________________
ज्ञेयमीमांसा।
६३१
स्यादेतत् पुद्गलद्रव्यस्य तादृग्भूतापरपुद्गलद्रव्यापेक्षया अनेकान्तरूपता युक्ता, प्रत्युत्पन्ने त्वात्मद्रव्यपर्याये कथमनेकान्तरूपता? न, आत्मपर्यायस्यापि ज्ञानादेस्तत्तद्राह्यार्थापेक्षयाऽनेकान्तरूपता पुद्गलवन्न विरुध्यते। तथा द्रव्य-कषाय-योगोपयोग-ज्ञान-दर्शन-चारित्र-वीर्यप्रभेदात्मकत्वा. दात्मनःपुद्गलवदनेकान्तरूपता आर्षे प्रतिपादितैव
"कइविहे णं भंते ! आया पण्णत्ते ? गोयमा ! अट्ठविहे । तं जहा-दविए आयो” [भगवतीसू० शत० १२, उ० १०] इत्यादौ ॥६॥
[आत्मनोऽनेकान्तात्मकत्वस्य बुद्धिगम्यतया प्रदर्शनम् ] इतश्चामेकान्तात्मकता आत्मनः प्रतिपत्तव्येत्याह
कोवं उप्पायंतो पुरिसो जीवस्स कारओ होइ । तत्तो 'विभएयव्वो परम्मि सयमेव भइयव्वो ॥७॥
१० कोपपरिणतिमुपनयन् पुरुषो जीवस्य परभवप्रादुर्भावे निर्वतको भवति, तन्निमित्तस्य कर्मण उपादानात् । कोपपरिणाममापद्यमानश्च पुरुषस्ततः परभवजीवाद् विभजनीयो भिन्नो व्यवस्थापनीयः, कार्य-कारणयोर्मुत्पिण्ड-घटवत् कथंचिद् भेदात्; अन्यथा कार्य-कारणभावाभावप्रसङ्गात् । न चासौ ततो भिन्न एव परस्मिन् भवे स्वयमेव पुरुषो भजनीयः आत्मरूपतया अभेदेन व्यवस्थाप्यत इति भावः घटाद्याकारपरिणतमृद्रव्यवत् कथंचिदभिन्न इत्यनेकान्तः।१५
यद्वा कोपपरिणतिमन्यस्मिन् जीवे उत्पादयन् पुरुषः कारको भवति। ततोऽसौ कोपकारकत्वेन विभजनीयः-कोपपरिणतियोग्ये जीवे कारकः, अन्यत्राकारक इति ॥ ७॥
[द्रव्य-गुणयोः कथंचिदभेदमनिच्छता केषांचित् तयोर्भेदविषयाऽऽशङ्का] द्रव्यं गुणादिभ्योऽनन्यत् तेऽपि द्रव्यादनन्य एवेत्येतदनेकान्तममृष्यमाणा आहुः
रूव-रस-गंध-फासा असमाणग्गहण-लक्खणा जम्हा ।
तम्हा वाणुगया [ण त्ति ते केइ इच्छंति ॥ ८॥ १“कइविहा णं भंते ! आया पण्णता ? गोयमा ! अट्टविहा आया पण्णत्ता । तं जहा-दवियाया कसायाया जोगाया उवओगाथा णाणाया दंसणाया चरित्ताया वीरियाया" इत्यादि संपूर्ण सूत्रम्-भगवतीसू० पृ. ५८८ सू० ४६७ ।
२ वियभइयव्वो गु० मू० विना। ३ रूप-रस-आ० हा० वि० ।
४ 'गुण'शब्दस्य वैशेषिकादिदर्शनेषु प्रतिनियतार्थखेन अतिप्रसिद्धखात् केषुचित् उत्तराध्ययन-तत्त्वार्थादिप्रन्थेषु च तस्य विशिष्टार्थत्वेन निर्देशात् भगवत्यादिषु चागमेषु गुण-पर्यायशब्दयोयोरपि प्रयोगदर्शनात् जैनमते उपतिष्ठमानाम् 'किं गुणशब्दः पर्यायशब्दसमानार्थक एव उत भिन्नार्थकः' इति विप्रतिपत्तिं निराकर्तुकामेन श्रीसिद्धसेनदिवाकरेण गुणशब्दस्य पर्यायशब्दसमानार्थकत्वपरं खकीयं मतमाविष्कृतं मूलगाथायाम् ।
परन्तु तयोर्द्वयोरपि शब्दयोरर्थमर्यादामवगन्तुमपरेषामपि अनेकेषामाचार्याणां तद्विषयाणि विविधानि मतानि परिज्ञातव्यानि सन्ति । तानि चेत्थम्उत्तराध्ययनसूत्रे गुण-पर्यायशब्दयोः पृथक् पृथग निर्देशः तल्लक्षणं चेत्थं निरूपितमस्ति । तथाहि
"गुणाणमासओ दव्वं एगदव्वस्सिआ गुणा । लक्खणं पजवाणं तु उभओअस्सिआ भवे ॥ एगत्तं च पुहत्तं च संखा संठाणमेव य । संजोगा य विभागा य पजवाणं तु लक्खणं ॥
गुणानां तु रूपादीनामतिप्रतीतत्वाल्लक्षणं नोक्तमिति"-अ० २८ गा. ६ तथा १३ । श्रीमदुमास्वातिना सूत्रे भाष्ये च पृथक् पृथक् प्रयुक्ती लक्षितौ च गुण-पर्यायशब्दो तयोविभिन्नार्थलपरं तदीयं तात्पर्य सूचयतः । तथाहि
"गुण-पर्यायवद् द्रव्यम्"-तत्त्वार्थ० ५,३७ ॥