________________
तृतीये काण्डे -
अध्यक्षादिप्रमाणप्रतीयमानस्य विनिवृत्तिप्रसक्तेरध्यक्षादिप्रमाणबाधापत्तिः । तथा, एकान्तविशेषं सामान्यरहितं वदन् पर्यायेभ्यो विशेषेभ्यो द्रव्यं निवर्तयति, एवं चाङ्गुल्यादिद्रव्याऽव्यतिरिक्तऋजु-वक्रतादिविशेषस्य प्रत्यक्षाद्यवगतस्य निवृत्तिप्रसक्तिः । न चाऽबाधित प्रमाणविषयीकृतस्य तथाभूतस्य तस्य निवृत्तिर्युक्ता, सर्वभावनिवृत्तिप्रसक्तेः अन्यभावाभ्युपगमस्यापि तन्निबन्धनत्वात् ५ तत्प्रतीतस्याप्यभावे सर्वव्यवहाराभाव इति प्रतिपादितम् ।
६२८
अत्राह - 'सामण्णम्मि' इत्यादिकाण्डं नाऽऽरब्धव्यम् उक्तार्थत्वात् यतो न तावदनेन यस्तु अनेकान्तात्मकं प्रतिपाद्यते 'एगदवियम्मि' [ प्र० का० गा० ३१] इत्यादिना 'इहरा समूहसिद्ध’– [प्र० का० गा० २७] इत्यादिना च तस्य प्रतिपादितत्वात् । तथा, 'उप्पायट्ठिइ-भंगा हंदि दवियलक्खणं एये' [ प्र० का० गा० १२] इत्यनेन लक्षणद्वारेण सर्वस्य सतः १० अनेकान्तात्मकत्वं प्रदर्शितमेव । अथ प्रमाणविषयवाक्यनिरूपणार्थमिदं प्रस्तूयते, तदपि न सम्यक्; 'सवियप्प - णिब्वियेप्पं' [ प्र० का० गा० ३५ ] इत्यादिना तस्यापि निरूपितत्वात् वाक्यस्य च वस्तुत्वात् तन्निरूपणे तस्यापि निरूपितत्वान्न तन्निरूपणार्थमप्येतदपुनरुक्तम्, एवमेतत्; किन्तु प्रमेयप्राधान्येन तड्राहकस्य प्रमाणस्यापि निरूपणमित्येतत्प्रदर्शनद्वारेण तत्प्रतिपादकवाक्यावतारः प्राग् विहितः, इह त्वविद्यमानप्रमेयस्य प्रमाणस्य प्रमाणत्वासंभवात् प्रमाणनिरूपणद्वारेण प्रमेय१५ निरूपणमिति प्रदर्शनद्वारेणैतद्वाक्यावतार इत्यदोषः । यद्वा अनेकान्तपक्षोक्तदोषपरिहारोऽनेकधा व्यवस्थाप्यत इति न कश्चिद् दोषः 'सामण्णम्मि' इत्यादि सूत्रसंदर्भविरचने ॥ २ ॥
२०
[ आप्तवचनस्यानेकान्तात्मकवस्तुबोधकत्वेन स्वरूपकथनम् ]
सामान्य-विशेषानेकान्तात्मकवस्तुप्रतिपादकं वचनमाप्तस्य, इतरदितरस्येत्येतदेव दर्शयन्नाहपशुपपन्नं भावं विगय-भविस्सेहिं जं समण्णेइ । एयं पडुच्चवयणं दव्वंतरणिस्सियं जं च ॥ ३ ॥
प्रत्युत्पन्नं भावं - वस्तुनो वर्तमानपरिणामम् विगत-भविष्यद्भ्यां पर्यायाभ्यां यत् समानरूपतया नयति प्रतिपादयति वचः तत् प्रतीत्यवचनं समीक्षितार्थवचनं सर्वज्ञवचनमित्यर्थः, अन्यच्चानाप्तवचनम् ।
ननु वर्तमानपर्यायस्य प्रागपि सद्भावे कारकव्यापारवैफल्यम् क्रिया-गुण-व्यपदेशानां च २५ प्रागप्युपलम्भप्रसङ्गश्च । उत्तरकालं च सद्भावे विनाशहेतुव्यापारनैरर्थक्यम् उपलब्ध्यादिप्रसङ्गश्च । ततो यद् यदैवोपलम्भादिकार्यकृत् तत् तदैव न प्राक् न पश्चात् अर्थक्रियालक्षणसत्त्वविरहे वस्तुनोभावात्, असदेतत्; तस्य प्रागसत्त्वेऽदलस्योत्पत्त्ययोगात् । न चात्मादिद्रव्यं विज्ञानादिपर्यायोत्पत्तौ दलम् तस्य निष्पन्नत्वात् । न च निष्पन्नस्यैव पुनर्निष्पत्तिः अनवस्थाप्रसङ्गात् । न च तत्र विद्यमान एव ज्ञानादिकार्योत्पत्तिः 'तत्र' इति संबन्धाभावतो व्यपदेशाभावप्रसङ्गात्, समवाय३० संबन्धप्रकल्पनायां तस्य सर्वत्राविशेषात् तद्वद् आकाशादावपि तत् स्यात् । अथात्मादिद्रव्यमेव तेनाssकारेणोत्पद्यत इति नाऽदलोत्पत्तिः कार्यस्य भवत्येवमुत्पत्तिः किन्त्वात्मद्रव्यं पूर्वमप्यासीत् पश्चादपि भविष्यति तत्सर्वावस्थासु तादात्म्यप्रतीतेः अन्यथा पूर्वोत्तरावस्थयोस्तत्प्रतिभासो न भवेत् । न चैकत्वप्रतिभासो भ्रान्तः, बाधकाभावे भ्रान्त्यसिद्धेः । न चार्थक्रियाविरोधो नित्यत्वे
१ पृ० ६२७ गा० १ । ५ पृ० ४४१ गा० ३५ ।
२ पृ० ४३० गा० ३१ । ३ पृ० ४२२ गा० २७ । ४ पृ० ४१० गा० १२ । ६ पृ० ६२७ गा० १ ।