________________
ज्ञानमीमांसा । भावः प्रतीतः नाऽपि तयोस्तथाविधः प्रतिबन्धः न च प्रदेशव्यवस्थितं धूममुपलभमानोऽवश्यतया 'यत्र यत्र धूमस्तत्र तत्राऽग्निः' इति 'तथा चेह धूमः' इति परामृश्य 'अग्निमान्' इति प्रत्येति किन्तु परिज्ञाताविनाभावो 'धूमदर्शनानन्तरं प्रदेशेऽग्निरत्र' इति प्राक्तनानुभवदाात् स्मरति 'असत्यत्र वही धूम एव न स्यात्' इति लिङ्गरूपानुस्मरणं प्रकृतस्मरणस्य तथाभावमन्तरेणाभावप्रदर्शनार्थम ।
अथात्रोऽप्यन्यथानुपपन्नं स्वरूपं हेतोः क्वचिदनेन निश्चेतव्यम् यत्र च तन्निश्चीयते स सपक्षः५ पुनस्तथाविधरूपवेदिनां यत्रासौ हेतुस्तत्रैव ततो हेतोस्तैदन्यप्रतिपत्तिरिति पक्षधर्मान्वयव्यतिरेकबलादेव हेतुर्गमक इति, नैतत् सारम् ; यतोऽविनामावित्वरूपेणैव सपक्षे सत्त्वमत्राक्षिप्तमिति न रूपान्तरम् । तथाहि-अविनाभावित्वं रूपं ज्ञातं सद् गमकमिति तत् क्वचिद् ज्ञातव्यम् तेन तद्रूपपरिज्ञानोपायत्वात् तदरूपं सदविनाभावित्वमेवैकं हेतो रूपं विधीयमानं स्वात्मन्यन्तर्भावयति शेयसत्ताया ज्ञानसत्तानिबन्धनत्वात् ज्ञानं यथा न पृथग्रूपं तथा क्वचित् सपक्षे सत्त्वमप्यपश्यतः तदविनाभाविरू-१० पग्रहणाभाव इति तदेवैकं रूपं विधीयमानमन्यत् सर्वमाक्षिपतीति न तस्माद्धेतोरन्यद्रूपं युक्तम् । अथ तैर्विना तदेवैकं रूपं हेतोर्न शायत इति रूपान्तरं कल्प्यते तर्हि न केवलं सपक्षे सत्त्वं विना तद्रूपं न ज्ञायते किन्तु बुद्धीन्द्रियादिकमपि विना तन्न ज्ञायते इति तेषामपि तद्रूपताप्रसक्तिः। अत एव "अपक्षधर्मस्यापि हेतोर्गमकत्वे चाक्षुषत्वमपि शब्दे नित्यत्वस्य गमकं स्यात्" [
] इति परोक्तमपास्तम् यतश्चाक्षुषमनित्यत्वाविनाभावि शब्दश्चाक्षुषो न भवतीति कुतोऽत्र दोषावकाशः ११५ यदपि 'यदि धूमोऽग्यविनाभावित्वमात्रादग्निं गमयेत् महाम्बुराशौ किं न गमयेत् ?' इति चोद्यम् तदप्यसङ्गतम् यतो नान्यदेशो धूमोऽम्भोनिधिपावकाविनाभावी सिद्धः तद्देशसाध्याविनामावित्वात तस्य । अत एव यद्यप्यन्यदेशस्थो हेतुर्नान्यदेशस्थसाध्याविनाभावी तथाप्यपक्षधर्मोऽसौ गमको न भवतीत्यस्यार्थस्य ज्ञापनार्थ पृथक पक्षधर्मत्ववचनं लक्षणे विधेयमिति न वक्तव्यम् साध्यान्यथानुपपनत्वैकरूपप्रतिपत्तेरेव तदर्थस्य लब्धत्वात् । एतेन 'न स त्रिविधाद्धेतोरन्यत्रास्तीति अत्रैव नियत २० उच्यते' इत्यपि निरस्तम् यथोक्तप्रकारेण साध्याविनाभावित्वस्यैव त्रित्वव्यापकत्वात् तद्विकलस्य तस्य विद्यमानस्याप्यकिञ्चित्करत्वात् किञ्चित्करत्वेऽप्यविनाभावित्वैकरूपनिर्णयनिमित्ततया दृष्टान्तादिवद् हेत्वनङ्गत्वात् । खभावकार्यानुपलम्भकल्पनामन्तरेणाप्यन्यथानुपपत्तिमात्राद्धेतोर्गमकत्वोपपत्ते विनाभावः त्रिसंख्येन हेतुना व्याप्तः । तथाहि-वृक्षाच्छायानुमानं लोके प्रसिद्धम् न च वृक्षस्तच्छायाकार्य सहभावित्वात् , नापि स्वभावः स्वभावभेदोपलब्धेः । एतेन तुलादेनमनाद् उन्नामाद्यनुमान २५ चिन्तितम् 'परभागवान् इन्दुः अर्वाग्भागवत्त्वात् घटादिवत्' इत्यत्रापि न तादात्म्यं तदुत्पत्तिा पराभ्युपगमेन संभवति ऊर्श्वभागवतामधोभागवतां च परमाणूनां स्वभावभेदात् सहभावाच्च । एकसामग्र्यधीनताप्रतिवन्धकल्पनायां रूपादे रसादेरिवानुमानं कारणात् कार्यानुमानं प्रसक्तम् । तथाहिसमानकालभाविनो रूपादेर्यद् रसतोऽनुमानं तत् तत्कारणाद् रूपजनकादनुमितादनुमानम् । न चसमानकालभावि रूपजनकत्वानुमानं रसहेतोरेतदिति हेतुधर्मानुमानम् कारणात् कार्यानुमानेऽप्येवं ३० दोषाभावात् । न चात्रैवं लोकप्रतीत्यभावदोषः हेतुधर्मानुमानेऽपि लोकप्रतीतेरभावात् । तथाहितथाविधरसोपलम्भात् तत्समानकालं तथाविधं रूपम् अर्वाग्भागदर्शनाच्च परभागं लोकः प्रतिपद्यते न पुनर्विशिष्टं कारणम् । अथाप्रतिबद्धादेकतोऽन्यप्रतिपत्तावतिप्रसङ्गः, न; अविनाभूतादन्यतोऽन्यप्रतिपत्त्यभ्युपगमात् । अथ प्रतिबन्धमन्तरेणान्यस्यान्याविनाभाव एव कुतः ? ननु प्रतिबन्धोऽप्यपरप्रतिबन्धमन्तरेणान्यस्यान्येन कुतः ? अथ प्रतिबन्धोऽपि न वास्तवः प्रतिबद्धयोरन्यः किन्तु कारणान-३५ न्तरमपरस्य कार्याभिमतस्य भावो वस्तुखरूपमे तच्च पूर्वोत्तरवस्तुस्वरूपग्राहिप्रत्यक्षानुपलम्भाभ्यां निश्चीयते तन्निश्चयनमेव कार्यकारणभावप्रतिबन्धनिश्चयनम् । नन्वेवं प्रत्यक्षानुपलम्भाभ्यामन्येनान्य
१-भावप्र-बृ० आ० हा०वि०।२“अविनाभावः"-बृ० टि०।३-त्रान्य-भां० मां० । ४ “साध्य"-बृ.टि.। ५ कल्पते भां० वि०। ६ शब्दनित्य-वा० बा०। ७ “पक्षधर्मल"-बृ० टि। ८ स द्विवि-बृ० । “अविनाभावः”-बृ. टि.। ९ पृ० ५५८ पं०३०-३१ तथा पृ० ५५६ टि. पं० १५। १० “पक्षधर्मादे:"-बृ.टि.। ११ “सहभाविनो( नोः) कार्यकारणभावाभावात् तत्र च तद्भावादिति"-बृ० टि०। १२-मन्तेभाग-बृ० विना । १३ “रसकारणात्"-बृ० टि.। १४-व तं सप्तम्या तच्च आ० हा० ।-व स तं सप्तम्या तच्च वि० । अत्र किमपि टिप्पणमन्तः प्रविष्टमाभाति । १५ पूर्वोक्त व-बृ० । इदं पाठान्तरं न मूललेखकेन लिखितं किन्तु तावति रिक्त स्थाने पश्चात् केनचित् पूरितमिति लिपिमेदादू मषीभेदाच स्पष्टं ज्ञायते। १६-रणाभा-आ० हा० वि० ।
७६ स० त०