________________
१८
अस्मिन्नपि काण्डे टीका कियत्सु स्थलेषु विस्तारिता कियत्सु च संक्षेपिता । प्रमाणतोऽस्य काण्डस्यापि व्याख्यामानं न न्यूनं प्रतिभाति । अस्मिन्भागेऽपि कणादमतपरीक्षाप्रकरणं सर्वथा शान्तरक्षितकृततत्त्वसङ्ग्रहप्रतिच्छायैव । तच्चास्माभिस्तत्त्वसङ्ग्रहकारिकाः पञ्जिकां च टिप्पणे उपन्यस्य सुस्पष्टितम् ।
(२) न्यायविषयके ग्रन्थे सर्वत्रापि प्रमाणं च प्रमेयं चेति तत्त्वद्वयी एव प्रस्तुता । जैनन्यायग्रन्थे तु सैव नयतत्त्वाधिका तत्त्वत्रयी चर्च्यते । प्रस्तुते प्रकरणे प्रथमे नयो द्वितीये प्रमाणम् तृतीये च काण्डे प्रमेयमिति तत्त्वत्रयी चर्चिताऽस्ति ।
गौतमो दिग्नागो वा स्वीये स्वीये प्रकरणे 'जगति प्रधानानि तत्त्वानि इमानि, तेषां भेदाः प्रभेदा एते, तेषु एकैकस्य खरूपमेतत्' इत्यादिपद्धत्या यथा प्रमेयं चर्चयाञ्चकार तथा नायमाचार्योऽस्मिन् प्रकरणे किमपि तादृशं चर्चयामास । किन्तु पदार्थखरूपं कया रीत्या बोद्धव्यं कया रीत्या च पदार्थों दर्शनीयो येन सुज्ञानः स्यादित्येतादृशी बोधसरणी सविस्तरमत्र प्रकरणे ग्रन्थकृता निरूपिता । यच्च संसारे जीवजडविषया या या विरोधिन्यः परम्पराः परम्परातः प्रचलिताः कर्णोपकर्णमायाताश्च सन्ति तासां सर्वासां समन्वयबीजमपि अत्र प्रकरणे प्रतिष्ठापितमाचार्येण ।
एकः कश्चिदनुभवी कथयति 'यदिदं दृश्यमदृश्यं वा तत्सर्वं नित्यम्' । द्वितीयश्च महानुभावः कथयति 'यदिदं सत् तत्सर्वमनित्यम्' इति । यां मूलदृष्टिमालम्ब्य एते विरुद्ध मते तैस्तैरनुभविभिः स्थिरीकृते सा दृष्टिर्यदि तत्त्वजिज्ञासुभि येत-विचारगोचरं प्राप्येत तदा तयोविरुद्धयोर्मतयोर्विरोधस्तूर्णमुपशान्तः स्यात् । या च तद्विरोधशमनी सरला समाधायिका पद्धतिः सैवास्मिन्प्रन्थे सुस्पष्टिता । सा दृष्टिरनेकान्तवादो विभज्यवादः स्याद्वादो वा इति नाम्ना जैनशास्त्रे विश्रुता।
जैनागमेषु तस्या दृष्टेबीजं विद्यत एव परन्तु वैज्ञानिकेन इव मूलकृता सिद्धसेनाचार्येण प्रस्तुते प्रकरणे सा दृष्टिस्तदीयांशान् पृथक् पृथक् कृत्वा विशदीकृत्य च दर्शिता । अनेकान्तवाददृष्टेरेतादृशं शास्त्रीय पृथक्करणमस्मिन् पुस्तक एव प्रथमं प्राप्यते ।
अयं महावादी सिद्धसेनाचार्यों रूढमार्गानुगामी नासीत् किन्तु स्वयुगव्याप्तं सामाजिकाज्ञानान्धतमसं दूरीकर्तुं स दिवाकरो दिवाकर एव जातः । एतच्चास्य प्रकरणस्य प्रान्तस्थिताभिर्गाथाभिः स्पष्टमवगम्यते ।
इतरेषां सत्प्रवृत्ति तिरस्कुर्वन्तः खप्रवृत्तिमेव सत्यशोधिकां च मन्यमानाः सूरयो न सत्याचारपराः किन्तु केवलं शब्दग्रहाविष्टा वाक्पटव एव इत्यपि जगति दृश्यते । ततश्च निखिलः समाजोऽपि उत्पथानुगो भवति । तादृशं समाजं पश्यन्तोऽपि ते शब्दस्पर्शपरा गुरवः कुनृपा इव खसत्तासाधकं दुराग्रहं न त्यजन्ति । एतादृशान् सिद्धान्तपण्डितंमन्यमानान् सूरीन् सिद्धसेनाचार्या एवं शिक्षयन्ति
"जिनशासनरागमात्रेण कश्चित् सिद्धान्तज्ञो न हि भवितुमर्हति । शास्त्रज्ञोऽपि कश्चिदेकान्तग्रहण तत्त्वनिरूपणायां निश्चितो न भवति ।" (गाथा ६३ )
"सूत्रमेवार्थस्य मूलम् अतस्तद्रटनमेव श्रेय इति मन्यमानाः सूत्रगतं व्यापकमर्थ न विचारयेयुः तदा कदाऽपि ते न सूत्रार्थ प्रतिपत्तुं समर्थाः । सूत्रार्थ सम्यक्तया त एव प्रतिपद्यन्ते ये दुर्गमं नयवादगहनवनमवगाहितुमुत्साहिन इति ।" (गा० ६४)
सूत्रं रटद्भिस्तद्रटनापेक्षया तदर्थसंपादने भूरि भूरि यतितव्यम् । तदकुर्वन्तः कियन्तो धृष्टा अशिक्षिताश्चाचार्या महापुरुषाज्ञां विडम्बयन्ति ।" (गा० ६५) ___"यमज्ञा ज्ञानिनं मन्यन्ते पूजयन्ति च यस्य च शिष्यपरिवारो गणनाकोटिमागत एतादृश आचार्यो यद्यनेकान्तस्वरूपं सम्यग् नावगच्छेत् तर्हि स जिनसिद्धान्तद्रोही बोध्यः ।" (गा० ६६) ।