________________
६४२
हतीये काण्डेप्रसिद्धिः १ न हि निरवयवत्वे 'तस्यैकदेशे एव शब्दो वर्तते न सर्वत्र' इति व्यपदेशः संगच्छते । न च संयोगस्याऽव्याप्यवृत्तित्वनिबन्धनोऽयम् यत आकाशं व्याप्य संयोगो न वर्तते इति तदेकदेशे वर्तते इत्यभ्युपगमप्रसक्तिः व्याप्यवृत्तित्वं हि सामस्त्यवृत्तित्वम्, तत्प्रतिषेधश्च पर्युदासपक्षे एकदेशवृत्तित्वमेव, प्रसज्यपक्षे तु वृत्तिप्रतिषेध एव; न चासी युक्तः संयोगस्य गुणन्वेन द्रव्याश्रितत्वात ५ तदभावे च तदभावात् । न च निरवयवत्वे आकाशस्य संतानवृत्त्या आगतस्य शब्दस्य श्रोत्रेणाप्यपलब्धिः संभवति अन्यान्याकाशदेशोत्पत्तिद्वारेण तस्य श्रोत्रसमवेतत्वानुपपत्तेः । जलतरङ्गन्यायेनापरापराकाशदेशादावपरापरशब्दोत्पत्तिप्रकल्पनायां कथं नाकाशस्य सावयवत्वम् ?
किञ्च, आकाशं शब्दोत्पत्ती समवायिकारणमभ्युपगम्यते, यश्च समवायिकारणं तत् सावयवम्, यथा तन्त्वादि, समवायिकारणं च परेण शब्दोत्पत्तावाकाशमभ्युपगतम् । न च परमाण्वाऽऽत्मा१०दिना व्यभिचारः तस्यापि सावयवत्वात्अन्यथा व्यणुक-वुड्यादेस्तत्कार्यस्य सावयवत्वं न स्यात् ।
न च बुद्ध्यादेः सावयवत्वमसिद्धम् आत्मनः सावयवत्वेन साधितत्वात् तद्विशेषगुणत्वेन वुड्यादेः कथंचित् तादात्म्यसिद्धितः सावयवत्वोपपत्तः । न च यत एव प्रमाणादणवः सिद्धास्तेषां निरवयवत्वमपि तत एव सिद्धमिति तद्राहकप्रमाणवाधितत्वात् सावयवत्वानुमानस्याऽग्रामाण्यम् प्रमाणतः
परमाणूनामसिद्धावाश्रयासिद्धितः सावयवत्वानुमानम्याऽप्रवृत्तिरिति वाच्यम्, यतः सावयवकार्यस्य १५सावयवकारणपूर्वकत्वे साध्ये न पूर्वोक्तदोपावकाशः । न च कार्यकारणयोरात्यन्तिको मेदः, समवायनिषेधे हि हिमवद-विन्ध्ययोरिव मेटे विशिष्टकार्यकारणरूपतानुपपत्तेः । ततो व्यणुकादेः परमाणुकार्यस्य सावयवत्वात् तदात्मभूताः परमाणवः कथं न सावयवाः इति न परमाण्वादिभिर्व्यभिचारः। अपि च, सावयवमाकाशं तद्विनाशान्यथानुपपत्तेः। न चाऽऽकाशस्य विनाशित्वमसिद्धम्। तथाहि-अनित्यमाकाशम्, तद्विशेषगुणाभिमतशब्दविनाशान्यथानुपपत्तेः । यतो न तावदाश्रय२० विनाशाच्छन्दविनाशोऽभ्युपगतस्तन्नित्यत्वाभ्युपगमविरोधात्; न विरोधिगुणप्रादुर्भावात्, तन्महत्त्वादेरेकार्थसमवायित्वेन रूप-रसयोरिव विरोधिताऽसिद्धः । विरोधित्वे वा श्रवणसमयेऽपि तदभावप्रसङ्गः तदाऽपि तन्महत्त्वस्य सद्भावात् । नापि संयोगादिविरोधिगुणः तस्य तत्कारणत्वात् । नापि संस्कारः तस्य गुणत्वेन शब्देऽसंभवात् संभवे वा शब्दस्य द्रव्यत्वप्रसक्तिः । आकाशस्य द्रव्यत्वेन तत्संभवेऽपि तस्याभावे आकाशस्याऽप्यभावप्रसक्तिः तस्य तदव्यतिरेकात् । व्यतिरेके वा २५ तस्य' इति संबन्धाऽयोगात् । नापि शब्दोपलब्धिप्रापकधर्माद्यभावात् तदभावः तस्य विभिन्नाश्रयस्थानेन विनाशयितुमशक्यत्वात् । शक्यत्वे वा तदाधारस्यापि विनाशप्रसङ्गः तस्य तदव्यतिरेकात् । ततोऽम्बरविशेषगुणत्वे शब्दस्य तद्विनाशान्यथानुपपत्त्या तस्यापि विनाशित्वम्, ततोऽपि सावयवत्वम् । न च वुझ्यादिभिर्व्यभिचारः उक्तोत्तरत्वात् । किंच, आश्रितविनाशे आश्रयत्वस्यापि विनाशः
आश्रितत्वनिबन्धनत्वात् तस्य धर्मस्य च धर्मिणः कथंचिदव्यतिरेकात् तथाऽऽकाशस्य विनाशित्वात् ३० सावयवत्वं घटादेरिवोपपन्नम् । किंच, सावयवमाकाशम्, हिमवद्-विन्ध्यावरुद्धविभिन्नदेशत्वात्, तदवष्टब्धदेशभूभागवत् । अन्यथा तयो रूप-रसयोरिवैकदेशाकाशस्थितिप्रसक्तिः, न चैतद् दृष्टमिति सर्व वस्तूत्पाद-विनाश-स्थित्यात्मकत्वात् कथंचित् सावयवं सिद्धम् । ततः प्रयोग-विनसात्मकमूर्तिमव्यानारब्धत्वेनाऽऽकाशादेरुत्पाद ऐकत्विकोऽभिधीयते; न पुनर्निरवयवकृतत्वादैकत्विकः। अयमपि स्यादैकत्विकः स्यादनकत्विकः; न त्वैकत्विक एव । एवं मूर्तिमदमूर्तिमदवयवद्रव्यद्वयो३५त्पाद्याऽवगाह-गति-स्थितीनां यथोक्तप्रकारेण तत्रोत्पत्तेः अवगाह-गति-स्थितिखभावस्य च विशिष्टकार्यत्वाद् विशिष्टकारणपूर्वकत्वसिद्धेस्तत्कारणे आकाशादिसंज्ञाः समयनिबन्धनाः सिद्धाः ॥ ३३॥
[उत्पादवद् विगमस्यापि द्वैविध्यवर्णनम् ] उत्पादवद विगमोऽपि तथाविध एवेत्याह
विगमस्स वि एस विही समुदयजणियम्मि सो उ दुवियप्पो। समुदयविभागमेत्तं अत्यंतरभावगमणं च ॥ ३४ ॥
तः, ननदशवान
पदम् ।
१ पृ. १४९ पं० १९- पृ० १६८ प्र. पं० १२-1
२ प्रमेयक० पृ. १६८ प्र. पं० १३।
३ प्र. पृ० पं० ११।
४ प्रमेयक.