________________
सम्पादकीयं निवेदनम् ।
-ALI
सन्मतेरस्मिन् पञ्चमे भागे तृतीयं काण्डं समाप्तम् । एवं च काण्डत्रयमितः सटीकोऽयं समग्रः समूल ग्रन्थः पञ्चसु भागेषु पूर्णो जातः ।
गतवर्षारम्भ एव तृतीयं काण्डं मुद्रितमासीत् । ततश्च अन्यभागवदयमपि मूलटीकाटिप्पणियुक्तः पञ्चमो भागः प्राकाश्यं नेतुं योग्योऽभवत् परन्तु अनेन भागेन सह मुद्रणीयानि उपयोगीनि आवश्यकानि च परिशिष्टानि क्रियमाणानि आसन्, अत एवायं भागो विलम्बेन विदुषां करतलमागतः । अस्य भागस्य संबन्धे निवेदनीयानि मुख्यानि वस्तूनि इमानि ।
(१) तृतीयस्य काण्डस्य मूलटीकयोः परिमाणम् ।
(२) मूलस्य विषयो मूलकारस्य च तेजस्विता ।
(३) टीकावरूपचर्चा टीकाकारसमयस्य च परिस्थितिः ।
(४) काण्डानां नामानि पूर्वमुद्रितस्य च ग्रन्थनाम्नः परिवर्तनम् । (५) प्रतीनामुपयोगः परिशिष्टानां च परिचयः ।
(१) मूलमात्रे लिखित पुस्तकेऽस्य भागस्य सप्ततिर्गाथाः प्राप्यन्ते । मूलसहिते च तादृशे टीकापुस्तके गाथानामेकोनसप्ततिर्लभ्यते । मूलमात्रपुस्तके या सप्ततितमी गाथा सैव सटीके पुस्त अन्तिमा अर्थादेकोनसप्ततितमी गणिता । या गाथा मूलपुस्तके एकोनसप्ततितमी सा टीकापुस्तकेषु कापि न दृश्यते । अतश्च सा मूलपुस्तकगता गाथा ७५७ पृष्ठे पाठान्तरत्वेनास्माभिर्निर्दिष्टा ।
1
सन्मतिप्रकरणस्यान्तिमा गाथा आशीर्वादरूपं मङ्गलं सूचयति । इयं च मूलपुस्तकगता अन्तिमा विवादग्रस्ता गाथा नमस्कारात्मकमङ्गलरूपा । शास्त्रस्यादौ मध्येऽन्ते च मङ्गलमावश्यकमिति प्राचीनः प्रवादः । प्रवादानुसारेण चास्मिन् प्रकरणे आदावन्ते च मङ्गलात्मकता व्यक्ता । यदि मूलपुस्तकगता अन्तिमा गाथा प्रक्षिप्ता नावधार्येत तदा प्रकरणस्यान्ते मङ्गलद्वयापत्तिजयेत । न चान्ते मङ्गलद्वयस्य कश्चिदुपयोगः । अतो मूलपुस्तकगता अन्तिमा नमस्कारात्मकमङ्गलसूचिका गाथा अधिकैव भवेत् मूलकारकृतिरिति ।
अन्यच्चास्य प्रकरणस्य सर्वा अपि गाथाः टीकाकारेण व्याख्याताः । या गाथा श्रवणमात्रेणैव गतार्था साऽपि टीकाकृता खव्याख्यया नास्पृष्टा रक्षिता । इयं च गाथा यदि मूलकारकृतिरेवाभविष्यत् तदा टीकाकारस्तामवश्यं व्याख्यास्यदेव । अन्ततो नान्यत्किमपि किन्तु इमां गाथां निर्दिश्य 'सुगमार्थी' 'स्पष्टार्था' वेत्युल्लेखं तु सोऽकरिष्यदेव । परन्तु टीकायाः कस्मिंश्चित् प्राचीनतमे एकस्मिन्नपि पुस्तके नेयं गाथा उल्लिखिता दृश्यते । अतो विवादाध्यासिता सा गाथा अनेकान्तवादस्य केनचिद्भक्तेन तन्माहात्म्यदर्शनाय अस्मिन् प्रतिष्ठिते अनेकान्तवादप्रकरणे प्रक्षिप्ता भवेदिति अस्मन्मतम् ।
1
बृहट्टिप्पणिकृता अस्य प्रकरणस्य गाथानां सप्तत्यधिकं शतं निर्दिष्टम् | जैनग्रन्थावल्यां तु अष्टषष्ट्यधिकं शतं प्राप्यते । उपयुज्यमानासु सर्वास्खपि सटीक प्रतिषु कापि षट्षष्ट्यधिकशतादतिरिक्ता एकाऽपि गाथा न लभ्यते । अतस्तस्या अधिकाया गाथायाः पूर्वोक्तमेव निराकरणं स्थिरीकृतमस्माभिः । ततश्चास्य काण्डस्य एकोनसप्ततिर्गाथाः प्रमाण्यन्ते ।
३