________________
ज्ञेयमीमांसा ।
६४३
विगमस्याप्येष एव द्विरूपो भेदः - स्वाभाविकः प्रयोगजनितश्चेति तद्वयातिरिक्तस्य वस्तुनोऽभावात् पूर्वावस्थाविगमव्यतिरेकेणोत्तरावस्थोत्पत्त्यनुपपत्तेः न हि बीजादीनामविनाशेऽङ्कुरादिकार्यप्रादुर्भावो दृष्टः । न चाऽवगाह - गति - स्थित्याधारत्वं तद्नाधारत्वस्वभावप्राक्तनावस्थाध्वंसमन्तरेण संभवति तत्र समुदयजनिते यो विनाशः स उभयत्रापि द्विविधः एकः समुदयविभागमात्र प्रकारो विनाशः यथा पटादेः कार्यस्य तत्कारणपृथक्करणे तन्तुविभागमात्रम्, द्वितीयप्रकार - ५ स्त्वर्थान्तरभावगमनं विनाशः यथा मृत्पिण्डस्य घटार्थान्तरभावेनोत्पादो विनाशः । न चार्थान्तररूपविनाशविनाशे मृत्पिण्डप्रादुर्भावप्रसक्तिरिति वक्तव्यम्, पूर्वोत्तरकालावस्थयोरसंकीर्णत्वात् - अतीततरत्वेन प्राक्तनावस्थाया उत्पत्तेः अतीतस्य च वर्तमानताऽयोगात् - तयोः स्वस्वभावापरित्यागतस्तथानियतत्वात् तुच्छरूपस्य ह्यभावस्याऽभावः स्यादपि तदभावरूपः, न तु वस्त्वन्तरादुपजायमानं वस्त्वन्तरमतीततरावस्थारूपं भवितुमर्हति तर तमप्रत्ययार्थव्यवहाराभावप्रसक्तेः । प्रति १० पादितं च कस्यचिद् रूपस्य निवृत्त्या रूपान्तरगमनं वस्तुनः प्रागिति न पुनरभिधीयते ॥ ३४ ॥ [ उत्पाद - विनाश-धौव्याणां भिन्नाभिन्नकालत्वस्यार्थान्तरानर्थान्तरत्वस्य चाभिधानम् ] न चोत्पाद - विनाशयोरैकान्तिकतद्रूपताऽभ्युपगमे अनेकान्तवादव्याघातः, कथंचित् तयोस्तद्रूपताऽभ्युपगमात् । तदाह
तिणि वि उप्पायाई अभिण्णकाला य भिण्णकाला य । अत्यंतरं अणत्थंतरं च दवियाहि णायव्वा ॥ ३५ ॥
१५
userपाद - विगम-स्थितिस्वभावाः परस्परतो ऽन्यकालाः यतो न पटादेरुत्पाद समय एव विनाशः तस्यानुत्पत्तिप्रसक्तेः । नाऽपि तद्विनाशसमये तस्यैवोत्पत्तिः अविनाशापत्तेः । न च तत्प्रादुर्भाव समय एव तत्स्थितिः तद्रूपेणैवावस्थितस्यानवस्थाप्रसक्तितः प्रादुर्भावाऽयोगात् । न च घटरूपमृत्स्थितिकाले तस्या विनाशः तद्रूपेणावस्थितस्य विनाशानुपपत्तेः । न च घटविनाशविशिष्ट - २० मृत्काले तस्या एवोत्पादो दृष्टः । नाऽपि तदुत्पादविशिष्टमृत्समये तस्या एव ध्वंसोऽनुत्पत्तिप्रसङ्गत एव युक्तः । ततस्त्रयाणामपि भिन्नकालत्वात् तद् द्रव्यमर्थान्तरं नानास्वभावम् न ह्यन्योन्यव्यतिरिक्तकालोत्पाद - विगम-धौव्याऽव्यतिरिक्त मेकस्वरूपं द्रव्यमुपपद्यते तस्य तेभ्यो भेदप्रसक्तेः । न च तद् भिन्नमेवास्तु तत्रितयविकलस्य तस्य तथाऽनुपलब्धितोऽसैवात् । न चैकस्य द्रव्यस्याभावादने कान्ताभावप्रसक्तिः यतोऽभिन्नकालाश्चोत्पादादयः । नहि कुशूलविनाशघटोत्पादयोर्भिन्नकालता; अन्यथा २५ विनाशात् कार्योत्पत्तिः स्यात् घटाद्युत्तरपर्यायानुत्पत्तावपि प्राक्तनपर्यायध्वंसप्रसक्तिश्च स्यात् । पूर्वोत्तरपर्याय विनाशोत्पादक्रियाया निराधाराया अयोगात् तदाधारभूतद्रव्यस्थितिरपि तदाऽभ्युपगन्तव्या । न च क्रियाफलमेव क्रियाधारः तस्य प्रागसत्त्वात्; सत्त्वे वा क्रियावैफल्यात् । ततस्त्रयाणामभिन्नकालत्वात् तदव्यतिरिक्तं द्रव्यमभिन्नं न नाना । न च घटोत्पाद - विनाशापेक्षया भिन्नकालतयाऽर्थान्तरत्वम् कुसूल - घटविनाशोत्पादापेक्षया अभिन्नकालत्वेनानर्थान्तरत्वादेकान्त इति ३० वक्तव्यम्, द्रव्यस्य पूर्वावस्थायां भिन्नाभिन्नतया प्रतीयमानस्योत्तरावस्थायामपि भिन्नाभिन्नतया तस्यैव प्रतीतेरनेकान्ताऽव्याहतेः । न चाऽबाधिताऽध्यक्षादिप्रतिपत्तिविषयस्य तस्य विरोधाद्युद्भावनं युक्तिसंगतम् सर्वप्रमाण - प्रमेयव्यवहारविलोपप्रसङ्गात् । अत एव अर्थान्तरमनर्थान्तरं चोत्पादादयो द्रव्यात्, तद्वा तेभ्यस्तथेति प्रतिज्ञेयम् द्रव्यात् तथाभूततग्राहकत्वपरिणतादात्मलक्षणात् प्रमाणादित्यपि व्याख्येयम् नहि तथाभूतप्रमाणप्रवृत्तिस्तथाभूतार्थमन्तरेणोपपन्ना धूम इव ३५ धूमध्वजमन्तरेण, संवेद्यते च तथाभूतग्राह्य ग्राहकरूपतया अनेकान्तात्मकं स्वसंवेदनतः प्रमाणमिति न तदपलापः कर्तुं शक्यः; अन्यथाऽतिप्रसङ्गात् ।
१ " तुच्छस्य हि अभावस्याभावे मृत्पिण्डोत्पादो भवेत् न तु” – बृ० टि० । २ " मृत्पिण्डरूपम् " - बृ० टि० । ३ “यस्मिन्नेव समये उत्पादस्तस्मिन्नेव यदा विनाशस्तस्य तदा कमु ( कथमु ) - त्पत्तिः ? " - बृ० टि० । ४ - नाशोत्पत्तेः घृ० विना । ५ " मृदः " - बृ० टि० । ६ न चैक ( चैव ) मेकस्य बृ० । ७ " घटादि" - बृ० टि० ।
८३ स० प्र०