________________
ज्ञेयमीमांसा |
६४७
उपलब्धियोग्यं स्यात् तथा चोपभोग्यं कारणबहुत्वमहत्त्वप्रचयजन्यं च महत्त्वम् । न व द्वि- त्रिपरमाण्वारब्धे कार्ये महत्त्वम्, तत्र महत्परिमाणाभावात् तेषामणुपरिमाणत्वात्ः प्रचयोऽप्यवयवाभावान्न संभवति तेषाम् । नापि द्वाभ्यामणुभ्याम् कारणबहुत्वाभावात् न प्रचयोऽपि प्रशिथिलावयवसंयोगाभावात् । उपलभ्यते च समानपरिमाणैस्त्रिभिः पिण्डैरारब्धे कार्ये महत्त्वम् न द्वाभ्यामिति महत्परिमाणाभ्यां ताभ्यामेवारब्धे महत्त्वम् न त्रिभिरल्पपरिमाणैरारब्ध इति समानसंख्या - तुला- ५ परिमाणाभ्यां तन्तुपिण्डाभ्यामारब्धे पटादिकार्ये प्रशिथिलावयवतन्तु संयोगकृतं महस्वमुपलभ्यते न तद् इतरत्रेति ।
नन्वेवं यदि कार्यारम्भस्तदा 'द्रव्याणि द्रव्यान्तरमारभन्ते द्वे बहूनि वा समानजातीयानि' इत्यभ्युपगमः परित्यज्यताम् यतो न परमाणु द्व्यणुकादीनामपरित्यक्ताजनकावस्थानामनङ्गीकृतस्वकार्यजननस्वभावानां च द्व्यणुक - व्यणुकादिकार्यनिर्वर्तकत्वम्; अन्यथा प्रागपि तत्कार्यप्रसङ्गात् ।
१०
अथ न तेषामजनका स्थात्यागतो जनकस्वभावान्तरोत्पत्तौ कार्यजनकत्वं किन्तु पूर्वस्वभाव - व्यवस्थितानामेव संयोगलक्षण सहकारिशक्तिसद्भावात् तदा कार्यनिर्वर्तकत्वम् प्राक् तु तदभावान्न कार्योत्पत्तिः कारणानामविचलित स्वरूपत्वेऽपि न च संयोगेन तेषामनतिशयो व्यावर्त्यते अतिशयो वा कश्चिदुत्पाद्यते अभिन्नो भिन्नो वा संयोगस्यैवाऽतिशयत्वात् । न च कथमन्यः संयोगस्तेपामतिशय इति वाच्यम् अनन्यस्याप्यतिशयत्वायोगात् न हि स एव तस्यातिशय इत्युपलब्धम् तस्मात् तत्संयोगे १५ सति कार्यमुपलभ्यते तदभावे तु नोपलभ्यत इति संयोग एव कार्योत्पादने तेपामतिशय इति न तदुत्पत्तौ तेषां स्वभावान्तरोत्पत्तिः संयोगातिशयस्य तेभ्यो भिन्नत्वादिति, असदेतत् यतः कार्योत्पत्तौ तेपां संयोगोऽतिशयो भवतु संयोगोत्पत्तौ तु तेषां कोऽतिशय इति वाच्यम्, न तावत् स एव संयोगः तस्याद्याप्यनुत्पत्तेः, नापि संयोगान्तरम् तस्यानभ्युपगमात्; अभ्युपगमेऽपि तदुत्पत्तावत्यपरसंयोगातिशयप्रकल्पनायामनवस्थाप्रसक्तेः । न च क्रिया अतिशयः तदुत्पत्तावपि पूर्वोक्तदोष- २० प्रसङ्गात् । किञ्च, अदृष्टापेक्षादात्माऽणु संयोगात् परमाणुषु क्रियोत्पद्यत इत्यभ्युपगमादात्म-परमाणुसंयोगोत्पत्तावप्यपरोऽतिशयो वाच्यः तत्र च तदेव दूपणम् । किंञ्चासौ संयोगो द्व्यणुकादिनिर्वर्तकः किं परमाण्वाद्याश्रितः उत तदन्याश्रितः, आहोस्विद् अनाश्रित इति ? यद्याद्यः पक्षस्तदा तदुत्पत्तावाश्रय उत्पद्यते नवेति ? यद्युत्पद्यते तदा परमाणूनामपि कार्यत्वप्रसक्तिस्तत्संयोगवत् । अथ नोत्पद्यते तदा संयोगस्तदाश्रितो न स्यात्, समवायस्याभावात् तेषां च तं प्रत्यकारकत्वात् तदकारकत्वं तु २५ तत्र तस्य प्रागभावानिवृत्तेस्तदन्यगुणान्तरवत् । ततस्तेषां कार्यरूपतया परिणतिरभ्युपगन्तव्याः अन्यथा तदाश्रितत्वं संयोगस्य न स्यात् । अन्याश्रितत्वेऽपि पूर्वोक्तदोषप्रसङ्गः । अनाश्रितत्वपक्षे तु निर्हेतुकोत्पत्तिप्रसक्तिः । अथ संयोगो नोत्पद्यत इत्यभ्युपगमस्तदा वक्तव्यम् - किमसौ सन्, उताऽसन् ? यदि संस्तदा तन्नित्यत्वप्रसक्तिः - “सदकारणवन्नित्यम्" [ वैशेषिकद० ४-१-१] इति भवतोऽभ्युपगमात् तथा चासौ गुणो न भवेत् नित्यत्वेनाऽनाश्रितत्वाद् अनाश्रितस्य च पारतन्त्र्यायोगाद् ३० अपरतन्त्रस्य चाऽगुणत्वात् । अथाऽसन्निति पक्षस्तदा कार्यानुत्पत्तिप्रसङ्गः तदभावे प्राग्वद् विशि ष्टपरिमाणोपेतकार्यद्रव्योत्पत्त्यभावात् तथा च जगतोऽदृश्यताप्रसक्तिरिति संयोगैकत्वसंख्यापरिमाण - महत्त्व - परत्वाद्यनेकगुणानां तत्रोत्पत्तिरभ्युपेया कारणगुणपूर्वप्रक्रमेण कार्योत्पत्यभ्युपगमात् । इष्टमेवैतदिति चेत्, ननु तेषां क आश्रय इति वक्तव्यम्, न तावत् कार्यम् तदुत्पत्तेः प्राक् तस्याऽसत्वात्; सत्त्वे वोत्पत्तिविरोधात् न च प्रथमक्षणे निर्गुणमेव कार्य गुणोत्पत्तेः प्रागस्तीति ३५
१ न च प्र-भां० म० ।
२ किञ्च असौ संयोगो द्व्यणुकादिनिर्वर्तकः किं परमाण्वायाश्रितः तदन्याश्रितः अनाश्रितो वा ? प्रथमपक्षे तदुत्पत्तावाश्रय उत्पद्यते नवा ? यद्युत्पद्यते तदाणूनामपि कार्यतानुषङ्गः । अथ नोत्पद्यते तर्हि संयोगस्तदाश्रितो न स्यात् समवायप्रतिषेधात् तेषां च तं प्रत्यकारकत्वात् । तदकारकत्वं चानतिरायत्वात् । अनतिशयानामपि कार्यजनकत्वे सर्वदा कार्यजनकत्वप्रसङ्गोऽविशेषात् । अतिशयान्तरकल्पने चानवस्था -- तदुत्पत्तावप्यपरातिशयान्तरपरिकल्पनात् । ततस्तेषामसंयोगरूपतापरित्यागेन संयोगरूपतया परिणतिरभ्युपगन्तव्या इति सिद्धं तेषां कथंचिदनित्यत्वम् । अन्याश्रितलेऽपि पूर्वोक्तदोषप्रसङ्गः । अनाश्रितत्वे तु निर्हेतुकोत्पत्तिप्रसः सदा सत्त्वप्रसङ्गतः कार्यस्यापि सर्वदा भावानुषङ्गः " - प्रमेयक० पृ० १६० प्र० पं० ६-११ ।
३ - पूर्वक्रमे - बृ० आ० हा०वि० ।