________________
तृतीये काण्डे
यथा दशसु द्रव्येषु, एकस्मिन् वा द्रव्ये दशगुणिते दशशब्दातिरेकेऽपि दशत्वं सममेव तथैव एतदपि न भिद्यते-'परमाणुरेकगुणकृष्णादिः' इति । एकादिशब्दाधिक्ये गुण-पर्यायशब्दयोर्भेदः वस्तु पुनस्तयोस्तुल्यमिति भावः। न च गुणानां पर्यायत्वे वाचकमुख्यसूत्रम्"गुण-पर्यायवद् द्रव्यम्" [तत्त्वार्थ० अ० ५, सू० ३७] इति विरुध्यते, युगपदयुगपद्भावि५पर्यायविशेषप्रतिपादनार्थत्वात् तस्य । न चैवमपि मतुप्प्रयोगाद् द्रव्यविभिन्नपर्यायसिद्धिः, नित्ययोगेऽत्र मतुविधानात् द्रव्य-पर्याययोस्तादात्म्यात् सदाऽविनिर्भागवर्तित्वात् अन्यथा प्रमाणबाधोपपत्तेः । संज्ञा-संख्या-स्वलक्षणाऽर्थक्रियाभेदाद् वा कथंचित् तयोरमेदेऽपि मेदसिद्धेर्न मतुबनुपपत्तिः ॥ १५॥
[भेदस्य निरासेनाभेदस्य फलितत्वेऽप्येकान्तिना तस्य दााय सोपनयमुदाहरणम् ] १० एवं द्रव्य-पर्याययोभैदैकान्तप्रतिषेधे अभेदैकान्तवाद्याह
एयंतपक्खवाओ जो उण दव-गुण-जाइभेयम्मि । अह पुज्वपडिकुट्ठो उआहरणमित्तमेयं तु ॥ १६ ॥ पिउ-पुत्त-णत्तु-भव्वय-भाऊणं एगपुरिससंबंधो। ण य सो एगस्स पिय त्ति सेसयाणं पिया होइ ॥ १७॥ जह संबन्धविसिट्ठो सो पुरिसो पुरिसभावणिरइसओ।
तह दब्वमिंदियगयं स्वाइविसेसणं लहइ ॥ १८॥ एकान्तव्यतिरिक्ताभ्युपगमवादो यः पुनद्रव्य-गुण-क्रियाभेदेषु स-यद्यपि पूर्वमेव प्रतिक्षिप्तः मेदैकान्तग्राहकप्रमाणाभावात् अभेदग्राहकस्य च 'सर्वमेकं सद्विशेषात् विशेषे वा वियत्कुसुमवदसत्त्वप्रसङ्गात्' इति प्रदर्शितत्वात् । २० तथापि तत्स्वरूपे दायोत्पादनार्थमुदाहरणमात्रमभिधीयते
पितृ-पुत्र-नप्तृ-भाग्नेय-भ्रातृभिर्य एकस्य पुरुषस्य संबन्धस्तेनासावेक एव पित्रादिव्यपदेशमासादयति । न चासावेकस्य पिता-पुत्रसंबन्धतः-इति शेषाणामपि पिता भवति ।
__ यथा प्रदर्शितसंबन्धविशिष्टः पित्रादिव्यपदेशमाश्रित्यासी पुरुषरूपतया निरतिशयोऽपि सन् तथा द्रव्यमपि घाण-रसन चक्षुस्-त्वक् श्रोत्रसंवन्धमवाप्य रूप-रस-गन्ध-स्पर्श२५ शब्दव्यपदेशमात्रं लभते द्रव्यखरूपेणाविशिष्टमपि नहि शकेन्द्रादिशब्दभेदाद् गीर्वाणनाथस्येव रूपादिशब्दभेदाद् वस्तुभेदो युक्तस्तदा द्रव्याद्वैतैकान्तस्थितेः कथंचिद् भेदामेदवादो द्रव्य-गुणयोमिथ्यावाद इति ॥ १६ ॥ १७ ॥ १८॥
[कथंचिद् भेदाभेदं मिथ्या वदतोऽभेदैकान्तपक्षस्य निराकरणम् ] अस्य निराकरणायाह
होजाहि दुगुणमहुरं अणंतगुणकालयं तु जं व्वं । ण उ डहरओ महल्लो वा होइ संबंधओ पुरिसो॥१९॥
१"ववदेसा संठाणा संखा विसया य होंति ते बहुगा। ते तेसिमणण्णत्ते अण्णत्ते चावि विजंते"॥४६॥-पञ्चास्ति ।
२ "भव्वो बहिणीतणए" "भव्वो भागिनेयः"-देशीना. व. ६ गा.१००। तत्रैव च "भचो" इति पाठान्तरम् । ३ पृ. २७२६० १७। ४ भगिनीवद् भनीशब्दोऽपि विद्यते ततो भन्या अपत्यं भाग्नेयः-वाच ।