________________
ज्ञेयमीमांसा
व्याप्रियते कपालपर्यन्तघटविनाशोपलम्भे तस्य व्यापारोपलब्धेः । नानुमानमपि, प्रत्यक्षाप्रवृत्तौ तत्र तस्याप्यप्रवृत्तेः-अध्यक्षपूर्वकत्वेन तस्य व्यावर्णनात् । आगमस्य चात्रार्थे अनुपयोगात् । परमाणुपर्यन्ते च विनाशे घटादिध्वंसे न किंचिदप्युपलभ्येत परमाणूनामदृश्यत्वेनाभ्युपगमात् । छिद्र घटेनापाकनिक्षिप्तेन वा तेनानेकान्त इति चेत्, न; सर्वस्य पक्षीकृतत्वात् अवयविनि च छिद्रस्योत्पन्नत्वात् तस्य च निरवयवत्वान्नावयवे तदुत्पत्तिः परमाणुषु तदसंभवात् । पाकान्यथानुपपत्त्या परमाणु-५ पर्यन्तो विनाशः परिकल्प्यत इति चेत्, न; विशिष्टसामग्रीवशाद् विशिष्टवर्णस्य घटादेव्यस्य कथंचिदविनाशेऽप्युत्पत्तिसंभवात् । परमाणुपर्यन्तविनाशाभ्युपगमे च तद्देशत्व-तत्संख्यात्व-तत्परिमाणत्वोपर्यवस्थापितकपरोद्यपातप्रत्यक्षोपलभ्यत्वादीनि पच्यमाने घटे न स्युः । शूच्यग्रविद्धघटे. नानेकान्तश्च परिहृत एव । न च कपालार्थी घटं भिन्द्यादापरमाण्वन्ते विनाशे। ततः प्रतीतिविरुद्धत्वान्नासावभ्युपगन्तव्य इति ॥ ३९॥
[प्रतिवादिमतमाक्षिप्य प्रतिबन्दीतया स्वेष्टस्य विभागजन्योत्पादस्य समर्थनम् ] प्रस्तुतमेवाक्षेपद्वारेणोपसंहरत्याचार्यः
बहुयाण एगसद्दे जइ संजोगाहि होइ उप्पाओ।
णणु एगविभागम्मि वि जुज्जइ बहुयाण उप्पाओ॥ ४०॥ व्यणुकादीनां सति संयोगे यद्येकस्य व्यणुकादेः कार्यद्रव्यस्योत्पादो भवति–अन्यथैका-१५ भिधानप्रत्ययव्यवहारायोगात् नहि बहुषु ‘एको घट उत्पन्नः' इत्यादिव्यवहारो युक्तः-'ननु' इत्यक्षमायाम् । एकस्य कार्यद्रव्यस्य विनाशेऽपि युज्यत एव बहनां समानजातीयानां तत्कार्यद्रव्यविनाशात्मकानां प्रभूततया विभक्तात्मनामुत्पाद इति । तथाहि-घटविनाशाद् बहूनि कपालानि उत्पन्नानीत्यनेकाभिधानप्रत्ययव्यवहारो युक्तः, अन्यथा तदसंभवात् । ततः प्रत्येकं यात्मकास्त्रिकालाश्चोत्पादादयो व्यवस्थिता इत्यनन्तपर्यायात्मकमेकं द्रव्यम् ॥ ४०॥ [एकस्मिन्नपि समये प्रत्येकं द्रव्यमनन्तपर्यायात्मकं प्रागुक्तरीत्या सिध्यति इत्यभिधानम् ]
नन्वनन्ते काले भवत्वनन्तपर्यायात्मकमेकं द्रव्यम्, एकसमये तु कथं तत् तदात्मकमवसीयते? प्रदर्शितदिशा तदात्मकं तदवसीयत इत्याह
एगसमयम्मि एगदवियस्स बहुया वि होंति उप्पाया।
उप्पायसमा विगमा ठिईउ उस्सग्गओ णियमा ॥ ४१॥ एकस्मिन् समये एकद्रव्यस्य बहव उत्पादा भवन्ति, उत्पादसमानसंख्या विगमा अपि तस्यैव तदैवोत्पद्यन्ते विनाशमन्तरेणोत्पादस्यासंभवात् नहि पूर्वपर्यायाविनाशे उत्तरपर्यायः प्रादुर्भवितुमर्हति प्रादुर्भावे वा सर्वस्य सर्वकार्यताप्रसक्तिः, तदकार्यन्वं वा कार्यान्तरस्येव स्यात् । स्थितिरपि सामान्यरूपतया तथैव नियता स्थितिरहितस्योत्पादस्याभावात् भावे वा शशशृङ्गादेरप्युत्पत्तिप्रसङ्गात् ॥ ४१॥
[एकसिन् द्रव्ये एकसमयेऽनन्तधर्मात्मकखस्य दृष्टान्तेन साधनम् ] एतदेव दृष्टान्तद्वारेण समर्थयन्नाह
काय-मण-वयण-किरिया-रूवाइ-गईविसेसओ वावि ।
संजोयभेयओ जाणणा य दवियस्स उप्पाओ॥४२॥ यदैवानन्तानन्तप्रदेशिकाहारभावपरिणतपुद्गलोपयोगोपजातरस-रुधिरादिपरिणतवशाविर्भूत- ३५ १-राद्यापात-भा० मा० आ०। २-रस्य च स्या-भां० मा• आ० ।
२०
३०