________________
६३०
तृतीये काण्डेव्वं जहा परिणयं तहेव अत्थि त्ति तम्मि समयम्मि ।
विगय-भविस्सेहि उ पन्जएहिं भयणा विभयणा वा ॥४॥ द्रव्यं चेतनाचेतनम् , यथा तदाकारार्थग्रहणरूपतया, घटादिरूपतया वा परिणतं वर्तमानसमये तथैव अस्ति । विगत-भविष्यद्भिस्तु पर्यायैर्भजना कथंचित् तैस्तस्यैकत्वम्, ५विभजना विगतभजना नानात्वं कथंचित् , 'वा' शब्दस्य कथंचिदर्थत्वात् । ततः प्रत्युत्पन्नपर्यायस्य विगत-भविष्यङ्ग्यां न सर्वथैकत्वमिति कथं तत्प्रतिपादकवचनस्याप्रतीत्यवचनतेति भावः ॥४॥
[संभवद्भिः पर्यायैर्घटादेर्वस्तुनः अस्तित्व-नास्तित्वप्ररूपणम् ] ननु घटादेरर्थस्य कैः पर्यायैरस्तित्वम् अनस्तित्वं वा ? इत्याह
परपजवेहिं असरिसगमेहिं णियमेण णिचमवि नत्थि ।
सरिसेहिं पि वंजणओ अत्थि ण पुणऽत्थपजाए ॥५॥ वर्तमानपर्यायव्यतिरिक्तभूत-भविष्यत्पर्यायाः परपर्यायास्तैर्विसदृशगमैर्विजातीयज्ञानग्रा. बैर्नियमेन निश्चयेन नित्यं सर्वदा नास्ति तद् द्रव्यम्, तैरपि तदा तस्य सद्भावे अवस्थासंकीर्णताप्रसक्तेः । सहशैस्तु व्यञ्जनतः सामान्यधर्मैः सत्-द्रव्य पृथिवीत्वादिभिः विशेषा
मकैश्च शब्दप्रतिपाद्यैरस्ति, सामान्य विशेषात्मकस्य शब्दवाच्यत्वात् । सामान्यमात्रस्य तद्वाच्यत्वे १५शब्दादप्रवृत्तिप्रसक्तेरर्थक्रियासमर्थस्य तेनानुक्तत्वात् सामान्यमात्रस्य च तदुक्तस्यार्थक्रियाऽनिर्वर्त
कत्वात्, विशेषमन्तरेण सामान्यस्यासंभवात् सामान्यप्रतिपादनद्वारेण लक्षणया विशेषप्रतिपादनमपि शब्दान्न संभवति, क्रमप्रतिपत्तेरसंवेदनात्; विशेषाणां त्वानन्त्यात् संकेतासंभवतः शब्दावाच्यत्वम् । परस्परव्यावृत्तसामान्य-विशेषयोरप्यवाच्यत्वम् उभयदोषप्रसङ्गात् । तत उभयात्मकं
वस्तु गुण-प्रधानभावेन शब्देनाभिधीयत इति सदृशैर्व्यञ्जनतोऽस्तीत्युपपन्नम् । न पुनर्नैव अर्थ२० पर्यायैः ऋजुसूत्राभिमतार्थपर्यायेण तद् अस्ति, अन्योन्यव्यावृत्तवस्तुखलक्षणग्राहकत्वात् तस्य ।
अयं चार्थः पर्वसत्र एव प्रदर्शित इत्यन्यथा गाथासूत्रं व्याख्येयम-अन्यवस्तुगताः पर्याया विसदृशसदृशतया द्विप्रकाराः, तत्र विसदृशैर्विवक्षितो घटादिवास्ति । सदृशैस्तु कैश्चिदुक्तवदस्ति, कैश्चिन्नेति तात्पर्यार्थः ॥५॥
[वर्तमानपर्यायेऽपि द्रव्यस्यानेकान्तात्मकत्वसमर्थनम् ] २५ ननु प्रत्युत्पन्नपर्यायेण भावस्यास्तित्वनियमे एकान्तवादापत्तिरित्याशङ्कयाह
पञ्चुप्पण्णम्मि वि पन्जयम्मि भयणागई पडइ दव्वं ।
जं एगगुणाईया अणंतकप्पा गमविसेसा ॥६॥ वर्तमानेऽपि परिणाम स्व-पररूपतया सदसदात्मरूपताम्, अधो-मध्योर्ध्वादिरूपेण च भेदाऽभेदात्मकतां च भजनागतिमासादयति द्रव्यम्, यत एकगुणकृष्णत्वादयोऽनन्त३० प्रकारास्तत्र गुणविशेषास्तेषां च मध्ये केनचिद् गुणविशेषेण युक्तं तत् । तथाहि-कृष्णं द्रव्यं तद्रव्यान्तरेण तुल्यम् अधिकम् ऊनं वा भवेत् प्रकारान्तराभावात्, प्रथमपक्षे सर्वथा तुल्यत्वे तदेकत्वापत्तिः, उत्तरपक्षयोः संख्येयादिभागगुणवृद्धि-हानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यंभाविनी।
१-दृशैकस्तु बृ० आ० । २-त्मकां च बृ० आ० हा०वि०। ३षदस्थानकखरूपमित्थमवगन्तव्यम्"वुड्डी वा हाणी वा अणंत-असंख-संखभागेहिं । वत्थूण संख-ऽसंख-ऽणतगुणणेण य विहेआ॥
अनन्ताऽसंख्यात-संख्यातभागैः संख्याताऽसंख्याताऽनन्तगुणनेन च वस्तूनां पदार्थानां वृद्धिर्वा हानिर्वा विधेया। इह हि पदस्थानके त्रीणि स्थानानि भागेन भागाहारेण वृद्धानि हीनानि वा भवन्ति, त्रीणि च स्थानानि गुणनेन गुणकारेणxxx। तत्र भागाहारे अनन्ताऽसंख्यात-संख्यातलक्षणः क्रमः, गुणकारे च संख्याताऽसंख्याताऽनन्तलक्षण इति"।-प्रवचनसारो• गा० ४३२ द्वा० २६० ।