________________
६४४
तृतीये काण्डेयद्वा देशादिविप्रकृया उत्पत्ति-विनाश-स्थितिखभावा भिन्नाभिन्नकाला अर्थान्तरानर्थान्तररूपाः, द्रव्यत्वात-द्रव्याव्यतिरिक्तत्वादित्यर्थः-अन्यथोत्पादादीनामभावप्रसक्तेः । तेभ्यो वा द्रव्यमर्थान्तरानान्तरम्, द्रव्यत्वात् । प्रतिज्ञार्थंकदेशता च हेतो शङ्कनीया द्रव्यविशेषे साध्ये द्रव्यसामान्यस्य हेतुत्वेनोपन्यासात् ॥ ३५॥
[उक्तस्वार्थस्य प्रत्यक्षसिद्धेनोदाहरणेनोपोगलनम् ] अत्रैवार्थे प्रत्यक्षप्रतीतमुदाहरणमाह
जो आउंचणकालो सो चेव पसारियस्स वि ण जुत्तो।
तेसिं पुण पडिवत्ती-विगमे कालंतरं णत्थि ॥ ३६॥ य आकुश्चनकालोऽङ्गुल्यादेव्यस्य स एव तत्प्रसारणस्य न युक्तः भिन्नकालतया १० आकुञ्चन-प्रसारणयोः प्रतीतेस्तयोर्भेदः, अन्यथा तयोः स्वरूपाभावापत्तेरित्युक्तम् तत्तत्पर्यायाभिन्नस्याङ्गुल्यादिद्रव्यस्यापि तथाविधत्वात् तदपि भिन्नमभ्युपगन्तव्यम् अन्यथा तदनुपलम्भात् अभिन्नं च तदवस्थयोस्तस्यैव प्रत्यभिज्ञायमानत्वात् । तयोः पुनरुत्पाद-विनाशयोः-प्रतिपत्तिश्च प्रादुर्भावः, विगमश्च विपत्तिः-प्रतिपत्ति-विगमं तत्र कालान्तरं भिन्नकालत्वमङ्गुलिद्रव्यस्य च नास्ति ।
पूर्वपर्यायविनाशोत्तरपर्यायोत्पत्त्यङ्गुलिद्रव्यावस्थितीनामभिन्नकालता अभिन्नरूपता च प्रतीयते एक१५स्यैव द्रव्यस्य तथाविवर्तात्मकस्याध्यक्षतः प्रतीतेः। .
अथवा 'कालान्तरं नास्ति' इत्यत्र 'अ'कारप्रश्लेषाद् नत्रश्चोपादानात् प्रतिषेधद्वयेन प्रकृतार्थगतेः कालान्तरं कालभेद उत्पादादेव्यस्य चास्तीति कथंचिद् भेद इत्यर्थः-कथंचिद् भेदेनाऽपि प्रतिपत्तेः । तेनोत्पत्ति-विनाश-स्थितीनां परस्पररूपपरित्यागाऽपरित्यागप्रवृत्तप्रत्येक व्यात्मकैकरूपत्वेऽपि न वर्तमानपर्यायात्मकस्यैवाऽतीताऽनागतकालयोः सत्त्वम् वस्तुनख्यात्मकत्वा२० भ्युपगमात् । अतीताऽनागतकालयोरपि तद्रूपेण सत्त्वे उत्पादविनाशयोरभावेन कथं यात्मकत्वं
तस्य भवेत् द्रव्यस्योत्पत्ति-विनाशनिमित्तत्वादतीतादितायाः अन्यथा वर्तमानवत् तदभावात् ? न च तत्पर्यायस्याऽतीताऽनागतकालयोरभावे कथं नित्यत्वमिति वाच्यम् , कथंचित् तस्याभ्युपगमात् परित्यतोपादित्स्यमानपूर्वोत्तरपर्यायस्यान्यान्यवेषपरित्यागोपादानैकनटपुरुषवद् द्रव्यस्य विवर्तात्मकत्वात् ।
सर्वथा नित्यत्वे पूर्वोत्तरव्यपदेशाभावप्रसक्तेः । सर्वथाऽनित्यत्वेऽप्युभयत्रैकप्रतिभासव्यपदेशादिव्य२५वहाराभावश्च स्यात् । न चैकानेकत्वप्रतिभासो मिथ्या । ततो यदेव विनष्टं शिवकरूपतया तदेवोत्पन्नं मृद्रव्यं घटादिरूपतया अवस्थितं च मृत्त्वेनेति यात्मकं तत् सर्वदा द्रव्यमिति व्यवस्थितम् ॥३६॥
१ अर्थानुसारेण-गमेऽकालंतरं इत्यपि पाठः। २-रूपपरित्यागप्रवृ-वा. वा० आ० । ३ "न सामान्यात्मनोदेति न व्यति व्यक्तमन्वयात् । व्यत्युदेति विशेषात् ते सहैकत्रोदयादि सत् ॥ कार्योत्पादः क्षयो हेतोर्नियमाल्लक्षणात् पृथक् । न तो जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् ॥ घट-मौलि-सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिवतः । अगोरसवतो नोभे तस्मात् तत्त्वं त्रयात्मकम् ॥
-आप्तमी० श्लो०५७-६०। अत्रत्या अष्टशती अष्टसहस्री च विलोकनीया। शास्त्रवा० स्त० ७ श्लो. १-३ । तथा,
“तयाहुर्मुकुटोत्पादो न घटानाशधर्मकः । स्वर्णान्न चान्य एवेति न विरुद्धं मिथस्त्रयम् ॥ न चोत्पाद-व्ययौ न स्तो ध्रौव्यवत् तद्धिया गतेः । नास्तिले तु तयोध्रौव्यं तत्त्वतोऽस्तीति न प्रमा ॥ न नास्ति ध्रौव्यमप्येवमविगानेन तद्गतेः । अस्याश्च भ्रान्ततायां न जगत्यभ्रान्ततागतिः ॥ उत्पादोऽभूतभवनं खहेवन्तरधर्मकम् । तथाप्रतीतियोगेन विनाशस्तद्विपर्ययः॥ तथैतदुभयाधारखभावं ध्रौव्यमित्यपि । अन्यथा त्रितयाभाव एकदैकत्र किं न तत् ॥ एकत्रेवैकदेवैतदित्थं त्रयमपि स्थितम् । न्याय्यं भिन्ननिमित्तवात् तदभेदे न युज्यते" ॥
-शास्त्रवा० स्त० ७ श्लो०९-१४ । जैनवत् सांख्य-मीमांसकाभ्यामपि वस्तुनख्यात्मकता स्वीक्रियते-पातजलद. पा० ३ सू० १३-1 श्लो० वा. वनवा० श्लो० २०-२३ । ____ स्याद्वादं परीक्षमाणेन शान्तरक्षितेन एषा त्र्यात्मकता विप्र(मीमांसक)-निर्ग्रन्थ(जैन)-कापिल(सांख्य)संमतलेन परीक्षिता-तत्त्वसं. का. १७७६-७९ पृ. ५०१-५०२।