________________
५९६
द्वितीये काण्ड
[ दर्शनविषयीभूतस्य प्रमेयस्य न विशेपाकारेण शून्यत्वम् न वा ज्ञान विषयीभूतस्य
सामान्याकारेण इति निरूपणम् ] सामान्यविशेषात्मके च प्रमाणप्रमेयरूपे वस्तुतत्त्वे व्यवस्थिते द्रव्यास्तिकस्यालोचनमात्रं विशेपाकारत्यागि दर्शनं यत् तत् सत्यम् इतरस्य तु विशेपाकारं सामान्याकाररहितं यद ज्ञानं तदेव ५पारमार्थिकमभिप्रेतम् 'प्रत्येकमेपोऽर्थपर्यायः' इति वचनात् । प्रमाणं तु द्रव्यपर्यायौ दर्शन - ज्ञानस्वरूपावन्योन्याविनिर्भागवर्तिनाविति दर्शयन्नाह
दवढिओ वि होऊण दंसणे पज्जवढिओ होइ ।
उवसमियाईभावं पड्डुच्च णाणे उ विवरीयं ॥२॥ अस्यास्तात्पर्यार्थः-दर्शनेऽपि विशेषांशो न निवृत्तः नापि शाने सामान्यांश इति । १० द्रव्यास्तिकोऽपि इति आत्मा द्रव्यार्थरूपः स भूत्वा दर्शने सामान्यात्मके स ह्यात्मा
चेतनालोकमात्रस्वभावो भूत्वा तदैव पर्यायास्तिको विशेषाकारोऽपि भवति । यदा हि विशेषरूपतयाऽऽत्मा संपद्यते तदा सामान्यस्वभावमपरित्यजन्नेव विशेषाकारश्च विशेषावगमस्वभावं ज्ञानं दर्शने सामान्यपर्यालोचने प्रवृत्तोऽप्युपात्तज्ञानाकारः न हि विशिष्टेन रूपेण विना सामान्यं संभवति। एतदेवाह-औपशमिकादिभावं प्रतीत्य इति औपशमिक-क्षायिक-क्षायोपशमिकादीन् १५भावान् अपेक्ष्य विशेषरूपत्वेन ज्ञानस्वभावाद वैपरीत्यं सामान्यरूपतां प्रतिपद्यते विशेषरूपः
सन् स एव सामान्यरूपोऽपि भवति न ह्यस्ति सामान्य विशेषविकलं वस्तुत्वात् शिवकादिविकलमृ. स्ववत् विशेषा वा सामान्यविकला न सन्ति असामान्यत्वात् मृत्त्वरहितशिबकादिवत् ॥२॥
[ उपयोगस्वाभाव्यादेव छानस्थिकयोनि-दर्शनयोः क्रमवर्तित्वम् न पुनः केवलिगतयो
स्तयोः सहवर्तित्वात् इति प्रतिपादनम् ] ... अत्र च सामान्यविशेषात्मके प्रमेयवस्तुनि ताहि प्रमाणमपि दर्शनज्ञानरूपं तथापि च्छद्मस्थो. पयोगस्वाभाव्यात् कदाचिद् शानोपसर्जनो दर्शनोपयोगः कदाचित्तु दर्शनोपसर्जनो ज्ञानोपयोग इति क्रमेण दर्शनज्ञानोपयोगौ क्षायिके तु ज्ञानदर्शने युगपद्वर्तिनी इति दर्शयन्नाह सूरिः
मणपजवणाणतो णाणस्स य दरिसणस्स य विसेसो।
केवलणाणं पुण दंसणं ति णाणं ति य समाणं ॥३॥ २५ मनःपर्यायज्ञानमन्तः पर्यवसानं यस्य विश्लेषस्य स तथोक्तः ज्ञानस्य च दर्शनस्य च विश्लेषः पृथग्भावः मत्यादिषु चतुर्षु ज्ञानदर्शनोपयोगी क्रमेण भवत इति यावत् । तथाहि-चक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथकालानि छद्मस्थोपयोगात्मकज्ञानत्वात् श्रुत-मनःपर्यायज्ञानवत् वाक्यार्थविशेषविषयं श्रुतज्ञानम् मनोद्रव्यविशेषालम्बनं च मनःपर्यायज्ञानम् एतद्वयमपि अदर्शनस्वभावं मत्यवधिज्ञानदर्शनोपयोगाद् भिन्नकालं सिद्धम् । केवलज्ञानं पुनः केवलाख्यो ३० बोधः दर्शनमिति वा ज्ञानमिति वा यत् केवलं तत् समानं समानकालं द्वयमपि युगपदेवेति भावः । तथाहि-एककालौ केवलिगतज्ञानदर्शनोपयोगौ तथाभूताप्रतिहताविर्भूततत्स्वभावत्वात् तथाभूतादित्यप्रकाशतापाविव यदैव केवली जानाति तदैव पश्यतीति सूरेरभिप्रायः॥३॥
१ पृ० ४५७ गा० १५० १०, १३। २"आत्मा न केवलं पर्यायार्थिकः”-बृ.टि.। ३-णाणंदो बृ० ।