________________
सन्मति -प्रकरणम् ।
पञ्चमो विभागः ।
तृतीयः काण्डः ।
[ सामान्यविशेषयोरन्योन्यानुविद्धस्वरूपत्वप्रदर्शनम् ]
एवं दर्शन - ज्ञानात्मनोः परस्पराविनिर्भागरूपतां प्रतिपाद्य इदानीं सामान्य-विशेषयोरन्योन्यानुविद्धं स्वरूपमुपदर्शयन्नाह -
सामण्णम्मि विसेसो विसेसपक्खे य वयणविणिवेसो । दव्वपरिणाममण्णं दाएइ तयं च णियमेइ ॥ १ ॥
५
सामान्ये 'अस्ति' इत्येतस्मिन् विशेषो द्रव्यमित्ययम्; तथा विशेषपक्षे च घटादौ, ‘अस्ति' इत्येतस्य वचनस्य - नाम - नामवतोरभेदात्- सत्तासामान्यस्य, विनिवेशः प्रदर्शनम्, द्रव्य परिणतिमन्यां सत्ताख्यस्य द्रव्यस्य पृथिव्याख्यां परिणतिमन्यां सत्तारूपापरित्यागेनैव वृत्तां दर्शयति विशेषाभावे सामान्यस्याप्यन्यथाभावप्रसक्तेः - यद् यदात्मकं तत् तदभावे न भवति, घटाद्यन्यतमविशेषाभावे मृद्वत् विशेषात्मकं च सामान्यमिति तदभावे तस्याप्यभावः । तथा, १० तकं च विशेषम्, द्वितीयपक्षे सामान्यात्मनि नियमयति विशेषः सामान्यात्मक एव तदभावे तस्याप्यभावप्रसङ्गात् यतः सामान्यात्मकस्य विशेषस्य सामान्याभावे घटादेरिव मृदभावे न भावो युक्तः ॥ १ ॥
[ सामान्यविशेषयोरेकान्तभेदं वदतो दोषापत्तिप्रकटनम् ]
न च विशेषाद् व्यतिरिक्तं सामान्यमेकान्ततः, तस्माद् वा विशेषा नियमतो भिन्ना इत्यभ्यु-१५ पगन्तव्यम् अध्यक्षादिप्रमाणविरोधात् इत्याह
एतणिव्विसेसं एयंत विसेसियं च वयमाणो ।
दव्वस्स पज्जवे, पज्जवाहि दवियं णियत्तेइ ॥ २ ॥
एकान्तेन निर्गता विशेषा यस्मात् सामान्यात् तद् विशेषविकलं सामान्यं वदन् द्रव्यस्य पर्यायान् ऋजुत्वादीन् निवर्तयति ऋजु - वक्रतापर्यायात्मि(त्म) काङ्गुल्यादिद्रव्यस्य २०
१ श्रीहरिभद्रेण ईदृशमङ्गुल्युदाहरणमित्थं स्पष्टितं धर्मसंग्रहण्याम्
“दीसइ पच्चक्खं चिय एयं वक्कम्मि उज्जुए होंते । अंगुलिदव्वम्मि परं भावेतव्वं इहेकेण ॥ वक्कत्तमंगुलीओ कहंचि अभिन्नं ति तीए जोगाओ । भिन्नं पि अवत्थंतरभावे ततो नियत्तीओ ॥ तं चि कहूं चवत्थंतरे वि तं तुलबुद्धितो हंदि । एतेऽन्नते भिजेज इमी वि तह चेव" ॥ - गा० ३४८-३५० पृ० १५२-१५३ । “सेणूणं भंते! अत्थितं अत्थित्ते परिणमइ नत्थित्तं नत्थित्ते परिणमइ ? -[ भगवतीसू० श० १ उ० ३ सू० ३२] इत्यादि सूत्रं विवृण्वन् श्रीअभयदेवसूरिरीदृशमङ्गुलिदृष्टान्तं दर्शितवान् ।
८१ स० प्र०