________________
(३) तृतीयमपि परिशिष्टं द्वितीयपरिशिष्टमिव ज्ञेयम् , नवरम् सन्मतिसूत्ररहस्यं यथार्थ प्राप्य वकृतौ तदवतारयत्सु प्रधानानां श्रीमतां यशोविजयोपाध्यायानां प्रायस्सर्वे मुद्रिता अन्था अत्र परिशिष्टे उपयुक्ताः।
__ श्रीमता उपाध्यायेन स्वकृतौ यत्र या गाथा उद्धृता तत्र तस्या विवरणमपि कृतम् । तच्च विवरणं क्वचित् कचित् खतन्त्रम्-प्रस्तुतां टीकां नानुसरति । एकस्मिन् परिशिष्टे ताः सर्वाः सविवरणा गाथाः संयोज्य मुद्रणीया येन तत्संग्रहः सन्मतिलघुटीकेव स्यादित्यासीदस्माकं भावना । परन्तु तदर्थ पृथगेवैको भागो मुद्रणीयो भवेत् तत्र च स्यादसह्यः कालविलम्बः इति न तत्करणे प्रयत्नं कृतवन्तः, किन्तु इदं परिशिष्टमेवैतादृशं व्यधायि यत् केनचित् व्युत्पन्नेन च्छात्रेणापि तद्दर्शनमात्रेणैव स संग्रहः सुकरः ।
(४) काण्डस्य गाथायाश्चाङ्केन तव्याख्यायाश्च पृष्ठाकेन सह मूलगाथागतशब्दानां कोशो दर्शितश्चतुर्थे परिशिष्टे । यः शब्दो यत्र यत्र यतिकृत्वः समागतस्तस्य तानि सर्वाणि स्थलानि दर्शितानि ।
(५) पूर्वपक्षं दर्शयितुं खमतं संवदितुं च टीकाकृता यानि अन्यग्रन्थगतानि गद्यपद्यानि अवतरणानि उद्धृतानि तानि सपृष्ठाकं दर्शितानि पञ्चमे परिशिष्टे । तथा यानि अवतरणानि सटिप्पणानि तेषां पाश्चे कोष्ठके टिप्पणाङ्कोऽपि निहितः । (तेषां च टीकाकारादर्शितानि मूलस्थलान्यपि संशोध्य संशोध्य दर्शितानि यथासम्भवम् , येषाञ्च मूलस्थानानि न प्राप्तानि तेषां पार्श्व ग्रन्थे [ ] एतादृशं रिक्तं चिदं विहितम)
(६) टीकाकारेण दर्शितानां ग्रन्थकाराणां ग्रन्थानां च नामानि स्थापितानि षष्ठे परिशिष्टे । (७) टीकाकृता चर्चितानां वादानां वादिनां च नामानि निर्दिष्टानि सप्तमे परिशिष्टे ।
(८) दर्शनशास्त्रगोचरा मुख्यतया तु जैनपरिभाषाविषयाः टीकाकारनिर्दिष्टा विशिष्टाः शब्दाः सपृष्ठाकं दर्शिता अष्टमे परिशिष्टे । तथा ये शब्दाः सविवेचनास्तेषां पार्श्वे कोष्ठके तट्टिप्पणाङ्कोऽपि दर्शितः ।
(९) समग्रे ग्रन्थे टीकोपयुक्ता देश-स्थल-रूढाचार-पदार्थसंज्ञासूचका ग्रन्थान्तरविषयबोधकाश्च ऐतियप्रधानाः शब्दाः सूचिता नवमे परिशिष्टे । तथा तेषु ये शब्दा विवेचितास्तेषां पार्श्वे कोष्ठके टिप्पणा. कोऽपि निक्षिप्तः।
(१०) टीकाकारानिर्दिष्टस्थलेष्ववतरणेषु येषां स्थलानि अस्माभिरुपलब्धानि तानि नामग्राहं निर्दिष्टानि दशमे परिशिष्टे ।
(११) प्रतिप्राप्तानि टिप्पणानि तत्तत्प्रतिनामग्राहमस्मत्सन्निवेशितानि टिप्पणानि च सपृष्ठावं निवेशितानि एकादशे परिशिष्टे ।
(१२) सम्पादनप्रवृत्तौ उपयुक्तानां ग्रन्थानां ग्रन्थकाराणां च नामानि सपृष्ठाई सटिप्पणाकं च निर्दिष्टानि द्वादशे परिशिष्टे ।
(१३) सम्पादनोपयुक्तानां ग्रन्थानां मुद्रणस्थानानि सम्पादकनिर्देशो मुद्रणसमयादिकं च निर्दिष्टं त्रयोदशे परिशिष्ट ।
____ श्रीमत्प्रवर्तकश्रीकान्तिविजयशिष्याणां तत्रभवतां श्रीचतुरविजय-पुण्यविजयानामामारं प्रतिभागं समुल्लिखन्तो वयमस्मिन्भागेऽपि तान्भूरि भूरि स्मरामः । अस्य भागस्य परिशिष्टसंबन्धि षष्ठभागगतानुवादसंबन्धि च सर्वं प्रूफशोधनादिकं तैरेव महानुभावैर्व्यधायि । यदि ते एतन्नाकरिष्यन् तर्हि शरीरव्यथाबाधिता वयं किमपि कर्तुं समर्था न अभविष्याम । परिशिष्टविधाने सहायकानां सहृदयविद्वन्मित्राणां रसिकलालानामपि सादरं नामस्मरणमावश्यकम् । सम्पादनप्रवृत्तौ धनपुस्तकादिसाहाय्यकर्तृणों जैनसाहित्यरसिकानां श्रीमोदीकेशवलालानामपि नाम न विस्मयते ।
सुखलाल: बेचरदासश्च ।