________________
६४०
तृतीये काण्डेस्वभावत्वात् । ततोऽपर्यायेष्वपि न विद्यन्ते अर्चि-मुर्मुरादयो विवक्षितपर्याया येषु पुद्गलेषु तेष्वपि अविभक्तश्रद्धानं यत् तदपि भावत एव भवेत्-‘अर्चिष्मानयं भावो भूतो भावी वा' इति । तन्नाऽव्यापकोऽनेकान्तवादः ॥ २८॥
[गतिमत्यपि द्रव्ये अपेक्षाविशेषेण गत्यगती प्रदानेकान्तस्य व्यापकत्वोपपादनम् ] ५ नन्वनेकान्तस्य व्यापकत्वे 'गच्छति तिष्ठति' इत्यत्राऽप्यनेकान्तः स्यात्, तथाभ्युपगमे च तयोरभावप्रसक्तिरित्येतदेवाऽऽह
गइपरिगयं गई चेव केइ णियमेण दवियमिच्छंति ।
तं पि य उड्डगईयं तहा गई अन्नहा अगई ॥ २९॥ 'गतिक्रियापरिणामवद् द्रव्यं गतिमदेव' इति केचिद् मन्यन्ते, तदपि गति१० क्रियापरिणतं जीवद्रव्यं सर्वतो गमनाऽयोगाद् ऊर्ध्वादिप्रतिनियतदिग्गतिकं तैर्वादिभिरभ्युप
गन्तव्यम्; एवं च तत् तथा प्रतिनियतदिग्गमनेनैव गतिमत्; अन्यथाऽपि गतिमत् स्यात् तदाऽभिप्रेतदेशप्राप्तिवद् अनभिप्रेतदेशप्राप्तिरपि तस्य भवेदित्यनुपलभ्यमानयुगपद्विरुद्धोभयदेशप्राप्तिप्रसक्तेरत्राप्यनेकान्तो नाऽव्यापकः । अभिप्रेतगतिरेव तत्राऽनभिप्रेताऽगतिरिति चेत्, न; अनभिप्रेतगत्यभावाभावे प्रतिनियतगतिभाव एव न भवेत् तत्सद्भावे वा तदवस्थोऽनेकान्तः ॥ २९॥ १५ [दहनादावपेक्षाविशेषेणादहनत्वादिकं निरूप्यानेकान्तस्य व्यापकत्वसमर्थनम् ]
स्यादेतत् 'दहनाद् दहनः, पवनात् पवनः' इत्यत्राप्यनेकान्ते दहनादावदहनादेविरुद्धरूपस्य संभवात् स्वरूपाभावः स्यादित्यत्राह
गुणणिव्वत्तियसण्णा एवं दहणादओ वि दट्ठव्वा ।
जं तु जहा पडिसिद्धं व्वमव्वं तहा होइ ॥ ३०॥ २० गुणेन दहनादिना निर्वर्तितोत्पादिता संज्ञाऽभिधानं येषां तेऽपि दहन-पवनादय एवमेवाऽनेकान्तात्मका द्रष्टव्याः । तथाहि-दाह्यपरिणामयोग्यं तृणादिकं दहतीति दहनः तदपरिणतिखभावं खात्माकाशाऽप्राप्त-वज्राऽण्वादिकं न दहतीति । तेन यद् द्रव्यं यथा दहनरूपतया प्रतिषिद्धं तद् अद्रव्यमदहनादिरूपम् तथा भजनाप्रकारेण स्याद् दहनः स्यान्नेति भवति ततो नाऽव्यापी अनेकान्तः। २५ तथा, 'अदहनः' इत्यत्राप्यनेकान्तः। तथाहि-यद् उदकद्रव्यं यथा दहनरूपेण प्रतिषिद्ध-दहनो न भवतीति ‘अदहनः' इति तदपि न सर्वथा अदहनद्रव्यं भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्तत्वात् अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्ग इत्यनेकान्त एव अदहेनव्यावृत्तस्य तद्रव्यत्वात् ॥ ३०॥ [सर्वस्यापि वस्तुनः प्रतिनियतस्वरूपान्यथानुपपच्या स्वरूपास्तित्व-पररूपनास्तित्वाभ्युप
__ गमेनानेकान्तात्मकत्वप्रदर्शनम् ] ३० नन्वेवं तदतद्रव्यत्वाद् जीवद्रव्यमजीवद्रव्यम् अजीवद्रव्यं च जीवद्रव्यं स्यादित्याशङ्कयाऽऽह
कुंभो ण जीववियं जीवो वि ण होइ कुंभदवियं ति।
तम्हा दो वि अदवियं अण्णोण्णविसेसिया होंति ॥ ३१॥ कुम्भो जीवद्रव्यं न भवतीति जीवोऽपि न भवति घटद्रव्यम् । तस्माद् द्वावपि अद्रव्यमन्योन्यविशेषितौ परस्पराभावात्मकौ ।
१-दयोऽवि-आ० हा० वि• विना । २-नस्य त-वृ०। ३ "दहनद्रव्यलात् ततोऽनेकान्तो दहनादहनयोः"वृ.टि.।