________________
६३४
तृतीये काण्डे[द्रव्य-गुणयोरेकान्तमेदाशङ्का निराकर्तुं गुणशब्दस्वार्थपरीक्षा] एतत्परिहारायाह
दूरे ता अण्णत्तं गुणसद्दे चेव ताव पारिच्छं।
किं पजवाहिओ होज पनवे चेव गुणसण्णा ॥९॥ ५ दूरे तावद् गुण-गुणिनोरेकान्तेनान्यत्वम्-असंभावनीयमिति यावत्-गुणात्मकद्रव्यप्र. त्ययबाधितत्वाद् एकान्तगुणगुणिभेदस्य । न च समवायनिमित्तोऽयममेदप्रत्ययः, तस्य निषिद्धत्वात् । न चैकत्वप्रत्ययस्य प्रागुपन्यस्तानुमानबाधा, एकत्वप्रत्ययाध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेनैकशाखाप्रभवत्वानुमानस्येव तस्य कालात्ययापदिष्टत्वात् । ततो गुण-गुणिनोरेकान्तान्यत्वस्यासंभवात् गुणशब्दे एव तावत् पारीक्ष्यमस्ति-किं पर्यायादधिके गुणशब्दः? उत पर्याय एव १० प्रयुक्त इति ? अभिप्रायश्च न पर्यायादन्यो गुणः, पर्यायश्च कथंचिद्रव्यात्मक इति विकल्पः कृतः ॥९॥
[गुणस्य पर्यायाद् भेदे तृतीयस्य गुणार्थिकनयस्यापि वचनीयत्वप्रसञ्जनम् ] यदि पर्यायादन्यो गुणः स्यात् पर्यायार्थिकवद् गुणार्थिकोऽपि नयो वचनीयः स्यादित्याह
दो उण णया भगवया वढिय-पज्जवट्ठिया नियया ।
__ एत्तो य गुणविसेसे गुणट्ठियणओ वि जुजंतो ॥१०॥ १५ दावेव मूलनयौ भगवता द्रव्यार्थिक-पर्यायार्थिको नियमितौ, तत्रातः पर्यायादधिके गुणविशेषे ग्राह्ये सति तद्राहकगुणास्तिकनयोऽपि नियमितुं युज्यमानकः स्यात् अन्यथा अव्यापकत्वं नयानां भवेत् अर्हतो वा तदपरिज्ञानं प्रसज्येत ॥ १०॥
[तृतीयस्य गुणार्थिकनयस्य भगवदनुक्तत्वोपपादनम् ] न च भगवताऽसावुक्त इत्याह
जं च पुण अरिहया तेसु तेसु सुत्तेसु गोयमाईणं ।
पज्जवसण्णा णियया वागरिया तेण पज्जाया ॥११॥ १ अत्र टीकानुरोधेन 'पजवाहिए' इति पाठः संभाव्यते अथवा सप्तम्यर्थे प्रथमा समर्थनीया। २ पृ. १०६ पं. १०। ३ पृ. ६३३ पं. ३ ।
४ 'गुण-पर्याययोर्वि भिन्नत्वे पर्यायप्रतिपादकपर्यायार्थिकवद् गुणप्रतिपादको गुणार्थिकोऽपि खतरो नयः कथमागमे नोक्तः' इत्याशङ्कया प्रेरितेन दिवाकरेण उक्तयोर्द्वयोः शब्दयोरेकार्थत्वं वर्णितं परंतु तयोविभिन्नार्थत्वं मन्यमानाभ्यामकलङ्कविद्यानन्दिभ्यां सा शङ्का प्रकारान्तरेणैव अपाकृता, तदपाकरणयुक्तिरपि तयोर्द्वयोर्विभिद्यते, अकलङ्कीया युक्तिर्वस्तुस्थितिस्पर्शिनी विद्यानन्दीया च तर्कानुगामिनी इति द्वयोर्भेदः प्रतिभाति । तद्यथा
"द्रव्यार्थिकः पर्यायार्थिक इति द्वावेव मूलनयौ। यदि गुणोऽपि कश्चित् स्यात् तद्विषयेण मूलनयेन तृतीयेन भवितव्यम् न चास्ति असौ इत्यतो गुणाभावाद् गुण-पर्यायवदिति निर्देशो न युज्यते, तन्न; किं कारणम् ? अर्हत्प्रवचनहृदयादिषु गुणोपदेशात् । उकं हि अर्हत्प्रवचने-'द्रव्याश्रया निर्गुणा गुणाः' इति । अन्यत्र चोक्तम्
गुण इति दव्वविधाणं दव्ववियारो य पजवो भणिदो । तेहि अणूणं दव्वं अजुदवसिद्ध हवदि णिचं॥ यदि गुणोऽपि विद्यते ननु चोकं तद्विषयस्तृतीयो मूलनयः प्राप्नोति, नैष दोषः; द्रव्यस्य द्वावात्मायो सामान्यम् विशेषश्चति । तत्र सामान्यमुत्सर्गोऽन्वयः गुण इत्यनर्थान्तरम् । विशेषो भेदः पर्याय इति पर्यायशब्दः । तत्र सामान्यविषयो नयो द्रव्यार्थिकः, विशेषविषयः पर्यायार्थिकः । तदुभयं समुदितमयुतसिद्धरूपं द्रव्यमित्युच्यते न तद्विषयस्तृतीयो नयो भवितुमर्हति विकलादेशत्वानयानाम् तत्समुदायोऽपि प्रमाणगोचरः सकलादेशत्वात् प्रमाणस्य" इत्यादि
५,३७ तत्त्वार्थराजवा. वा० २ पृ. २४३ । "गुणवद् द्रव्यमित्युकं सहानेकान्तसिद्धये । तथा पर्यायवद् द्रव्यं क्रमानेकान्तवित्तये" ॥२॥
-तत्त्वार्थश्लो. वा. पृ. ४३८ । ५ इदमन्तर्भूतण्यर्थक बोध्यम् सेट्त्वं च बहुलाधिकारात् समर्थनीयम् ।