________________
ज्ञेयमीमांसा।
६३३ रूप-रस-गन्ध-स्पर्शाः असमानग्रहण-लक्षणा यस्मात् ततो द्रव्याश्रिता गुणा इति केचन वैशेषिकाद्याः, स्वयूथ्या वा सिद्धान्तानभिशा अभ्युपगच्छन्ति । तथाहि-गुणा द्रव्याद भिन्नाः, भिन्नप्रमाणग्राह्यत्वात् भिन्नलक्षणत्वाञ्च; स्तम्भात् कुम्भवत् । न चासिद्धौ हेतू, द्रव्यस्य 'यमहमद्राक्षं तमेव स्पृशामि' इत्यनुसंधानाध्यक्षग्राह्यत्वात् रूपादीनां च प्रतिनियतेन्द्रियप्रभवप्रत्ययावसेयत्वात् 'दार्शनं स्पार्शनं च द्रव्यम्' इत्याद्यभिधानादसमानग्रहणता द्रव्य-गुणयोः५ सिद्धा । तथा, विभिन्नलक्षणत्वमपि"क्रियावद् गुणवत् समवायिकारणं द्रव्यम्” [वैशेषिकद० १-१-१५] "द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्षा" [वैशेषिकद०१-१-१६] इति वचनात् सिद्धम् ॥ ८॥
श्रीसिद्धसेनसूरिणाऽपि एकार्थत्वम् विभिन्नार्थवं च द्वयमपि नयभेदेन व्यवस्थाप्य अकलङ्कीय एव पन्थास्तत्त्वार्थभाष्यवृत्ती स्पष्टमनुसृतः । तद् यथा
“गुणाः शक्तिविशेषाः त एव क्रमेण सह च भवन्तः सर्वतोमुखत्वाद् भेदाः पर्यायास्तान् गुणान् पिण्ड घटकपालादीन् रूपादींश्च xxx व्यवहारनयसमाश्रयणेन तु गुणाः पर्याया इति वा भेदेन व्यवहारः प्रवचने । युगपदवस्थायिनो गुणा रूपादयः, अयुगपदवस्थायिनः पर्यायाः । वस्तुतः पर्याया गुणा इति ऐकात्म्यम्"-५, ३७ तत्त्वार्थ० व्या० पृ. ४२८ ।
उक्तयोर्द्वयोरपि शब्दयोरेकार्थवं हृदि संमन्यमानेनापि वादिदेवसूरिणा प्राक्तनतर्कग्रन्थेषु तयोविभिन्नार्थखेन प्रयोगपरिपार्टि पश्यता खीये प्रमाणनयतत्त्वालोकालङ्कारग्रन्थे पर्यायशब्दस्य अर्थ संकोच्य विभिन्नार्थत्वं तयोर्द्वयोः शब्दयोावर्णितम् उपपादितं च स्याद्वादरत्नाकरे । तच्चैवम्
"विशेषोऽपि द्विरूपः-गुणः पर्यायश्चेति ॥ ६ ॥ गुणः सहभावी धर्मः यथा आत्मनि विज्ञानव्यक्ति-शक्त्यादिरिति ॥७॥ पर्यायस्तु क्रमभावी यथा तत्रैव सुख-दुःखादिरिति ॥ ८॥"-परि० ५ पृ० ७३५ ।
श्रीमता हरिभद्रेण तु प्रस्तुते विषये सिद्धसेनदिवाकरीय एव पन्था अनुसृतः प्रतिभासते, स एव च मार्ग उपाध्याययशोविजयेन अनुधावितः सविस्तरमुपपादितश्च"अन्वयो व्यतिरेकश्च द्रव्य-पर्यायसंहितौ । अन्योन्यव्याप्तितो भेदाभेदवृत्त्यैव वस्तु तौ” ॥ ३१ ॥
-शास्त्रवा० समु० स्तब० ७ पृ० प्र० २६१ । "अन्वयो व्यतिरेकश्चेत्येतावंशौ द्रव्य-पर्यायसंज्ञितौ-द्रव्यं पर्यायश्चति द्रव्य-पर्यायपदवाच्यौ। एतेन 'द्रव्यं गुणाः पर्यायाश्च' इति विभागः केषांचिद् अनभिज्ञखयूथ्यानाम् परयूथ्यानां वा निरस्तः, विभिन्ननयग्राह्याभ्यां द्रव्य-पर्यायत्वाभ्यामेव विभागात् । यदि च गुणोऽप्यतिरिक्तः स्यात् तदा तद्ब्रहार्थ द्रव्यार्थिक-पर्यायार्थिकवद् गुणार्थिकनयमपि भगवानुपादेक्ष्यत्, न चैवमस्ति; रूपरस-गन्ध-स्पर्शानामर्हता तेषु तेषु सूत्रेषु “वण्णपजवेहिं” इत्यादिना पर्यायसंज्ञयैव नियमनात् । गुण एव तत्र पर्यायशब्देन उक्त इति चेत्, नन्वेवं गुण-पर्यायशब्दयोरेकार्थत्वेऽपि पर्यायशब्देनैव भगवतो देशना इति न गुणशब्देन पर्यायस्य तदतिरिक्तस्य वा गुणस्य विभागौचित्यम् । 'एकगुणकालः' 'दशगुणकालः' इत्यादौ गुणशब्देनापि भगवतो देशना अस्त्येवेति चेत्, अस्त्येव संख्यानशास्त्रधर्मवाचकगुणशब्देन, न तु गुणार्थिकनयप्रतिपादनाभिप्रायेण" इत्यादि-शास्त्रवा० स्याद्वादक. पृ०प्र० २६१।
१रूप-रसादीनामसमानग्रहण-लक्षणता वैशेषिकैरित्थं वर्णिताऽस्ति-"रूपं चक्षुर्ग्राह्यम्"। "रसो रसनग्राह्यः"। "गन्धो घ्राणग्राह्यः"1x “स्पर्शस्वगिन्द्रियग्राह्यः"।-प्रशस्त० के० पृ० १०४-१०५-१०६ ।
२ एतद् वाक्यमेव श्रीयशोविजयोपाध्यायः खीये गूर्जरभाषानिबद्धे सस्तबके द्रव्यगुणपर्यायरासे इत्थमनूदितवान्___“शक्तिरूप गुण कोइक भाषइ ते नही मारगि निरतई रे. जिन०"। "कोइक दिगंबरानुसारी शक्तिरूप गुण भाषइ छइ, जे माटई ते इम कहइ छइ जे जिम द्रव्यपर्यायर्नु कारण द्रव्य तिम गुणपर्यायर्नु कारण गुण"इत्यादि-ढा० २ दो० १०॥
३ मुद्रिते वैशेषिकदर्शने तु एवं पाठो दृश्यते"क्रियागुणवतू समवायिकारणमिति द्रव्यलक्षणम्"। "द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्"।