतिपत्तेः । सकलत्रैलोक्यव्यावृत्तस्य च वस्तुनोऽध्यक्षेण ग्रहणे- तद्व्यावृत्तीनां पारमार्थिकतद्धर्मरूपतया अन्यथा तस्य तद्व्यावृत्तताऽयोगात् - कथं नानन्तधर्माणां वस्तुन्यध्यक्षेण ग्रहणम् ? ॥ ४२ ॥
२०
[आगमस्य हेतुवादाहेतुवादाभ्यां द्वैविध्येन विभजनम् ]
इदानीं विदितनयत्वाद् विशिष्प्रज्ञः शिष्यो विगृह्य कथनयोग्यः संपन्न इति तस्य विग्रहकथनोपदेशमाह -
दुविहो इत्यादि ।
अथवा प्रत्यक्ष-परोक्षरूपः संक्षेपतो द्विविध उपयोग आत्मनः । तत्र प्रत्यक्षोपयोगस्त्रिविधः अवधि - मनःपर्याय- केवलभेदेन । तत्र केवलोपयोगः सकलविषयः प्राक् प्रतिपादितः । अवधि - मनः२५ पर्यायोपयोगस्त्वसकलविषयोऽस्मदादिभिरागमगम्यः । परोक्षोपयोगस्तु मति - श्रुतरूपो द्विविधः । तत्राक्ष-लिङ्गप्रभवमत्युपयोगस्य स्वरूपमावेदितम् । श्रुतोपयोगस्य त्वाचार्यस्तद्धेतुभूतहेत्व हेतुवादभेदभिन्नागमप्रतिपादनद्वारेण स्वरूपमाह -
दुविहो धम्मावाओ अहेउवाओ य हेउवाओ य ।
तत्थ उ अहेउवाओ भवियाऽभवियादओ भावा ॥ ४३ ॥
३०
वस्तुधर्माणामस्तित्वादीनामा समन्ताद् वादस्तत्प्रतिपादक आगमः अहेतु हेतुवादमेदेन द्वैविध्यं प्रतिपद्यते । प्रमाणान्तरानवगतवस्तुप्रतिपादक आगमोऽहेतुवादः । तद्विपरीतस्त्वसौ हेतुवादः - हिनोति गमयत्यर्थमिति हेतुस्तत्परिच्छिन्नोऽर्थोऽपि हेतुः, तं वदति य आगमः स हेतुवादः । यस्तु वस्तुस्वरूपप्रतिपादकत्वेऽपि तद्विपरीतोऽसावहेतुवादो दृष्टिवादात् प्रायेणान्यः । तत्र त्वहेतुवादो भव्या भव्य स्वरूपप्रतिपादक आगमः तद्विभागप्रतिपादनेऽध्यक्षादेः प्रमाणा३५न्तरस्याप्रवृत्तेः-नहि ‘अयं भव्यः, अयं त्वभव्यः' इत्यत्रागममन्तरेण प्रमाणान्तरप्रवृत्तिसंभवोऽस्मदाद्यपेक्षया ।
१- व च व-बृ० । २- मानानन्तपर-वा० बा० भ० मां० । ३- ग्यसं- भ० मां० विना । ४ १० ५३ पं २३ । ५ गा० ३० द्वितीयकां० पृ० ६२० ।