________________
६३२
तृतीये काण्डे
__ "सर्वं त्रित्वं द्रव्य-गुण-पर्यायावरोधात्"-१, ३५ तत्त्वार्थ. भा०। “गुणान् लक्षणतो वक्ष्यामः । भावान्तर संज्ञान्तर च पर्यायः । तदुभयं यत्र विद्यते तद् द्रव्यम्"-५, ३७ तत्त्वार्थ. भा० ।
श्रीकुन्दकुन्देन पृथक्तया प्रयुक्त-लक्षितौ अमृतचन्द्रेण च भिन्नार्थतया स्पष्टमेव व्याख्यातौ गुण-पर्यायशब्दौ विभिन्नार्थत्वपरमेव तदीयं तात्पर्य ज्ञापयतः । तद्यथा"अत्थो खलु दवमओ दव्वाणि गुणप्पगाणि भणिदाणि । तेहिं पुणो पजाया पजयमूढा हि परसमया" ॥१॥
-प्रवचन० पृ०११९। "लिंगेहिं जेहिं दव्वं जीवमजीवं च हवदि विण्णादं। ते तब्भावविसिट्टा मुत्तामुत्ता गुणा णेया" ॥ ३८॥
प्रवचन० पृ० १८२। "दव्वेण विणा ण गुणा गुणेहिं दव्वं विणा ण संभवदि । अव्वदिरित्तो भावो दव्वगुणाणं हवदि तम्हा" ॥ १३ ॥
पञ्चास्ति० पृ. २९। अस्य गाथात्रयस्य अमृतचन्द्रीया व्याख्यापि अत्रानुसंधेया। श्रीराजमल्लेन तु अमृतचन्द्रवत् तो द्वावपि शब्दौ भिन्नार्थतया स्पष्टमेव परिभाषितौ । यथा"द्रव्याश्रया गुणाः स्युर्विशेषमात्रास्तु निर्विशेषाश्च । करतलगतं यदेतैर्व्यक्तमिवालक्ष्यते वस्तु" ॥ १०४॥ "क्रमवर्तिनो ह्यनित्या अथ च व्यतिरे किणश्च पर्यायाः । उत्पाद-व्ययरूपा अपि च ध्रौव्यात्मकाः कथंचिच्च" ॥१५॥
-पञ्चाध्या० पृ० ३७, ५४ । पूज्यपादेन तु अन्वयिल-व्यतिरेकिवरूपेण गुण-पर्याययोः स्पष्टमेव भेदं प्रतिपाद्य तद्वाचकयोयोः शब्दयोर्विमिन्नार्थत्वं तत्त्वार्थसूत्रव्याख्यायां प्रदर्शितम् । तथाहि
"के गुणाः ? के पर्यायाः? अन्वयिनो गुणाः व्यतिरेकिणः पर्यायाः। उभयैरुपेतं द्रव्यमिति । उक्तं च
गुण इदि दव्वविहाणं दयविकारो हि पज्जवो भणिदो । तेहिं अणूणं दव्वं अजुदपसिद्ध हवे णिच्चं ॥ ततः सामान्यापेक्षया अन्वयिनो ज्ञानादयो जीवस्य गुणाः, पुद्गलादीनां च रूपादयः । तेषां विकारा विशेषात्मना भिद्यमानाः पर्यायाः। घटज्ञानम् पटज्ञानम् क्रोधः मानः गन्धः वर्णः तीव्रः मन्द इत्येवमादयः"-५, ३८ सर्वार्थसिद्धिः पृ० १७९ ।
श्रीमदकलङ्केन गुण-पर्याययोः द्वयोरपि शब्दयोरेकार्थवम् विभिन्नार्थत्वं च द्वयमपि तत्त्वार्थसूत्रव्याख्यायां समर्थितम् । तचैवम्
___ "गुणा एव पर्याया इति वा निर्देशः । अथवा उत्पाद-व्यय-ध्रौव्याणि न (1) पर्यायाः न तेभ्योऽन्ये गुणाः सन्ति ततो गुणा एव पर्याया इति सति सामानाधिकरण्ये मतौ सति गुण-पर्यायवदिति निर्देशो युज्यते"-५, ३७ तत्त्वार्थराजवा० वा० २ पृ. २४३ ।
"नित्यं द्रव्यमाश्रित्य ये वर्तन्ते ते गुणा इति । पर्यायाः पुनः कादाचित्का इति न तेषां ग्रहणम् तेन अन्वयिनो धर्मी गुणा इत्युक्तं भवति तद्यथा जीवस्यास्तित्वादयः ज्ञान-दर्शनादयश्च पुद्गलस्य अचेतनवादयः रूपादयश्च । पर्यायाः पुनः घटज्ञानादयः कपालादिविकाराश्च"-५, ४० तत्त्वार्थराजवा० वा० ४ पृ. २४४ ।
प्रस्तुतविषये विशिष्टचर्चा विदधता विद्यानन्दिना पूज्यपादसरणिरेव अनुसृता । तथाहि
"गुणाः वक्ष्यमाणलक्षणाः पर्यायाश्च तत्सामान्यापेक्षया xxx विशेषापेक्षया पर्यायाणां नित्ययोगाभावात् कादाचित्कखसिद्धेः"-५, ३८ तत्त्वार्थश्लो० वा० पृ० ४३८ ।
"कः पुनरसौ पर्यायः? इत्याह
तद्भावः परिणामोऽत्र पर्यायः प्रतिवर्णितः । गुणाच्च सहभुवो भिन्नः क्रमवान् द्रव्यलक्षणम्" ॥-५, ४२ तत्त्वार्थश्लो. वा०पृ०४४०।
गुण-पर्यायशब्दयोर्व्याख्यां विदधता श्रीअमृतचन्द्रसूरिणा खीये तत्त्वार्थसारे अकलङ्कमतमेव समाश्रितम् । तथाहि"गुणो द्रव्यविधानं स्यात् पर्यायो द्रव्यविक्रिया । द्रव्यं ह्ययुतसिद्ध स्यात् समुदायस्तयोर्द्वयोः॥९॥ सामान्यमन्वयोत्सर्गौ शब्दाः स्युर्गुणवाचकाः । व्यतिरेको विशेषश्च भेदः पर्यायवाचकाः॥१०॥ गुणैर्विना न च द्रव्यं विना द्रव्याच नो गुणाः । द्रव्यस्य च गुणानां च तस्मादव्यतिरिक्तता ॥११॥ न पर्यायाद् विना द्रव्यं विना द्रव्यान्न पर्ययः । वदन्यनन्यभूतलं द्वयोरपि महर्षयः" ॥१२॥
सनातन०प्र० गु०पृ० १२१॥