________________
६४८
तृतीये काण्डेवक्तव्यम् गुणसंबन्धवत् सत्तासंबन्धस्याप्याद्यक्षणे अभावतस्तत्सत्त्वासंभवात् । न चोत्पत्ति-सत्तासंबन्धयोरेककालतयाऽऽद्यक्षण एव सत्त्वम् तदा रूपादिगुणसमवायाभावतोऽनुपलम्मे ततस्तत्सत्ता संबन्धव्यवस्थापनाऽसंभवात् । न हि 'सत्' इत्युपलम्भमन्तरेण तदा तस्य सत्तासंबन्धः सत्त्वं वा व्यवस्थापयितुं शक्यम् । न च महत्त्वादेर्गुणस्य द्रव्येण सहोत्पादे तद्रव्याधेयता तव्यस्य वा तदा५धारता अकारणस्याश्रयत्वायोगात् । न चैककालयोः कार्यकारणभावः सव्येतरगोविषाणयोरिव भवत्पक्षे युक्तः। तन्न कार्य तदाश्रयः। अथाऽणवस्तदाश्रयस्तर्हि कार्यद्रव्यस्यापि त एवाश्रयः इत्येकाश्रयौ कार्य-गुणौ प्राप्तौ । तथाऽभ्युपगमेपि न तावद् युतसिद्धयोस्तयोः कुण्ड बदरवद् आश्रयाऽऽश्रयिभावः अकार्यकारणप्रसङ्गात् । नाऽयुतसिद्धयोः, अयुतसिद्ध्याऽऽश्रयाश्रयिभावविरोधात् । तथाहि-'अपृथक्सिद्धः' इत्यनेन भेदनिषेधः प्रतिपाद्यते समवायाभावे अन्यस्यार्थस्यात्रासंभवात्, १०'आधाराधेयभावः' इत्यनेन चैकत्वनिषेधः क्रियते इति कथमनयोरेकत्र सद्भावः? अथ नात्राधाराधेयभावस्तर्हि तेषां सत्त्वम् , उत असत्त्वमिति वक्तव्यम् । यद्याद्यः पक्षस्तदा 'संयोगादिगुणात्मकाः परमाणव एव तथाभूतं कार्यम्' इति जैनपक्ष एव समाश्रितः स्यात् । द्वितीयपक्षे तु सर्वानुपलब्धिप्रसक्तिः।
यदि च परमाणवः स्वरूपापरित्यागतः कार्यद्रव्यमारभन्ते स्वात्मनोऽव्यतिरिक्तं तदा कार्य१५ द्रव्यानुत्पत्तिप्रसक्तिः। न हि कार्यद्रव्ये परमाणुस्वरूपापरित्यागे स्थूलत्वस्य सद्भावः तस्य तदभावात्मकत्वात् । तस्मात् परमाणुरूपतापरित्यागेन मृद्रव्यं स्थूलकार्यखरूपमासादयतीति तद्रूपतापरित्यागेन च पुनरपि परमाणुरूपतामनुभवतीति वलयवत् पुद्गलद्रव्यपरिणतेरादिरन्तो वा न विद्यते इति न कार्यद्रव्यं कारणेभ्यो भिन्नम् । न चार्थान्तरभावगमनं विनाशोऽयुक्त इति तद्रूपपरित्यागोपादानात्मकस्थितिखभावस्य द्रव्यस्य त्रैकाल्यं नानुपपन्नम् । यथा च एकसंख्या-संयोग-महत्त्वाऽपर२० त्वादिपर्यायैः परमाणूनामुत्पत्तेः कार्यरूपाः परमाणवस्तथा बहुत्वसंख्या-विभागाऽल्पपरिमाण
परत्वात्मकत्वेन प्रादुर्भावात् परमाणवः कार्यद्रव्यवत् तथोत्पन्नाश्चाभ्युपगन्तव्याः, कारणान्वयव्यतिरेकानुविधानोपलम्भस्य कार्यताव्यवस्थानिबन्धनस्यात्रापि सद्भावादिति अयमर्थः 'तत्तो य' इत्यादिना गाथापश्चार्धेन प्रदर्शितः । तस्माद् एकपरिमाणाद् द्रव्याद् विभक्तः विभागात्मकत्वेनोत्पन्नः अणुरिति अणुर्जातो भवति एतदवस्थायाः प्राक् तदसत्त्वात्; सत्त्वे वा इदानी२५ मिव प्रागपि स्थूलरूपकार्याभावप्रसङ्गात् इदानीं वा तद्रूपता तद्रूपाविशेपात् प्राक्तनावस्थायामिव स्यात् । एवं चतुर्विधकार्यद्रव्याभ्युपगमोऽसंगतः । न च य एव कार्यद्रव्यारम्भकाः परमाणवस्त एव तद्रव्यविनाशोत्तरकालं स्वरूपेण व्यवस्थिताः कार्यद्रव्यप्रागभाव-प्रध्वंसाभावयोरेकत्वविरोधात् घटद्रव्यप्रागभाव-प्रध्वंसाभावमृत्पिण्ड-कपालवत् । न च प्रागभाव-प्रध्वंसाभावयोस्तुच्छरूपतया मृत्पिण्ड-कपालरूपत्वमसिद्धम् तुच्छरूपस्याभावस्य प्रमाणाजनकत्वेन तदविषयत्वतो व्यवस्थापयितु. ३० मशक्यत्वादिति प्रतिपादनात् । न च कपालसंयोगाद् घटद्रव्यमुपजायते तद्विभागाच्च विनश्यतीति
मृत्पिण्डस्य घटद्रव्यं प्रति समवायिकारणत्वमयुक्तमिति वक्तव्यम् अध्यक्षत एव मृत्पिण्डोपादानत्वेन तस्य प्रतीतेः अत एव घटस्य कपालसमवायिकारणत्वानुमानमध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टम् । न चाल्पपरिमाणतन्तुप्रभवं महत्परिमाणं पटकार्यमुपलब्धमिति घटादिक
मपि तदल्पपरिमाणानेककारणप्रभवं कल्पयितुं युक्तम् विपर्ययेणापि कल्पनायाः प्रवृत्तिप्रसङ्गात्, ३५ अध्यक्षबाधस्तु तदितरत्रापि समानः । किञ्च, परमाणूनां सर्वदैकं रूपमभ्युपगच्छन्नभावमेव तेषामभ्युपगच्छेत् अकारकत्वप्रसङ्गात्-तच्च प्रागभाव-प्रध्वंसाभावविकलत्वेनानाधेयातिशयत्वाद् वियत्कु. सुमवत् । तदसत्त्वे च कार्यद्रव्यस्याप्यभावः अहेतोस्तस्यासत्त्वात् । तदभावे च परापरत्वादिप्रत्ययादेरयोगात् कालादेरप्यमूर्तद्रव्यस्याभाव इति सर्वाभावप्रसक्तिः।
__यदपि 'अर्थान्तरगमनलक्षणो विनाशोऽसंभवी परमाणुपर्यन्तत्वात् सर्वविनाशानाम्' इत्य४० भिधानम् , तदप्यसंगतम्; तथाभूतविनाशे प्रमाणाभावात् । तथाहि-न तावदध्यक्षं तत्प्रतिपादने
१-त्रा अभ्यु-भां० मा०। २ तद्वि-वा० बा०। ३ "तेषामापरमाण्वन्तो विनाशः" । "तेषां शरीरेन्द्रियाणां व्यणुकादिविनाशकमेण तावद् विनाशो यावत् परमाणुरिति"-प्रशस्त. कं० पृ. ५१५० १२-१३ ।