________________
६४६
तृतीये काण्डे -
[ विभागजन्यमुत्पादमनिच्छतां केषांचिद् उत्पादार्थानभिज्ञखख्यापनम् ] नन्वर्थान्तरगमनलक्षणस्य विनाशस्यासंभवात् विभागजस्य चोत्पादस्य तद्वयाभावे स्थितेरप्यभावात् तत् त्रैकाल्यं दूरोत्सारितमेवेति मन्यमानान् वादिनः प्रति तदभ्युपगमप्रदर्शनपूर्वकमाहदव्वंतरसंजोगाहि केचि दवियस्स बेंति उप्पायं ।
उपायत्थाsकुसला विभागजायं ण इच्छंति ॥ ३८ ॥
५
१०
समानजातीय द्रव्यान्तरादेव समवायिकारणात् तत्संयोगासमवायिकारण-निमित्तकारणादिसव्यपेक्षाद् अवयव कार्यद्रव्यं भिन्नं कारणद्रव्येभ्य उत्पद्यत इति द्रव्यस्योत्पादं केचन ध्रुवते । ते चोत्पादार्थानभिज्ञा विभागजातं नेच्छन्ति ॥ ३८ ॥ [प्रतिवादिसंमतोत्पादप्रक्रियाकथनपूर्वकं सिद्धान्तसंमतस्य विभागजन्योत्पादस्य समर्थनम् ] कुतः पुनर्विभागजोत्पादानभ्युपगमवादिन उत्पादार्थानभिज्ञाः ? यतः
अणु दुअणुहिं दवे आरद्धे 'तिअणुयं' ति ववएसो । तत्तोय पुणे विभत्तो अणु त्ति जाओ अँणू होइ ॥ ३९ ॥
द्वाभ्यां परमाणुभ्यां कार्यद्रव्ये आरब्धे 'अणुः' इति व्यपदेशः परमाणुयारब्धस्य द्व्यणुकस्याणुपरिमाणत्वात् । त्रिभिर्ह्यणुकैश्चतुर्भिर्वाऽऽरुधे 'त्र्यणुकम्' इति व्यपदेश:; १५ अन्यथोत्पत्तावुपलब्धिनिमित्तस्य महत्त्वस्याभावप्रसक्तेः ।
अकिल त्रिभिश्चतुर्भिर्वा प्रत्येकं परमाणुभिरारब्धमणुपरिमाणमेव कार्यमिति व्यादिपरमाणूनामारम्भकत्वे आरम्भवैयर्थ्यप्रसक्तिरिति द्वाभ्यां परमाणुभ्यां द्व्यणुकमारभ्यते । व्यणुक्रमपि न द्वाभ्यामणुभ्यामारभ्यते कारणविशेषपरिमाणतोऽनुपभोग्यत्वप्रसक्तेः यतो महत्त्वपरिमाणयुक्तं तद्
१ अणुअत्तएहिं आरहृदव्वे तियणुयं ति निद्देसो । तत्तो य पुण विभत्ते अणु त्ति जाओ अणू होइ ॥
गु० मु० मू० ।
व्याख्याकारकृतार्थानुसारेण 'दुअणुए हि' इति पदं 'दोहि अणु एहिं' 'बहुएहिं दुअणुए हिं' चेत्यर्थद्वयबोधकं श्लिष्टं प्रतिभाति । अतो मूलगाथाया अन्वयद्वयमेवं विधातव्यम् - दु- अणुएहिं दव्वे आरद्धे अणु त्ति ववएसो अर्थात् द्वाभ्यां परमाणुभ्यां कार्यद्रव्ये आरब्धे 'अणुः' इति व्यपदेशः । पुनश्च दुअणुएहिं दव्वे आरद्धे तिअणुयं ति ववएसो अर्थात् द्व्यणुकैः -- त्रिभिद्वणुकैः चतुर्भिर्वा कार्यद्रव्ये आरब्धे 'त्र्यणुकम्' इति व्यपदेशः ।
२- एहिं आरद्धदव्वेति मु० मू० । ३ अणुं होइ बृ० भ० मां० ।
-
४ “यदापि द्वे द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् Xxxxx यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यकसहितो वा परमाणुः कार्यमारभते XXX - २-२-११ ब्रह्मसू० शां० पृ० ५०५-५०६ ।
“द्व्यणुकैर्बहुभिरारभ्यते इत्यपि नियमः न द्वाभ्याम् तस्याणुपरिमाणोत्पत्तौ कारणसद्भावेनाणुत्वोत्पत्त वारम्भवैयर्थ्यात् बहुषु त्वनियमः । कदाचित् त्रिभिरारभ्यते इति त्र्यणुकमित्युच्यते कदाचिच्चतुर्भिरारभ्यते कदाचित् पञ्चभिरिति यथेष्टं कल्पना" - प्रशस्त० कं० पृ० ३२- पं० ६-९ ।
“तेभ्यस्तेषां परमाणूनां परस्परसंयोगाः ततश्च द्वाभ्यां द्व्यणुकम् त्रिभिद्वर्यणुकैरूयणुकमित्यनेन क्रमेण कार्यद्रव्यं घटादिकमुत्पद्यते इति” - प्रशस्त० कं० पृ० १०८ पं० १५ ।
'' द्व्यणुकस्य अणुपरिमाणं तु परमाणावणुत्वापेक्षया नोत्कृष्टम् त्रसरेणुपरिमाणं तु न सजातीयम् अतः परमाणौ द्वित्वसंख्या द्व्यणुकपरिमाणस्य द्व्यणुके त्रित्वसंख्या च त्रसरेणुपरिमाणस्य असमवायिकारणमित्यर्थः ” - कारिका ० सिद्धान्तमु० गुणनिरू० का० १११-११२ पृ० ४२९४३० ।