________________
५९२
द्वितीये काण्डेकतः पक्षधर्मता? कल्पनायाः परमार्थतो वस्त्वसंस्पर्शादित्यक्तं प्राक । न च परपक्षे पक्षधर्मवं संभवति पक्षलक्षणस्यैवासंभवात् । “जिशासितविशेषो धर्मी पक्षः" [ न्यायबिं० २,८] इति तल्लक्षणं चेत् नैतत् यतो न तावत् शब्दे वादी अनित्यत्वं जिज्ञासितुमर्हति खनिश्चयवदन्येषां निश्चयोत्पादनाय तेन साधनप्रयोगात् । नापि प्रतिवादी, प्रतिपक्षप्रसाधनाय वाद्युक्तसाधनप्रतिघाताय च तस्य प्रवृत्तेः। ५नापि प्राश्निकाः तेषां विदितवेद्यतया तत्र जिज्ञासाऽसंभवात् । स्वार्थानुमाने चहेतोर्लक्षणं न कथञ्चित् तद्युक्तितः स्वयमेव तत्र जिज्ञासनात् । एतेन "प्रतिपिपादयिषितविशेषो धर्मी" [
] इत्यपि लक्षणं प्रतिविहितम् यदर्थमनमानमुपन्यस्तं तेन तत्र जिज्ञास्यविशेषो धर्मी पक्ष इति चेत्, न हेतावपि समर्थनात् प्राग जिज्ञासनीयविशेषत्वात् पक्षत्वप्राप्तेः। साध्यत्वेन बुभुत्सितविशेषो धर्मी पक्ष इति चेत्, न; बुभुत्सितग्रहणस्यानर्थकत्वात् । साध्यविशेषो धर्मीति चेत् तथापि न किञ्चिद्विशे१०षग्रहणेन धर्मिग्रहणेन वा प्रयोजनमिति न पक्षलक्षणं परोदितमनवद्यम् । तस्माद यदन्तरेण यन्नोपपद्यते तत् साधनमितरच्च साध्यमित्येतावदेव पक्षादिलक्षणमनवद्यम् । “स्वरूपेणैव निर्देश्य"
] इत्यादिकमपि पक्षलक्षणमेकान्तवादिनोऽसङ्गतम् धर्मिधर्मभावस्यैकान्तवादे कथंचिदप्यनुपपत्तेरित्यसकृत् प्रतिपादनात् । तदेवं त्रैलक्षण्यस्यासंभवात् संभवेऽपि सति साध्यावि
नाभावित्वमात्रेणैव तोर्गमकत्वान्न किञ्चित् पक्षधर्मत्वादिना रूपान्तरेणेति । तथाहि-न क्वचित् १५धूमसत्ताग्निविनाभाविनीति सिद्धमविनाभावित्वम् तत्सिद्धौ च सत्यपि पक्षधर्मादिवचने तथैव गम
कत्वम् न हि वास्तवं रूपं साध्याविनाभावित्वलक्षणं हेतोरुपलभ्यमानं पक्षधर्मत्वादिवचनेऽवचने वा स्वसाध्यं न साधयति न हि वस्तुबलायातां स्वसाध्यप्रतिपादनशक्तिं लिङ्गं पक्षधर्मत्वादिवचनादवचनादू वा मुञ्चति वस्तुशक्तीनां वचनादव्यावृत्तेः। अथ त्रैलक्षण्यमपि हेतोः संभवतीति तदपि लक्षणत्वेन प्रकल्प्यते सत्यं संभवति किन्तु अविनाभावित्वेनैव हेतोः गमकत्वं सिद्धं न किञ्चित्तल्लक्षणवच२० नेन । तथाहि-यद्रूपानुवादेन हेतोः स्वरूपं लक्ष्यते तदेव लक्षणत्वेनानुवदितव्यमित्यविनाभावित्वरूपानुवादमात्रेण हेतुलक्षणस्य परिसमाप्तेर्न पक्षधर्मत्वादि विधेयमनुवदितव्यं वा लक्षणत्वेन । न च तत् तत्र संभवतीति लक्षणत्वेन वाच्यम् तथाभ्युपगमे अबाधितविषयत्वमपि तादृग्विधे हेतौ संभवतीति लक्षणान्तरत्वेन वचनीयं स्यात् । अथाविनाभावित्वं सदपि पक्षधर्मत्वाद्यभावेऽगमकम्, न, व्याहतत्वात् । तथाहि-अविनाभावित्वं स्वसाध्येन विना तस्यासंभव उच्यते अगमकत्वं तु विनापि २५साध्यं संभवस्तस्यैवेति कथं नान्योन्यविरुद्धयोाहतिः ? अथ धर्मिणोऽन्यत्राविनाभावित्वं तस्य न
पुनर्विवादाधिकरणे धर्मिणीति न पक्षधर्मत्वाद्यभावे तस्य गमकत्वम् तत् किमयं तपस्वी विवादाधिकरणो(णं) धर्मी शण्ढमुद्वाह्य पुत्रं मृग्यते । तथाहि-अन्यत्र तदविनाभावित्वम् विवादाधिकरणे तु तन्नास्तीति कथमन्यस्तद्वानुच्यते ? न च धर्मः केवलो यदा हेतुस्तदा स केवलो न संभवतीति न तावन्मात्रस्याविनाभावित्वमिति यतो धर्ममात्रवचनेऽपि साधारस्यैवाविनाभावित्वम् यथा कृतकत्व३० मनित्यत्वमन्तरेणानुपपद्यमानं कृतकत्ववत्स्वेव भावेषु व्यवतिष्ठते न ह्यन्यत्र तत्कृतकत्वं नाप्यविना
भावीति कृतकत्वस्याविनाभावित्वमाक्षिप्तधर्मिस्वरूपमेवेति सामर्थ्यसिद्धम् । तेन नावश्यं तत्सत्त्वं वचनेन विधातव्यं धर्मोपरक्तधर्मिणि पृथक्पक्षधर्मत्ववचनमन्तरेणाप्यन्यथानुपपन्नत्वं कृतकस्यार्थस्य स्वरूपं जानानस्तदुपलभमान एव तदविनाभाविनमपरं स्वभावं झगित्यवगच्छति यतो नानेन पूर्वमन्यथानुपपत्तिरूपनिश्चयसमयेऽन्यत्र व्यवस्थितो धूमोऽन्यत्र व्यवस्थितेन वह्निना विनाऽनुपपन्न इत्यविना
१“अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी" इति न्यायबिन्दुसूत्रस्यांशरूपं वचनमेतद् बोध्यम्। २ "खनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः । परार्थं मानमाख्यातं वाक्यं तदुपचारतः" ॥-न्यायावता० श्लो०१०। ३ अत्र 'जिज्ञासितुमर्हति' इति पूर्वोक्तमध्याहार्यम् । ४-क्षसा-बृ० ।
५ “अन्यथाऽनुपपन्नलं हेतोर्लक्षणमीरितम् । तदप्रतीतिसन्देहविपर्यासैस्तदाभता" ॥-न्यायवता. श्लो. २२ । ६ “अन्यथानुपपद्यमानबम्"-वृ. टि. । लिङ्गम् बृ० । १-१ इत्यङ्काभ्यां प्रथमैकवचनं सूचितमस्ति । ७-रणध-आ० हा०वि०। ८-रणे ध-वा. बा०। ९ एतत्समानो न्यायो लौकिकन्यायाजलावयं वर्तते-"पण्डकमुद्वाह्य मुग्धायाः पुत्रप्रार्थनम्"-भा० २ पृ. ४६ । तत्रास्य न्यायस्य उपयोगस्थलान्यपि दर्शितानि सन्ति ।
१. "पक्षधर्म"-वृ.टि.। ११-पन्नं कृ-भां० मा०। १२ जानातिन स्त-मां०। जानीमस्त-वृ०। जानमस्त-आ० हा०वि०। १३-लभ्यमा-भां० मा० आ० हा० वि०।