________________
ज्ञानमीमांसा।
५८९ कचिदप्यसिद्धः। वस्तुनः सर्वस्य सकलसजातीयविजातीयव्यावृत्तत्वात् सामान्येन तत्साधने केशोन्दुकादिभिरनेकान्तः प्रतिबन्धाभावतः सन्दिग्धविपक्षव्यावृत्तिकश्च हेतुः कल्पनासमारोपितस्य च वस्तुत्वसाधनेऽभ्युपगमबाधः । 'प्रमेयत्वाञ्च' इत्ययं पुनरनैकान्तिको हेतुः प्रसज्यरूपेणाभावेन तस्यापि प्रमाणतः कथञ्चिद्विषयीकरणात् । न च तुच्छरूपस्याभावस्याभावान्नायं दोषः यतो यदि प्रमाणतस्तस्याभावोऽवसीयते कथं न तस्य प्रमेयत्वं तस्याभावरूपतया प्रमाणेन विषयीकरणात् १५ अथ न प्रमाणतस्तस्य विषयीकरणं कथमप्रमाणकं वच उच्यमानं शोभेत? तुच्छरूपस्य चाभावस्यानभ्युपगमे प्रागभावादयोऽपि वस्तुरूपा अभ्युपगता न सिध्यन्ति पर्युदास एवैको मअर्थश्च स्यात् सोऽपि वा न भवेत् कस्यचिदनिवर्तनादित्युक्तं प्राक् । क्षीरादिस्वरूपश्च यदि दध्यादीनां प्रागभावादिस्तदा सिद्धसाध्यता । अथ ततो भिन्नोऽसावसदंशस्तदाऽनवस्थादिदोषतोऽयुक्त इति "क्षीरे दध्यादि यन्नास्ति" इत्यादि प्रागभावादिखरूपप्रतिपादनमयुक्तम् । यदपि "क्षीरे दधि भवेदेव" इत्याद्यभिधा-१० नेम् तदप्यसङ्गतम् यतो यदि नाम तत्प्रतिपादकं प्रमाणं न प्रवृत्तं तथापि कथं क्षीरादिषु ध्यादिसद्भावः तद्भावस्य कारणायत्तत्वात् ? तदसत्त्वग्राहकप्रमाणाभावाद्धि तदसद्व्यवहारनिवृत्तिमात्रकमेव स्यान्न तत्र दध्यादिसद्भावः । निरंशैकभावरूपत्वे च पदार्थस्य "स्वरूप-पररूपाभ्यां नित्यम्" इत्यादि सर्व निरस्तम् । यच्च 'यस्य यत्र यदोद्भूतिः' इत्यादि 'उद्भवाभिभवात्मत्वात्' इति च तत्र सदसदंशयोः सत्त्वेऽपि स्वत एव याद्भवाभिभवौ तदा अपरनिमित्तानपेक्षणात् सर्वदैव स्याताम् न ह्यनि-१५ मित्तस्य कस्यचित् कदाचिदुद्भवोऽपरस्य चाभिभवो युक्तः । न चैकाभिभवनिमित्तोऽपरस्योद्भवस्तदुद्भवनिमित्तो वा परस्याभिभवः इतरेतराश्रयप्रसक्तः । अभिभवश्च स्वरूपखण्डनम् तच्च विनाशः स चाहेतुक इति नोद्भवनिमित्तोऽभिभवः विनाशस्य च सर्वसामर्थ्य विकलतया कथमभिभवनिमित्तोऽ. परस्योद्भवः? न चाभिभवावस्थायामनुपलब्धस्य तस्यैवोद्भवावस्थायामुपलम्भः सिद्धो येनोद्भवाभिभवव्यवस्था भवेत् । न च प्रत्यभिज्ञानादेकत्वसिद्धर्नायं दोपः असदर्थग्राहितया तस्य भ्रान्तत्वात् । न २० च धर्मिणः सर्वदाऽवस्थानात् तदाहितया प्रत्यभिज्ञानस्य नायं दोषः तस्याप्याद्यदर्शनेनोद्भुतस्वभावतयोपलभ्यमानस्य पुनरनुपलम्भपूर्वकमुपलब्धस्यानुपलम्भसमयेऽसतः-अन्यथा तदाप्युपलम्भप्रसङ्गात्-यत् प्रत्यभिज्ञानं तस्यासद्विषयतया भ्रान्तत्वानतिक्रमात् । न चावस्थाव्यतिरिक्तोऽवस्थाता सिद्धः उपलब्धिलक्षणप्राप्तस्य तस्यानुपलम्भात् अनुपलभ्यस्वभावत्वे वा कुतस्तस्य प्रत्यभिज्ञानम् ? अव्यतिरिक्तश्चेदवस्थाविनाशे तस्यापि विनाशप्रसङ्गः अविनाशे विरुद्धधर्मसंसर्गादवस्थाभ्यस्तस्य २५ मेदः अन्यत्रापि तस्य तन्मात्रनिबन्धनत्वात् । यथा च प्रत्यभिज्ञान प्रमाणं तथा प्रतिपादितमेव न पुनरुच्यते । तदेवमभावस्य प्रमेयासंभवात संभवेऽपि तस्यार्थक्रियासामर्थ्यविकलतया विज्ञानजननायोगान्न तबाहकमभावाख्यं प्रमाणं संभवतीति स्थितम्।।
एतेन संयुक्तविशेषणभावादभावग्राहीन्द्रियार्थसन्निकर्षजमध्यक्ष नैयायिकप्रकल्पितमपि व्युदस्तम् । तथाहि-तत तावदनिमित्तं न भवति कादाचित्कन्वात् । नाभावनिमित्तं तस्याजनकत्वात् ।३० जनकत्वेऽपि तस्यानाधेयातिशयतया सहकार्यपेक्षाऽयोगात् सर्वदा तज्ज्ञानजननप्रसक्तेस्तज्ज्ञानस्यैव सद्भावो भवेत् । सहकार्याधेयातिशयत्वे वाऽभावस्य भावरूपता भवेत् विशेषप्रतिलम्भलक्षणत्वाद भावस्य । पर्यदासरूपस्य तस्याभ्युपगमाददोपश्चेत, नः स्वसिद्धान्तविरोधात् तथापि तथाभूतस्य तस्याभ्युपगमे प्रतिषेध्यविविक्तप्रदेशादिरूपतैव तस्याभ्युपगता भवेत् प्रदेशादिश्च प्रथमाक्षसन्निपातजाध्यक्षप्रतिपन्न एवेति गृहीतग्राहितया कथं तदनन्तरभाविनः स्वतन्त्रस्याध्यक्षान्तरस्य पृथक् प्रामा-३५ ण्यम् अभावविषयत्वं वा भवेत ? तस्मात प्रसज्यप्रतिषेधरूपतैवाभावस्याभ्युपगन्तव्या तस्य च तथाभूतस्य घटादिना सम्बन्धाभावात् 'घटस्याभावः' इति कथं घटविशेष्यता? घटेनाविशेषणे च 'घटो नास्ति' इति न प्रतीतिर्भवेत् अपि तु 'अभावोस्ति' इत्येवं प्रतिपत्तिः स्यात् एवं च घटस्यानिवर्तनान्न किंचित् कृतं स्यात् । न चाभावः प्रदेशादेर्विशेषणं संभवति भावाभावयोः सम्बन्धाभावात् । न 'तावत् तादात्म्यलक्षणस्तयोः सम्बन्धः अन्योन्यव्यवच्छेदरूपत्वात् उपकार्योपकारकभावाभावाच्च । न४०
१पृ. ५८०५०३०। २-पस्याभावान्ना-बृ० वा. बा. हा०। ३-स्य वा-भां० मा०। ४ पृ. ५८१ पं० २। ५पृ० ५८१५०१०। ६ पृ. ५८१ पं० १९ । पृ० ५८१ पं० २१। ८पृ० ५८१ पं०३३ । -मूत_नि-वृ० ल• वा. बा. विना । १०-च्छेद्यरू-भां० मा० ।