________________
५९७
ज्ञानमीमांसा । [ केवलज्ञान-दर्शनयोः सहभावित्वे विप्रतिपद्यमानानां केषांचिन्मतस्य साधिक्षेपं निर्देशः] अयं चागमविरोधीति केषांचिन्मतमुपदर्शयन्नाह
केई भणंति “जइया जाणइ तइया ण पासइ जिणो"त्ति । सुत्तमवलंबमाणा तित्थयरासायणाऽभीरू ॥४॥
१"जिनभद्रक्षमाश्रमणादीनाम्"-ल.टि.।।
प्रस्तुतां केवलज्ञान-केवलदर्शनोपयोगचर्चा तुलनादृष्ट्या ऐतिहासिकदृष्ट्या चाभ्यसितुं जैनेतरदर्शनगतां सर्वज्ञवमीमांसां पूर्वं संक्षेपेणात्र पक्षप्रतिपक्षविभागपुरस्सरमुपन्यस्य अनन्तरं जैनदर्शनगता सा किश्चिद् विस्तरतः प्रदर्शयितुमभिप्रेता । . तथाहि-प्रथमं तावत् भारतीयदर्शनेषु सर्वज्ञत्वसम्भवासम्भवविषयावेव द्वौ पक्षौ स्तः । चार्वाका जैमिनीयाश्च सर्वज्ञ• खासम्भवपक्षग्राहिणः [मीमां०१-१-२ शाबरभा० तथा श्लो० वा. श्लो. ११३ प्रभृति, मीमां०१-१-४ शाबरभा० श्लो. वा० श्लो० २६] तदितरे च सर्वे दार्शनिकाः सर्वज्ञत्वसंभवपक्षग्राहिणः सन्ति ।
सर्वज्ञवसम्भवपक्षमाहिष्वपि केचिदीश्वरवादिनः केचिचानीश्वरवादिनः । तत्र ईश्वरवादिनो वैशेषिक-नैयायिक-पातजलौपनिषदाः अनीश्वरवादिनश्च साङ्ख्य-बौद्ध-जनाः।
ईश्वरवादिन ईश्वरे अनाद्यनन्तं-नित्यं-सर्वज्ञवं मन्यमानाः योगप्रकर्षपराकाष्ठाप्राप्तेषु केषुचिद् जीवात्मस्वपि सादिसान्तं-अनित्यं-सर्वज्ञवं स्वीकुर्वते [ कन्दली पृ० ५६ पं० २४, प्रशस्तपा० पृ. १८७ पं० ७ तथा कन्दली पृ० १९५ पं० १९ । न्यायद० ४-१-२१ वात्स्या. भा० न्यायवा० न्यायवा० ता० टी० । न्यायमञ्ज० आ० २ पृ० १०३ पं० १९ तथा आ० ३ पृ. २०० पं० २८ । योगद० १-२५, ३-४९, ५५४-३१ भा० टी० । ब्रह्मसू० १-१-३,४,५,२-१-१, १४,२-३-१८ शाङ्करभा० भा० । श्रीभा० ।] परन्तु अनीश्वरवादिनः केषुचिद् योगिमूर्धन्येष्वेव जीवात्मसु सर्वज्ञखमभ्युपगच्छन्ति-["बुद्धानां हि सा भगवतां सर्वप्रकारं गोचरः सर्वाकारसर्वज्ञेयज्ञानाविघातादिति"-का. २२ विज्ञप्तिमात्र. वृ० पृ. ११५०४ । “क्लेशा हि मोक्षप्राप्तेरावरणमिति अतस्तेषु प्रहीणेषु मोक्षोऽधिगम्यते ज्ञेयावरणमपि सर्वस्मिन् ज्ञेये ज्ञानप्रवृत्तिप्रतिबन्धभूतम् xxx तस्मिन् प्रहीणे सर्वाकारे ज्ञेयेऽसक्तमप्रतिहतं च ज्ञानं प्रवर्तत इत्यतः सर्वज्ञसमधिगम्यते" -का० १त्रिंशिकाविज्ञ० भा० पृ० १५५० ८-११।
"अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत्" । का० २९ त्रिंशिकाविज्ञ०।। "आद्यस्य क्लेशबीजम् इतरस्य द्वयावरणबीजम् तदुद्धातात् सर्वज्ञतावाप्तिर्भवतीति"-का० २९ त्रिंशिकाविज्ञ० भा. पृ. ४४ पं० १७-१८]
अत्र मुख्यतया द्वौ विशेषा ज्ञातव्यौ तत्र प्रथमो नित्यानित्यत्तविषयकः यथा सायसम्मतं सर्वज्ञत्वं जन्यखेन सादिकं देहादिपर्यन्तस्थायित्वेन च सान्तं बोद्धव्यम् जैनसम्मतं तु सार्वयं सादिकमपि प्रवाहरूपेणाविनश्वरवाद् विदेहावस्थायामपि सदा सत्त्वेन अनन्तं बोद्धव्यम् ।
द्वितीयश्च स्वरूपविषयो विशेषः स चायम्-वैशेषिकादिसकलजनेतरदर्शनसम्मतमीश्वरीयमनीश्वरीयं वा सार्वश्य सामान्य-विशेषतद्वत् सकलत्रैकालिकगोचरमेकविधमेव । जनसम्मतं तु सार्वश्यं सामान्यविशेषात्मकसकलत्रैकालिकवस्तुगोचर सदपि गौणप्रधानभावेन सामान्यावगाहितया विशेषावगाहितया च भिद्यमानं केवलज्ञानकेवलदर्शनसंज्ञाद्वयेन व्यपदिश्यते।
तत्र जैनवादिनः सर्वेपि सर्वज्ञत्वं सर्वदर्शित्वं च निर्विवादमभ्युपगच्छन्तोऽपि तदीये स्वरूपे विप्रतिपद्यन्ते-केचित् केवलज्ञान-केवलदर्शनयोः क्रम समर्थयन्ते । केचित् तयोर्योगपद्यं व्यवस्थापयन्ति । केचिच तयोरैक्यं प्रस्थापयन्ति ।
अमी त्रयोऽपि पक्षाः श्वेताम्बरीयवाङ्मयेषु चर्चिताः लब्धावकाशाश्च दृश्यन्ते । दिगम्बरीयवाड्मयेषु तु द्वितीय एव पक्षश्चर्चितो लब्धप्रतिष्ठश्चावेक्ष्यते।।
इमे त्रयोपि पक्षाः विशेषणवत्याम् , विशेषावश्यकभाष्ये, नन्दिसूत्रचूाम् [लिं० लि. पृ. ८-९] हरिभद्रीयायाम् [वा. लि. पृ० २१-] मलयगिरीयायां च नन्दिसूत्रवृत्ती, [पृ० १३४ द्वि०-पृ० १३८ द्वि.] धर्मसङ्ग्रहण्याम् , तत्त्वार्थभाष्यवृत्तौ [पृ० ११० पं० १४ ] प्रज्ञापनावृत्तौ [पृ० ५३१ प्र. पं०९-पृ० ५३३ प्र० ] ज्ञानबिन्दौ [पृ० १५४ पं० ४ ] च सविस्तरं दृश्यन्ते।
अत्रोड्रियमाणाः सर्वा अपि गाथा विशेषणवत्यन्तर्गता अवबोद्धव्याः तासु या या विशेषावश्यकभाष्य-नन्दिसूत्रचूर्णिनन्दिसूत्रलघुवृत्ति-धर्मसंग्रहणी-नन्दिसूत्रमलयगिरिवृत्तिषु आगताः तास्तत्र तत्र तत्तद्न्थनाम्ना सूचिताः । यच्च गाथा-विवरणप्रभृति विशेषावश्यकभाष्यादिषु अधिकमुपयोगि च वर्तते तदपि तत्र तत्र टिप्पण्या समुपन्यस्तम्