________________
५९४
द्वितीये काण्डेस्याविनाभावित्वनिश्चयेऽपि न दोषः । अथैकदान्येनान्यस्याविनाभावित्वदर्शनेऽपि सर्वदा सर्वत्रानयोरेवमेव भाव इति न दर्शनादर्शनाभ्यां निश्चेतुं शक्यम् प्रतिवन्धग्रहणे तु नायं दोषः कर्पूरोर्णादीन्धनखभावानुकारिधूमस्वरूपग्राहिणा विशिष्टाध्यक्षेण सकृदपि प्रवृत्तेनाग्निधूमयोः कार्यकारणभावनिश्चयात्
धंदाऽनग्निव्यावृत्ताग्निजन्योऽधमव्यावृत्तो धूमः' इति निश्चीयते अन्यथाऽन्यदैकदाप्यग्नेबूंमस्योत्पादो ५न भवेत् अहेतोः सकृदप्यभावात् भावे वा निर्हेतुकताप्रसक्तेः । तदुक्तम्-'कार्य धूमो हुतभुजः कार्य धर्मानुवृत्तितः' इत्यादि अयुक्तमेतत् परपक्षे कार्यधर्मानुवृत्तेरेवायोगात् । एकदेशेन कार्यधर्मानुवृत्ता. वनेकान्तवादप्रसक्तेः सर्वात्मना तदनुवृत्तौ कार्यस्य कारणरूपतापत्तेः कार्यकारणभावाभावप्रसङ्गात् इत्युक्तत्वात् । किञ्च, सर्वदा सर्वत्राग्निजन्यो धूम इति न प्रत्यक्षमनुपलम्भसहायमपीयतो व्यापारान् कर्तुं समर्थम् सन्निहितविषयवलोत्पत्तेरविचारकत्वाच्च । तत्पृष्ठभाविनोऽपि विकल्पस्य नात्रार्थे साम१० र्थ्यम् तदर्थविषयतया तस्य गृहीतग्राहित्वेनाप्रामाण्याभ्युपगमात् । अनुमानमपि नैवं प्रतिबन्धग्राहकम् अनवस्थेतरेतराश्रयदोषप्रसक्तेः । न च भवत्पक्षेऽप्यविनाभावित्वग्रहणे हेतोरयं समानो दोषः यतोऽन्यथानुपपन्नकलक्षणो हेतुरित्यस्माकं हेतुलक्षणम् अन्यथानुपपन्नत्वं च तादात्म्यतदुत्पत्त्योः पूर्ववत्-शेषवत्-सामान्यतोदृष्टमित्येषां च तथैकार्थसमवायि-संयोगि-समवायीत्यादीनां च तथा वीतमवीतं वीतावीतं चेत्यादीनां च सर्वहेतूनां व्यापकम् सति गमकत्वे सर्वेषामप्येषां साध्याविना१५भावित्वात् तद्विकलानां च गमकत्वायोगात्। तस्य च ग्राहकमूहः प्रत्यक्षानुपलम्भप्रभवः प्रमाणम्
तच्चाविसंवादकत्वादनक्षजत्वालिङ्गजत्वाच्च स्वार्थाध्यवसायरूपं मतिनिवन्धनमस्माकम(कम्) प्रमाणान्तरं परैः प्रमाणान्तरत्वेनावश्यमभ्युपगन्तव्यम् अन्यथा व्याप्तिग्राहकप्रमाणाभावतोऽनुमानस्याप्यप्रवृत्तिप्रसक्तः । अत एवानुमानं प्रमाणमभ्युपगच्छता 'प्रत्यक्षमनुमानं चेति द्वे एव प्रमाणे' इति न वक्तव्यम् अनुमानाभ्युपगमे यथोक्तन्यायेन प्रमाणान्तरस्याप्यापत्तेः । यदपि 'गोत्वाद विषाणी' २० इत्यादौ 'समुदायव्यवस्थायाः कारणं समुदायिनः' इत्यभिहितम् तत्रापि व्यवस्था यदि शब्दामिका
अथ विकल्पामिकाभ्युपगम्यते उभयथाऽपि नार्थेन प्रतिवन्धसिद्धिः अतो न कार्यहेतुर्गमकः नापि स्वभावहेतुरविनाभाववैकल्ये इति स्थितम् 'उपलब्धिलक्षणप्राप्तस्य' इत्यनुपलब्धौ विशेषणोपादानं चानर्थकम् परचैतन्य भूत-ग्रहादीनामदृश्यानामपि क्वचिदभावसिद्धेर्दाहादिव्यवहारदर्शनात् । यदि पनरनुपलब्धिलक्षणप्राप्तानुपलब्धेरभावो न सिध्येत् 'नेदं निरात्मकं जीवच्छरीरम् अप्राणादिमत्त्वप्रस२५ङ्गात्' इत्यत्र प्रयोगेऽदृश्यानुपलम्भादभावासिद्धेर्घटादीनां नैरात्म्यासिद्धितो 'यत् सत् तत् सर्व
क्षणिकम्' इति व्याप्तेः साकल्येनासिद्धौ प्रकृतोऽपि क्षणभङ्गो भावानां न सिद्धिमासादयेत् । यथा च तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धग्रहणं परपक्षे न संभवति तथा असकृत् प्रतिपादितम् तेन 'त्रिसंख्यहेतुव्यतिरिक्तेषु तथाविधप्रतिबन्धाभावादविनाभावस्य हेतुत्वव्यापकस्याभावाद्धेत्वाभासत्वम्' इति यदुक्तं तन्निरस्तं द्रष्टव्यम् यथोक्तप्रतिबन्धेन त्रित्वस्याविनाभावस्य चाव्याप्तेः उक्तन्यायेन तेनैव तयो३० प्प्तेः । अतः 'संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः' इत्यादि सर्वमयुक्ततया व्यवस्थितम् । यथोक्तहेतुप्रभवस्य च साध्यनिश्चयस्यानुमानत्वेऽन्यतः सम्बद्धात् सामान्याकारेण प्रतिपत्तिरनुमानमित्यादि प्रमाणान्तरस्य तत्रान्तर्भावप्रतिपादनमयुक्तम् यथोक्तन्यायात् । शब्दस्य चाप्तप्रणीतत्वेन सामान्यविशेषात्मकवाह्यार्थविषयस्य यथा प्रमाणान्तरत्वं तथा प्राक् प्रतिपादितम् । अर्थापत्तेश्च प्रमाणत्वेनानुमानेऽन्तर्भावनं सिद्धसाधनेमेव । अभावस्य च पृथगप्रामाण्यप्रतिपादनमस्माकमभीष्टमेव ३५सदसदात्मकवस्तुतत्त्वग्राहिणाऽध्यक्षेण यथाक्षयोपशमं भावांशवदऽभावांशस्यापि ग्रहणात् । केवलं क्वचिदुपसर्जनीकृतसदंशस्य प्रधानतयाऽसदंशस्य ग्रहणं क्वचिच्च विपर्ययेण । न च सदंशासदंशयोरे
१-वृत्त्याग्नि-बृ. आ. हा० वि०। २०५६९ पं० १८ टि. ३ । “पश्चार्धं तु-स भवंस्तदभावेऽपि हेतुमत्तां विलवयेत् ॥"-बृ० टि० । स भवंस्तदभावेऽपि हेतुमत्तां विलयेत् । इति अपरार्धम् ॥-ल. टि.। ३-दीनां स-बृ. आ० हा० वि०। ४ ऊहस्य परोक्षप्रमाणभेदलेन समर्थनं प्रमेयकमलमार्तण्ड-स्याद्वादरत्नाकराभ्यामवसेयम्-पृ० १०० द्वि. पं. ४-११ पृ. ५०० ५०९-पृ०५१६ पं० १५ आ० । ५-त्वाल्लिङ्ग-आ० हा० वि०। ६ स्वार्थाद्यवसावृ० । स्वार्थव्यवसा-आ० हा० वि०। ७-सिद्धेर्दा-वा. बा०। ८-रात्म्यसि-वा. बा. भां• मां० विना । ९-स्य वाव्या-वा० बा० । १० पृ० ५५९ पं० ११ तथा पृ० ५५७ टि. पं० २। ११-श्व प्रामाण्यमनुमा-बृ० । १२-नमभाव-वृ० ।