________________
ज्ञेयमीमांसा । यदि नाम आम्रादिद्रव्यमेव रसनसंबन्धाद् 'रसः' इति व्यपदेशमात्रमासादयेत् द्विगुणमधुरं रसतः कुतो भवेत् तथा नयनसंबन्धाद् यदि नाम 'कृष्णम्' इति भवेत् अनन्तगुणकृष्णं तत् कुतः स्यात् वैषम्यमेदावगतेनयनादिसंबन्धमात्रादसंभवात् । तथा, पुत्रादिसंबन्धद्वारेण पित्रादिरेव पुरुषो भवेत् न त्वल्पो महान् वेति युक्तः । विशेषप्रतिपत्तेरुपचरितत्वे मिथ्यात्वे वा सामान्यप्रतिपत्तावपि तथाप्रसक्तेरिति भावः ॥ १९॥
[अभेदैकान्तवादिन आशङ्का ] अत्राहाभेदैकान्तवादी
भण्णइ संबंधवसा जइ संबंधित्तणं अणुमयं ते ।
णणु संबंधविसेसे संबंधिविसेसणं सिद्धं ॥२०॥ संबन्धसामान्यवशाद् यदि संबन्धित्वसामान्यम् अनुमतं तव, ननु संबन्ध-१० विशेषद्वारेण तथैव संबन्धिविशेषोऽपि किं नाभ्युपगम्यते ? ॥ २० ॥
[सिद्धान्तवादिनाऽऽशङ्कानिरसनम् ] सिद्धान्तवाद्याह
जुज्जइ संबंधवसा संबंधिविसेसणं ण उण एयं ।
णयणाइविसेसगओ रूवाइविसेसपरिणामो ॥ २१॥ संबन्धविशेषवशाद् युज्यते संबन्धिविशेषः यथा दण्डादिसंबन्धिविशेषजनितसंबन्धविशेषसमासादितसंबन्धिविशेषोऽवगतः। द्रव्याद्वैतवादिनस्तु न संबन्धिविशेषः नापि संबन्धविशेषः संगच्छत इति कुतो रसनादिविशेषसंबन्धजनितो रसादिविशेषपरिणामः ? ॥ २१ ॥
[अनेकान्तवादे अनन्त-द्विगुणादिवैषम्यपरिणतिः कथं घटते इत्याशङ्का तन्निरासश्च ] नन्वनेकान्तवादिनोऽपि रूप-रसादेरनन्त-द्विगुणादिवैपम्यपरिणतिः कथमुपपन्ना? इत्याह-२०
भण्णइ विसमपरिणयं कह एयं होहिइ त्ति उवणीयं ।
तं होइ परणिमित्तं ण व त्ति एत्थऽत्थि एगंतो ॥ २२॥ शीतोष्णस्पर्शवदेकत्रैकदा विरोधाद् भण्यते 'एकत्र आम्रफलादौ विषमपरिणतिः कथं भवति' इति परेण प्रेरिते उपनीतं प्रदर्शितमाप्तेन-तद् भवति परनिमित्तम्-द्रव्यक्षेत्र-काल-भावानां सहकारिणां वैचिच्यात कार्यमपि वैचित्र्यमासादयति तद आम्रादि वस्त विषमरूपतया परनिमित्तं भवति, ने वा 'परनिमित्तमेव' इत्यत्राप्येकान्तोऽस्ति, स्वरूपस्यापि कथंचिन्निमित्तत्वात् । तन्न द्रव्याद्वैतैकान्तः संभवी ॥ २२ ॥ [प्रागुक्तस्य लक्षणस्य बाधाद् भेदैकान्तवादिना द्रव्य-गुणयोर्लक्षणान्तराभिधानम्
अभेदैकान्तवादिना च विकल्प्य तक्षणम् ] द्रव्य-गुणयोर्भदैकान्तवादिना प्राक् प्रदर्शिततल्लक्षणस्यैकत्वप्रतिपस्यध्यक्षबाधितत्वाद् लक्ष-३० णान्तरं वैक्तव्यम् तदाह
दव्वस्स ठिई जम्म-विगमा य गुणलक्खणं ति वत्तव्वं । एवं सइ केवलिणो जुजइ तं णो उ दवियस्स ॥ २३ ॥
अत्राह भेदै-वा. बा. भा. मां० । २ न चाप-वा. बा. भां० मां। ३ वक्तव्यं छ दव्वस्स बृ० आ• हा०वि०।