________________
ज्ञेयमीमांसा।
यतोऽयमभिप्राय:-जीवद्रव्यं कुम्भादेरजीवद्रव्याद् व्यावृत्तम् अव्यावृत्तं वा? प्रथमपक्षे स्वरूपापेक्षया जीवो जीवद्रव्यम्, कुम्भाद्यजीवद्रव्यापेक्षया तु न जीवद्रव्यमित्युभयरूपत्वादनेकान्त
तीयविकल्पे तु सर्वस्य सवोत्मकतापत्तेः प्रतिनियतरूपाभावतस्तयोरभाव: खरांवषाणवत् । ततः सर्वमनेकान्तात्मकम्-अन्यथा प्रतिनियतरूपताऽनुपपत्तेः-इति व्यवस्थितम् ॥ ३१ ॥
[उत्पादपर्यायस्य प्रयोग-विस्रसाजन्यत्वेन द्वैविध्यकथनम् ] अत्र प्रागुंक्तम्-'प्रत्युत्पन्नं पर्यायं विगतभविष्यङ्ग्यां यत् समानयति वचनं तत् प्रतीत्यवचनम्' इति, तत्र वचनादिकोऽपि पर्यायः, स चाऽप्रयत्नानन्तरीयको वचनविशेषलक्षणः घटादिकस्तु प्रयत्नानन्तरीयक इति केचित् संप्रतिपन्नास्तन्निराकरणाय 'यद् यतोऽन्वय-व्यतिरेकाभ्यां प्रतीयते तत् तत एवाऽभ्युपगन्तव्यम् अन्यथा कार्यकारणभावाभावप्रसक्तिः' इत्याह
उप्पाओ दुवियप्पो पओगजणिओ य वीससा चेव ।
तत्थ उ पओगजणिओ समुदयवायो अपरिसुद्धो ॥ ३२॥ द्विभेद उत्पादः-पुरुषतरकारकव्यापारजन्यतया अध्यक्षाऽनुमानाभ्यां तथा तस्य प्रतीतेः। पुरुषव्यापारान्वयव्यतिरेकानुविधायित्वेऽपि शब्दविशेषस्य तदजन्यत्वे घटादेरपि तदजन्यताप्रसक्तेविशेषाभावात् प्रत्यभिज्ञानादेश्च विशेषस्य प्रागेव निरस्तत्वात् तत्र प्रयोगेण यो जनित उत्पादः-मूर्तिमद्रव्यारब्धावयवकृतत्वात्-स समुदायवादः, तथाभूताऽऽरब्धस्य समुदायात्म १५ कत्वात् । तत एवाऽसावपरिशुद्धः, सावयवात्मकस्य तच्छब्दवाच्यत्वेन अभिप्रेतत्वात् ॥ ३२॥
[विलसाजन्यस्याप्युत्पादस्य द्वैविध्यवर्णनम् ] विस्रसाजनितोऽप्युत्पादो द्विविध इत्याहसाभाविओ वि समुदयकओ व्व एगंतिओ (एगत्तिओ) व्व होजाहि । आगासाईआणं तिण्हं परपच्चओऽणियमा ॥ ३३ ॥
खाभाविकश्च द्विविध उत्पादः-एकः समुदयकृतः प्रोक्प्रतिपादितावयवारब्धो घटादिवत् । अपरश्चैकत्विकोऽनुत्पादिताऽमूर्तिमद्रव्यावयवारब्ध आकाशादिवत् । आकाशादीनां च त्रयाणां द्रव्याणामवगाहकादिघटादिपरद्रव्यनिमित्तोऽवगाहनादिक्रियोत्पादोऽनियमाद् अनेकान्ताद् भवेत्-अवगाहक-गन्तृ-स्थातृद्रव्यसन्निधानतोऽम्बर-धर्मा-ऽधर्मेष्ववगाहुन-गतिस्थितिक्रियोत्पत्तिनिमित्तभावोत्पत्तिरित्यभिप्रायः । [आकाशादिद्व्यत्रयस्य कथंचित् सावयवत्वसाधनम् सामयिकीनामाकाशादिसंज्ञाना
मुपपादनं च] नन्वनारब्धाऽमूर्तिमद्रव्यावयवत्वे गगनादीनां निरवयवत्वप्रसक्तेरनेकान्तात्मकत्वव्याघातः, न; मूर्तिमव्याऽनारब्धानामपि तेषां सावयवत्वात् । न च सावयवत्वमसिद्धम् प्रदेशव्यवहारस्याऽऽकाशे दर्शनात् । न च 'आकाशस्य प्रदेशाः' इति व्यवहारो मिथ्या, मिथ्यात्वनिमित्ताभावात् । न च ३० संयोगस्याऽव्याप्यवृत्तित्वनिमित्तः सावयवत्वाध्यारोपो मिथ्यात्वकारणम् निरवयवेऽव्याप्यवृत्तिसंयोगाधारत्वस्याऽध्यारोपनिमित्तस्यैवाऽनुपपत्तेः। यदि च सावयवं नमो न भवेत् तदा श्रोत्राकाशसमवेतस्येव शब्दस्य ब्रह्मभाषितस्याऽप्यपलम्भोऽस्मदादि(दे)भवेत निरवयवैकाकाशश्रोत्रसमवेतत्वात् । अथ धर्माधर्माभिसंस्कृतकर्णशष्कुल्यवरुद्धाकाशदेश एव श्रोत्रं तत्र च ब्रह्मभाषितस्याऽसमवायान्नास्मदादिभिः श्रवणम् । नन्वेवं सैव सावयवत्वप्रसक्तिः श्रोत्राकाशप्रदेशाद् ब्रह्मशब्दाधारा-३५ काशंदेशस्यान्यत्वात् । यदि च सावयवमाकाशं न भवेत्, शब्दस्य नित्यत्वं सर्वगतत्वं च स्यात् आकाशैकगुणत्वात् तन्महत्त्ववत् । अथ क्षणिकैकदेशवत्तिविशेषगुणत्वस्य शब्दे प्रमाणतःप्रसिद्ध यं दोषः । नन्वेवमेकदेशवृत्तिविशेषगुणत्वाभ्युपगमे कथं न शब्दाधारस्याऽऽकाशस्य सावयवत्व
१ पृ. ६२८ गा. ३। २ प्र. पृ० गा० ३२ । ३-शप्रदेश-भां. मां०। ४ प्रस्तुतचर्चागतः कश्चित् कथिदंशः प्रायेण शब्दशः प्रमेयकमलमार्तण्डे वर्तते-पृ. १६८ प्र. पं०१०- ५-तः सि-भां० मां।