________________
झयमीमांसा।
६२९
बाधकः, अनित्यत्वे एव तस्य बाधकत्वेन प्रतिपादनात् । न चोत्पाद-विनाशयोरपि तत्र प्रतिपत्तावेकान्ततो नित्यत्वमेव, परिणामनित्यतया तस्य नित्यत्वात्; अन्यथा खरविषाणवत् तस्याऽभावप्रसङ्गात् । न चैवं तस्य विकारित्वप्रसङ्गो दोषाय, अभीष्टत्वात् । न च नित्यत्वविरोधस्तथैव तत्तत्त्वप्रतीतेः । न च तस्य तथात्वप्रतिपत्तिर्धान्तिः, बाधकाभावादित्युक्तत्वात् । अथ ज्ञानपर्यायादात्मनो व्यतिरेके भेदेनोपलम्भः स्यात् अव्यतिरेके पर्यायमात्रम् द्रव्यमानं वा भवेत् व्यतिरेकाव्यतिरेक-५ पक्षस्तु विरोधाघ्रातः अनुभयपक्षस्त्वन्योऽन्यव्यवच्छेदरूपाणामेकनिषेधेनाऽपरविधानादसंगतः, असदेतत्। व्यतिरेकाऽव्यतिरेकपक्षस्याऽभ्युपगमात् । न च व्यतिरेकपक्षभावी तद्व्यतिरेकेणो. पलब्धिप्रसङ्गो दोषः, एकज्ञानव्यतिरेकेण ज्ञानान्तरेऽपि तस्य प्रतीतेर्व्यतिरेकोपलम्भस्य सद्भावात् अव्यतिरेकोऽपि, ज्ञानात्मकत्वेन तस्य प्रतीतेः । न च व्यतिरेकाऽव्यतिरेकयोरन्योऽन्यपरिहारेणावस्थानाद् विरोधः अबाधितप्रमाणविषयीकृते वस्तुतत्त्वे विरोधाऽसंभवात्; अन्यथा संशयज्ञानस्यै-१० कानेकरूपस्य वैशेषिकेण, ग्राह्य-ग्राहकसंवित्तिरूपस्य बुद्ध्यात्मनश्चैकानेकस्वभावस्य सौगतेन कथं प्रतिपादनमुपपत्तिमद् भवेत् यदि प्रमाणप्रतिपन्ने वस्तुतत्त्वे बिरोधः संगच्छेतेत्यादि पूर्वमेव प्रति. पादितम् । वर्तमानपर्यायस्यान्वयिद्रव्यद्वारेण त्रिकालास्तित्वप्रतिपादकं प्रतीत्यवचनमिति सिद्धम् ।
परमाण्वारम्भकद्रव्यात् कार्यद्रव्यं व्यणुकादि द्रव्यान्तरं वैशेषिकाभिप्रायतः तेन निःसृतं संबद्धं कारणं परमाण्वादि यत् प्रतिपादयति तदपि प्रतीत्यवचनम् । तथाहि-त्र्यणुकरूपतया १५ परमाणवः प्रादुर्भूताः व्यणुकतया प्रच्युताः परमाणुरूपतया अविचलितस्वरूपा अभ्युपगन्तव्याः अन्यथा तद्रूपतयाऽनुत्पादे प्राक्तनरूपताऽपगमो न स्यात् परमाण्ववस्थावत् प्राक्तनरूपानपगमे वा नोत्तररूपतयोत्पत्तिस्तदवस्थावत् । परमाणुरूपतयाऽपि विनाशोत्पत्यभ्युपगमे पूर्वोत्तरावस्थयोर्निराधारविगम-प्रादुर्भावप्रसक्तिः । न च तदवस्थयोरेवाऽऽधारत्वम् , तयोस्तदानीमसत्त्वात् । न च पूर्वोत्तरकार्यद्रव्यविनाश-प्रादुर्भावयोः कारणस्याविनाश-प्रादुर्भावौ, ततस्तस्यैकान्ततो हिमवद्-२० विन्ध्ययोरिव भेदप्रसक्तेः । न च कारणाश्रितस्य कार्यद्रव्यस्योत्पत्तेर्नायं दोषः, तयोर्युतसिद्धितः कुण्ड-बदरवत् पृथगुपलब्धिप्रसक्तेः । अयुतसिद्धावपि कार्योत्पत्तौ कारणस्याऽप्युत्पत्तिप्रसक्तिः अन्यथाऽयुतसिद्ध्यनुपपत्तेः । अथाऽयुताश्रयसमवायित्वमयुतसिद्धिः, सा च कार्योत्पत्तौ कारणानुत्पत्तावपि भवत्येव, न; समवायासिद्धावयुतसिद्ध्यसिद्धेः । न चायुतसिद्धित एव समवायसिद्धिः, इतरेतराश्रयदोषप्रसक्तेः । न चाध्यक्षतः समवायसिद्धेर्नायं दोषः, तन्त्वात्मकपटप्रतिभासमन्तरेणा-२५ ध्यक्षप्रतिपत्तावपरसमवायाप्रतीते:-'इह तन्तुषु पटः' इत्यत्रापि प्रत्यये 'इह तन्तुषु' इति प्रतिपत्तिस्तन्त्वालम्बना, 'पटः' इति प्रतिपत्तिः पटालम्बना संवेद्यत इति नापरः समवायप्रतिभासः। न च 'इह तन्तुषु पटः' इति लौकिकी प्रतिपत्तिः, किन्तु 'पटे तन्तवः' इति । न चान्यथाभूतप्रतिपस्याऽन्यथाभूतार्थव्यवस्था । न चानुमानादपि समवायप्रसिद्धिः, प्रत्यक्षाभावे तत्पूर्वकस्य तस्य तत्राऽप्रवृत्तेः । अनुमानपूर्वकस्य तु तस्यानवस्थादिदोषाघ्रातत्वात् तत्राप्रवृत्तिरित्यनेकशः प्रति-३० पादितं न पुनरुच्यत इति व्यवस्थितमेतत् तथाभूतवस्तुप्रतिपादकमेवाऽऽप्तवचनम् एकान्तप्रतिपादकं तु नाप्तवचनम्।
- अथवा एकद्रव्यादन्यद् द्रव्यं द्रव्यान्तरं तस्मिन् निःसृतं संबद्धं यत् तदपि प्रतीत्यवचनम् । यथा-दीर्घतरं मध्यमिकाङ्गुलिद्रव्यमपेक्ष्य इस्खतरमङ्गुष्ठकद्रव्यमिति वचः । इस्व-दीर्घादिकस्तु वधर्म एव द्रव्यान्तरविशेषाभिव्यङ्गयः पितेव पुत्रादिना।
यहा गोत्वसहशपरिणतियुक्ताच्छाबलेयद्रव्यात् तत्सदृशपरिणतियुक्तं बाहुलेयादि द्रव्यान्तरं तस्मिन् नि:श्रितं संबद्धं वाचकत्वेन 'गौः' इति यद वचनं तदपि प्रतीत्यवचनम्। न पुनः केवलतिर्यक्सामान्य-विशेष-तद्वदुभयादिप्रतिपादकम् असद्भूतार्थप्रतिपादकत्वाद् उन्मत्तवाक्यवत् ॥३॥ _ [आप्तवचने समुपतिष्ठमानाया एकान्तपक्षाश्रिताया आशङ्काया
अनेकान्तपक्षाश्रयणेन निराकरणम् ] ननु प्रत्युत्पन्नपर्यायस्य स्वकालवदतीताऽनागतकालयोः सत्त्वे अतीताऽनागतकालयोर्वर्तमान. कालतापत्तेः-अन्यथा तद्रूपतया तयोस्तत्सत्त्वासंभवात्-त्रैकाल्यायोगात् तस्य तद्विशिष्टतानुपपत्तेस्तथाभूतार्थप्रतिपादकं वचनमप्रतीत्यवचनमेवेत्याशङ्कयाऽऽह