________________
ज्ञेयमीमांसा ।
६४५ [ उत्पादादित्रयं प्रत्येकं त्र्यात्मकवत् कालिकमप्यस्ति इति वदत एव यथार्थवक्तृत्वाभिधानम् ] __ यथोत्पाद-व्यय-स्थितीनां प्रत्येकमेकैकं रूपं त्र्यात्मकं तथा भूत-वर्तमान-भविष्यद्भिरप्येकैकं रूपं त्रिकालतामासादयतीत्येतदेवाह
उप्पजमाणकालं उप्पण्णं ति विगयं विगच्छंतं ।
दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥ ३७॥ उत्पद्यमानसमये एव किञ्चित् पटद्रव्यं तावत्पन्नम् यद्येकतन्तुप्रवेशक्रियासमये तद् द्रव्यं तेन रूपेण नोत्पन्नं तर्युत्तरत्रापि तन्नोत्पन्नमित्यत्यन्तानुत्पत्तिप्रसक्तिस्तस्य स्यात् । न चोत्पन्नांशेन तेनैव पुनस्तदुत्पद्यते तावन्मात्रपटादिद्रव्योत्पत्तिप्रेसक्तरुत्तरोत्तरक्रियाक्षणस्य तावन्मात्रफलोत्पादने एव प्रक्षयाद् अपरस्य फलान्तरस्याऽनुत्पत्तिप्रसक्तेः । यदि च विद्यमाना एकतन्तुप्रवेशक्रिया न फलोत्पादिका, विनष्टा सुतरां न भवेत् असत्त्वात् अनुत्पत्त्यवस्थावत् न ह्यनुत्पन्नविनष्टयोरसत्वे १० कश्चिद् विशेषः । ततः प्रथमक्रियाक्षणः केनचिद् रूपेण द्रव्यमुत्पादयति, द्वितीयस्त्वसौ तदेव अंशान्तरेणोत्पादयति अन्यथा क्रियाक्षणान्तरस्य वैफल्यप्रसक्तेः । एकेनांशेनोत्पन्नं सद् उत्तरक्रियाक्षणफलांशेन यद्यपूर्वमपूर्वं तद् उत्पद्येत तदोत्पन्नं भवेद् नान्यथेति प्रथमतन्तुप्रवेशादारभ्यान्त्यतन्तुसंयोगावधिं यावद् उत्पद्यमानं प्रबन्धेन तद्रूपतयोत्पन्नम् , अभिप्रेतनिष्ठारूपतया चोत्पत्स्यत इत्युत्पद्य मानम् उत्पन्नमुत्पत्स्यमानं च भवति, एवमुत्पन्नमपि उत्पद्यमानमुत्पत्स्यमानं च भवति, तथोत्पत्स्य-१५ मानमपि उत्पद्यमानमुत्पन्नं चेत्येकैकमुत्पन्नादिकालत्रयेण यथा त्रैकाल्यं प्रतिपद्यते तथा विगच्छदादिकालत्रयेणाप्युत्पादादिरेकैकः त्रैकाल्यं प्रतिपद्यते । तथाहि-यथा यद् यदैवोत्पद्यते तत् तदैवोत्पन्नम् उत्पत्स्यते च । यद् यदैवोत्पन्नं तत् तदैव उत्पद्यते उत्पत्स्यते च । यद् यदैवोत्पत्स्यते तत् तदैवोत्पद्यते उत्पन्नं च । ता, तदेव तदेव यदुत्पद्यते तत् तदैव विगतं विगच्छद् विगमिष्यच्च । तथा, यदेव यदैवोत्पन्नं तदेव तदैव विगतं विगच्छद् विगमिष्यञ्च । तथा, यदेव २० यदेवोत्पत्स्यते तदेव तदैव विगतं विगच्छद विगमिष्यञ्च । एवं विगमोऽपि त्रिकाल उत्पादादिना दर्शनीयः, तथा स्थित्याऽपि त्रिकाल एव सप्रपञ्चः प्रदर्शनीयः । एवं स्थितिरपि उत्पाद-विनाशाभ्यां सप्रपश्चाभ्यामेकैकाभ्यां त्रिकाला प्रदर्शनीयेति द्रव्यमन्योन्यात्मकतथाभूतकालत्रयात्मकोत्पादविनाश-स्थित्यात्मकं प्रज्ञापयंस्त्रिकालविषयप्रादुर्भवद्धर्माधारतया तद् विशिनष्टि । अनेन प्रकारेण त्रिकालविषयं द्रव्यस्वरूपं प्रतिपादितं भवति; अन्यथा द्रव्यस्याभावात् तवचनस्य २५ मिथ्यात्वप्रसक्तिरिति भावः॥ ३७॥
१-प्रसक्तिरुत्तरो-भां० विना। २-णान्तरवै-बृ० । ३ "ण भवो भंगविहीणो भंगो वा णत्थि संभवविहीणो। उप्पादो पि य भंगो ण विणा धोव्वेण अत्थेण" ॥८॥
-प्रवचनसा० पृ. १३६ । _ "एतेन कालत्रयापेक्षयाऽपि त्रिलक्षणमुपदर्शितम् तस्य अन्वितेन रूपेण कालत्रयव्यापिलात् अन्यथा त्रुट्यत्तैकान्ते सर्वथाऽर्थकियाविरोधात् कूटस्थैकान्तवत् । ततो द्रव्यपर्यायात्मकं जीवादि वस्तु क्रमयोगपद्याभ्यामर्थक्रियान्यथानुपपत्तेरिति प्रमाणोपपन्नम् । तथा च स्थितिरेव स्थास्यति उत्पत्स्यते विनक्ष्यति सामर्थ्यात् स्थिता उत्पन्ना विनष्टेति गम्यते । विनाश एव स्थास्यति उत्पत्स्यते विनत्यति स्थित उत्पनो विनट इति च गम्यते । उत्पत्तिरेव उत्पत्स्यते विनक्ष्यति स्थास्यतीति न कुतश्चिद् उपरमति सोत्पन्ना विनष्टा स्थितेति गम्यते । स्थित्याद्याश्रयस्य वस्तुनो अनाद्यनन्तत्वादू अनुपरमसिद्धेः स्थित्यादिपर्यायाणां कालत्रयापेक्षिणामनुपरमसिद्धिः अन्यथा तस्यातल्लक्षणलप्रसङ्गात् सत्त्वविरोधात् । एतेन जीवादि वस्तु तिष्टति स्थितम् स्थास्यति, विनश्यति विनष्टम् विनक्ष्यति, उत्पद्यते उत्पन्नम् उत्पत्स्यते चेति प्रदार्शतम् कथंचित् तदभिन्नस्थित्यादीनामन्यथा स्थास्यत्यादिव्यवस्थानुपपत्तेः"-अष्टस० पृ० ११३ पं०२-१०।
४ अत्र 'तथा यदैव यदुत्पद्यते तत् तदैव' इति पाठः सम्यग् भाति ।' “यदैवोत्पद्यमानं तदैव विगतं विगच्छत विगमिष्यच"-नयोप० पृ. ४३ द्वि. पं०८। ५-मन्यान्यात्म-बृ० आ० हा०वि०।