________________
६३८
तृतीये काण्डे -
द्रव्यस्य लक्षणं स्थिति: जन्म - विगमौ लक्षणं गुणानाम्, एवं सति केवलिनो युज्यत एतल्लक्षणम् -तत्र किल केवलात्मना स्थिते एव चेतनाचेतनरूपा अन्ये अर्था ज्ञेयभावेनोत्पद्यन्ते, अज्ञेयरूपतया च नश्यन्ति । न तु द्रव्यस्याण्वादेर्लक्षणमिदं युज्यते, न हि रूपा जायन्ते अत्यन्तभिन्नत्वात् गव्यश्वादिवत् । अथवा केवलिनोऽपि सकलज्ञेयग्राहिणो नैतल्लक्षणं ५ युज्यते । न चापि द्रव्यस्य अचेतनस्य गुण-गुणिनोरत्यन्तभेदे असत्त्वापत्तेः - असतोश्च खरविषाणादेरिव लक्षणासंभवादिति ॥ २३ ॥
द्रव्यार्थान्तरभूतगुणवादिनः द्रव्यादर्थान्तरभूतगुणा मूर्त:, अमूर्ता वा भवेयुः ? १० यदि मूर्ताः परमाणवो न तर्हि परमाणवो भवन्ति, मूर्तिमद्रूपाद्याधारत्वात् अनेकप्रदेशिक स्कधद्रव्यवत् । अथामूर्ताः, अग्रहणं तेषाम् अमूर्तत्वात् आकाशवत् । ततो द्रव्य-गुणयोः कथंचिद् भेदाभेदावभ्युपगमनीयौ अन्यथोक्तदोषप्रसक्तेः । तथाहि - द्रव्य - गुणयोः कथंचिद् भेदः यथाक्रममेकानेकप्रत्ययावसेयत्वात्, कथंचिदभेदोऽपि रूपाद्यात्मना द्रव्यस्वरूपस्य रूपादीनां च द्रव्यात्मकतया प्रतीतेः; अन्यथा तदभावापत्तेः ॥ २४ ॥
१५
[ प्रस्तुतप्रपश्चस्य शिष्यबुद्धिवैशद्यमात्रप्रयोजनकत्वकथनम् ]
२५
दव्वत्थंतरभूया मुत्ताप्रमुत्ता य ते गुणा होज ।
जइ मुत्ता परमाणू णत्थि अमुत्तेसु अग्गहणं ॥ २४ ॥
ततः
सीसमईविष्कारणमेत्तत्थोऽयं कओ समुल्लावो । इहरा कहामुहं चेव णत्थि एवं ससमयम्मि ॥ २५ ॥ शिष्यबुद्धिविकाशनमात्रार्थोऽयं कृतः प्रबन्धः; इतरथा कथैवैषा नास्ति २० खसिद्धान्ते 'किमेते गुणा गुणिनो भिन्नाः, आहोस्विद् अभिन्नाः' इति, अनेकान्तात्मकत्वात् सकलवस्तुनः ॥ २५ ॥
[ वस्तुत्वे कथंचिद् भेदाभेदात्मके व्यवस्थितेऽपि तदन्यथावादिनां मिथ्यादृष्टित्वकथनम् ] एवंरूपे च वस्तुतत्त्वे अन्यथारूपं तत् प्रतिपादयन्तो मिथ्यावादिनो भवन्तीत्याह - वि अस्थि अण्णवादो ण वि तव्वाओ जिणोवएसम्म । तं चैव य मण्णता अवमण्णंता ण याणंति ॥ २६ ॥
३०
नैवास्ति अन्यवादो गुण-गुणिनोः, नाप्यनन्यवादो जिनोपदेशे द्वादशाङ्गे प्रवचने सर्वत्र कथंचिदित्याश्रयणात् । तदेव अन्यदेवेति वा मन्यमानाः मननीयमेव अवमन्यमाना घादिनोऽभ्युपगतविषयावज्ञाविधायित्वाद् अज्ञा भवन्ति अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादको पायनिमित्तापरिज्ञानाद् मृषावादिवदिति तात्पर्यार्थः । ततोऽनेकान्तवाद एव व्यवस्थितः ॥ २६ ॥ [ अनेकान्तस्य व्यापकतां प्रदर्शयितुमनेकान्तेऽप्यनेकान्ताभ्युपगमनम् ]
ननु 'सर्वत्रानेकान्तः' इति नियमे अनेकान्तेऽप्यनेकान्ताद् एकान्तप्रसक्तिः । अथ नानेकान्ते अनेकान्तवादस्तर्हि अव्यापकोऽनेकान्तवाद इत्यत्राह -
भयणा विहु भइयव्वा जह भयणा भयइ सव्वदव्वाई । एवं भयणा नियमो वि होइ समयाविरोहेण ॥ २७ ॥
३५
यथा भजना अनेकान्तो भजते सर्ववस्तूनि तद्तत्स्वभावतया ज्ञापयति तथा भजrsप अनेकान्तोऽपि भजनीयः -- अनेकान्तोऽप्यनेकान्त इत्यर्थः -- नय - प्रमाणापेक्षया 'एकान्त