________________
ज्ञेयमीमांसा। यतः पुनर्भगवता तस्मिंस्तस्मिन् सूत्रे “वण्णपजवेहि, गंधपजवेहि" [भगवतीसू० शत० १४, उ० ४ सू० ५१३] इत्यादिना पर्यायसंज्ञा नियमिता वर्णादिषु गौतमादिभ्यः व्याकृतास्ततः पर्याया एव वर्णादयो न गुणा इत्यभिप्रायः ॥ ११ ॥
[तुल्यार्थत्वाद् आगमाच पर्यायशब्देन गुणस्यैवाभिधानमिति कथनम् ] अथ तत्र गुण एव पर्यायशब्देनोक्तः तुल्यार्थत्वात् आगमाच्च“य एव पर्यायः स एव गुणः” [
] इत्यादिकात् । एतदेवाहपरिगमणं पजाओ अणेगकरणं गुण त्ति तुल्लत्था ।
तह वि ण 'गुण' त्ति भण्णइ पजवणयदेसणा जम्हा ॥१२॥ परि समन्तात् सहभाविभिः क्रमभाविभिश्च भेदैर्वस्तुनः परिणतस्य गमनं परिच्छेदो यः स पर्यायः विषय-विषयिणोरभेदात् ; अनेकरूपतया वस्तुनः करणं-करोतेर्सानार्थत्वात्-ज्ञानम्-१० विषय-विषयिणोरभेदादेव-गुणः इति तुल्यार्थी गुण-पर्यायशब्दौ, तथापि न 'गुणार्थिकः' इत्यभिहितस्तीर्थकृता पर्यायनयद्वारेणैव देशना यस्मात् कृता भगवतेति ॥ १२ ॥
[भगवतो गुणद्वारेणापि देशनादर्शनान्न गुणाभाव इति पूर्वपक्षा] गुणद्वारेणापि देशनायां भगवतः प्रवृत्तिरुपलभ्यते इति न गुणाभाव इत्याह
जंपन्ति अस्थि समये एगगुणो दसगुणो अणंतगुणो ।
रूवाई परिणामो भण्णइ तम्हा गुणविसेसो ॥ १३ ॥ जल्पन्ति द्रव्य-गुणान्यत्ववादिनः-विद्यते एव सिद्धान्ते “एगगुणकालए दुगुणकालए" [भंगवतीसू० शत० ५, उ० ७ सू० २१७] इत्यादि रूपादौ व्यपदेशस्तस्माद् रूपादिर्गुणविशेष एवेत्यस्ति गुणार्थिको नयः उपदिष्टश्च भगवतेति ॥ १३ ॥
[उक्तस्य पूर्वपक्षस्य सिद्धान्तवादिना निराकरणम् ] अत्राह सिद्धान्तवादी
गुणसहमंतरेणावि तं तु पज्जवविसेससंखाणं ।
सिज्झइ णवरं संखाणसत्थधम्मो 'तइगुणो' त्ति ॥१४॥ रूपाद्यभिधायिगुणर्शब्दव्यतिरेकेणापि एकगुणकालः' इत्यादिकं पर्यायविशेषसंख्यावाचकं वचः सिध्यति न पुनर्गुणास्तिकनयप्रतिपादकत्वेन, यतः संख्यानं गणितशास्त्रधर्मः-२५ 'अयं तावद्गुण इति एतावताऽधिको न्यूनो वा भावः' इति गणितशास्त्रधर्मत्वादस्येत्यर्थः ॥ १४॥
[सिद्धान्तिना स्त्रोक्तस्यार्थस्य दृढीकरणम् ] दृष्टान्तद्वारेणामुमेवार्थ दृढीकर्तुमाह
जह दससु दसगुणम्मि य एगम्मि दसत्तणं समं चेव । अहियम्मि वि गुणसद्दे तहेय एवं पि दहव्वं ॥ १५ ॥
१ जीवाजीवाभि० प्रतिप० ३ स. ७८ पृ. ९८ प्र. । जम्बूद्वीपप्र. वक्ष. २ सू० ३६ पृ. १६४ द्वि०। २ भगवतीसू० पृ. ६४० प्र० ।
३ मलयगिरीयायां धर्मसंग्रहणिटीकायां शाकटायन सम्मतं पर्यायलक्षणभित्थमुपन्य स्तं वर्तते
"यदाह शाकटायन:-क्रमेण पदार्थानां क्रियाभिसंवन्धः पर्याय इति"-पृ. १४४ प्र. पं० १२ । ४ भगवतीसू. पृ. २३५ प्र०। ५ "संखाणे xxx सुपरिनिट्ठिए" । "संखाणे त्ति गणितस्कन्धे सुपरिनिष्ठित इति योगः”-[भगवतीसू० श. २ उ० १ सू० ९० पृ० ११२ द्वि० तथा पृ० ११४ प्र०] इत्येवं गणितार्थवाचकः 'संख्यान'शब्दः भगवतीप्रभूतिसूत्रेषु विद्यते। ६ शब्दस्य व्य-भां० मां।
८२ स.प्र.