________________
तृतीये काण्डेनित्यतया अणूनां तदपेक्षत्वायोगात् । न च तेर्नु-करणादीनां कार्याणां सकृत् प्रादुर्भाव उपलभ्यते तस्माद् विपर्ययः । तथा च प्रयोगः-ये क्रमवत्कार्यहेतवस्तेऽनित्याः, यथा-क्रमवदडरादिनिर्वर्तका बीजादयः, तथा च परमाणव इति स्वभावहेतुः । यदपि विद्धकर्णोक्तमणूनां नित्यत्वसाधकं प्रमाणम्-"परमाणूत्पादकाभिमतं कारणं सद्धर्मोपेतं न भवति, सत्त्वप्रतिपादकप्रमाणाविषयत्वात्, ५शशशृङ्गवत्" [
] इति । तत्र कुविन्दादेरणत्पादककारणस्य सत्त्वप्रतिपादकप्रमाणविषयत्वाद् असिद्धो हेतुः । यथा च पटादयः परमाण्वात्मकाः कुविन्दोत्पाद्यास्तथा प्रदर्शयिष्यामः । देश-काल-स्वभावविप्रकृष्टानां च भावानां सदुपलम्भकप्रमाणनिवृत्तावपि सत्त्वाविरोधाद् अनैकान्तिकश्च हेतुः । ततो न अण्वनित्यत्वप्रसाधकानुमानप्रतिज्ञाया अनुमानबाधा । न च 'यत एव प्रमाणात्
परमाणवः प्रसिद्धाः तत एव नित्यत्वधर्मोपेता अपि ते' इति तद्राहकप्रमाणबाधितत्वात् तदनित्यत्व१० प्रसाधकानुमानस्याऽनुत्थानम् प्रमाणतोऽप्रसिद्धौ चाणूनामाश्रयाऽसिद्धतया तत् इति वाच्यम्,
सर्वस्य प्रमाणविषयस्य अनित्यत्वधर्मोपेतस्यैव तद्विपयत्वात् अन्यथाभूतस्य तदजनकत्वे तद्विषयत्वानुपपत्तेः “नाऽकारणं विषयः" [
] इति प्रसाधितत्वात् । नित्यस्य चाऽकारणत्वात् । तन्न चतुःसंख्यं परमाण्वात्मकं नित्यद्रव्यं संभवति ।।
नापि तदारब्धमवयवि द्रव्यं संभवति, गुणावयवव्यतिरिक्तस्य तस्याऽनुपलम्भात् न हि शुक्ला१५दिगुणेभ्यः तन्त्वाद्यवयवेभ्यश्च अर्थान्तरभूतं पटादि द्रव्यं चक्षुरादिज्ञानेऽवभासते । न द्व्यणुकादेरनुपलम्भे परमाणूनां विविक्तस्वरूपाणामुपलम्भाऽविषयत्वात् प्रतिभासाऽभावप्रसक्तः आश्रयाऽसिद्धतया अवयव्यादिनिषेधकप्रसङ्गसाधनप्रयोगानुपपत्तिः इति वक्तव्यम्, परमाणूनामेव विशिष्णाकारतयोत्पन्नानां प्रतिभासविषयतया आश्रयासिद्धताद्यनुपपत्तेर्न प्रयोगानुपपत्तिः । एवं च
यद् उपलब्धिलक्षणप्राप्तं सद् यत्र नोपलभ्यते तत् तत्र नास्ति, यथा-क्वचित् प्रदेशविशेषे घटादिरनु२० पलम्भविषयः, गुणाऽवयवार्थान्तरभूतो गुण्यवयवी च दृश्यत्वेनाऽभिमतः नोपलभ्यते च तत्रैव देशे इति स्वभावानुपलब्धिः । न च हेतोर्विशेषणमसिद्धम्, “महति अनेकद्रव्यवत्त्वात् रूपाञ्चोपलब्धिः" [वैशेषिकद०४-१-६] इति वचनात् तयोदश्यत्वेनाऽभ्युपगमात् ।
नर्नु गुणव्यतिरिक्तो गुणी उपलभ्यत एव तद्रूपादिगुणाग्रहणेऽपि तस्य ग्रहणात् । तथाहिमन्दमन्दप्रकाशे तद्गतसितादिरूपानुपलम्भेऽपि उपलभ्यते बलाकादिः, स्वगतशुक्लगुणाग्रहणेऽपि च २५ सन्निहितोपधानावस्थायां गृह्यते स्फटिकोपलः, तथाऽऽप्रपदीनकञ्चकावच्छन्नशरीरः पुमांस्तद्गतश्या
१ "न च सकृदेव स्थूलानां तनुभवनादीनामुदयोऽस्ति क्रमेण तन्वादीनामुत्पत्तिदर्शनात् तस्माद् विपर्ययः"-तत्त्वसं० पजि० पृ. १८७ पं०१।
२ तन्तुक-भां० मां०। ३-नुकार-भां० मां० विना ।
४ "अविद्धकर्णस्त्वणूनां नित्यत्वप्रसाधनाय प्रमाणमाह-परमाणूनामुत्पादकाभिमतं सद्धर्मोपगतं न भवति सत्त्वप्रतिपादकप्रमाणाविषयत्वात् खरविषाणवदिति"-तत्त्वसं० पजि० पृ. १८७ पं० ४ । ५ "सद्धर्मोपगतं नो चेदणूत्पादकमिष्यते । विद्यमानोपलम्भार्थप्रमाणाविषयवतः" ॥
-तत्त्वसं० का० ५५३ पृ० १८७। ६ "नासिद्धेदृश्यते येन कुविन्दाद्यणुकारणम् । परमाण्वात्मका एव येन सर्वे पटादयः"॥
-तत्त्वसं० का० ५५४ पृ. १८७ । ७ “सद्भाहकप्रमाभावान्न वा सत्ता प्रसिध्यति । प्रमाणविनिवृत्तौ हि नार्थाभावेऽस्ति निश्चयः" ॥
-तत्त्वसं० का० ५५५ पृ. १८७ । ८"तदारब्धस्ववयवी गुणावयवमेदवान् । नैवोपलभ्यते तेन न सिध्यत्यप्रमाणकः "॥
-तत्त्वसं० का० ५५६ पृ० १८७॥ ९ "नन्वित्यादिना उद्योतकर-भाविविकादयो हेतोरसिद्धतामुद्भावयन्ति
ननूपधानसंपर्के दृश्यते स्फटिकोपलः । तद्रूपाग्रहणेऽप्येवं बलाकादिश्च दृश्यते ॥ कञ्चकान्तरिते पुंसि तद्रूपाधगतावपि । पुरुषप्रत्ययो दृष्टो रके वाससि वस्त्रधीः"॥
-तत्त्वसं० का० ५५७-५५८ पृ. १८८॥