________________
अद्यतनः क्रान्तदर्शीव सिद्धसेनाचार्यों न इयतैव कथनेन विरमति किन्तु किञ्चिदधिकमपि उद्घोषयति ।
"खसिद्धान्तं परसमयं च गभीरतया अजानन्तः क्रियाकाण्डमेव च प्रधानया अवलगन्तस्ते कमपि क्रियाकाण्डमारोद्देशमेव नावबुध्यन्ते ।" ( गा० ६७)
उपर्युक्तगाथागतैराचार्यवचनैस्तत्समयतमोमयपरिस्थितिभेदकमाचार्यतेजः सुस्पष्टतया प्रकटीभवति ।
(३) टीकाकृता काण्डद्वये या टीकाशैली योजिता सैवास्मिन्काण्डेऽपि दृश्यते । मूलग्रन्थमाश्रित्य खसमयं यावत् स्थिरीभूतानि सर्वाणि तत्त्वचिन्तनानि अस्यां टीकायां योजनीयानीत्युद्देशेनेयं टीका कृता इत्यवभाति । स चोद्देशस्त्रिष्वपि काण्डेषु समान एव व्यवस्थितो दृश्यते ।
ब्राह्मणत्वं नित्यमनित्यं वेति जिनमूर्तिराभूषणैराभूषणीया न वेति च चर्चाद्वयं टीकाकृता अस्य काण्डस्य टीकायां प्रक्रान्तम् । तदेतत् टीकाकृत्समयस्थितिं संसूचयितुमलम् ।
"कम्मुणा बम्भणो होइ कम्मुणा होइ खत्तिओ" ( उत्तराध्ययन अध्ययन २५ गाथा ३२) इत्यागमवचनाद् जिनशासनप्रवराः कामपि जातिं जातित्वेनैव न उत्कर्षयन्ति किन्तु गुणैः प्रधानामेव प्रधानां मन्यन्ते । बौद्धानामपि जातिवादविषये ईदृशमेव मतम् । तच्च आचार्यशान्तरक्षितेन तत्त्वसङ्घहे सुसमर्थितम् । गुणप्रधानामेव जातिं सुजातिं मन्वानः श्रीज्ञातपुत्रीयः सिद्धान्तो ज्ञातपुत्रजिननिर्वाणानन्तरमपि तदनुयायिभिश्चिरमाचरितः, परन्तु अधुनातनजैनेषु तदाचरणा न दृश्यते । ते तु केवलं जातिमेव प्रधानां मन्वाना अधुनातनब्राह्मणा इव दृश्यन्ते । एतादृशविपरीताचारप्रसरणे जातिप्रधानब्राह्मणसमाजप्रबलसंसर्गमन्तरा नान्यत्किमपि प्रबलं कारणमवभाति । यच्च मूर्तिभूषाविषयो विवादोऽत्र टीकाकृता उदलेखि स तु साम्प्रदायिक एव । वस्तुतस्तु एतादृशेषु तत्त्वविचारग्रन्थेषु एते साम्प्रदायिका विवादा न स्थानमर्हन्ति । किन्तु "तत्त्वादूढिर्बलीयसी" इति न्यायेन तत्त्वविचारेष्वपि अहो! रूढिसाम्राज्यं सुदुर्निवारम् ।
(४) टीकाप्रतिषु कापि काण्डनाम्नामुल्लेखो न विद्यते । केवलं मूलप्रतौ नयकाण्डेति नाम्ना प्रथम काण्डं जीवकाण्ड इति नाम्ना च द्वितीयं काण्डमभिहितं तृतीयस्य तु किमपि नाम न निर्दिष्टम् । अत्र तु मूलग्रन्थविषयमनुसृत्य काण्डनामानि अस्माभिः परिवर्तितानि प्रकल्पितानि च ।
पूर्वमुद्रितेषु चतुर्षु अपि भागेषु मुखपृष्ठे परम्पराप्रसिद्धं 'सम्मति' इति नाम मुद्रितम् । अस्मिन् भागे तु तत्स्थाने 'सन्मति' इति नाम सविशेषं विचार्य योजितम् । एतद्विषया सप्रमाणा चर्चा षष्ठे भागे प्रस्तावनायामस्माभिः कृता ।
(५) पाठान्तरयोजनपद्धतिः प्रतीनामुपयोगश्च पूर्वमुद्रितभागवदत्रापि अवगन्तव्यः । केवलं 'ल' संज्ञिका ताडपत्रप्रतिः प्रान्ते त्रुटिताऽऽसीत् ।
परिशिष्टानां परिचयः। ___ ग्रन्थरहस्यं संशोधकोपयोगि ऐतिहासिक वस्तु सम्पादनशैलीं चावगन्तुं ग्रन्थान्ते त्रयोदश परिशिष्टानि अकारादिक्रमेण योजितानि । तत्स्वरूपं यथा
(१) सन्मतेः सर्वा मूलगाथाः काण्डाकेन गाथाकेन च सह प्रथमपरिशिष्टे दर्शिताः ।
(२) श्वेताम्बरीया दिगम्बरीयाश्च ये ये न्यायग्रन्थाः प्रस्तुतसम्पादनाय अस्माभिरवलोकितास्तेषु यत्र यत्र सन्मतिसूत्रमूलगाथा उद्धृतास्तत्तद्गाथास्थलदर्शकं द्वितीयं परिशिष्टम् । नयचक्र-सिद्धिविनिश्वयप्रमुखा हस्तलिखिता दुर्लभा ग्रन्था अपि अत्र परिशिष्टे उपयुक्ताः ।