________________
५८८
द्वितीये काण्डेनामभावो गृह्यते तस्याभावविषयत्वविरोधात् नाप्यनुमानेन हेत्वभावात्' इत्यादि यदुक्तं तनिरस्तं द्रष्टव्यम् । तृतीयपक्षस्य पुनरसंभव एव आत्मनोऽभावात् भावेऽपि तस्य ज्ञानाभावे कथं वस्त्वभावावेदकत्वम् वेदनस्य ज्ञानधर्मत्वात् शानविनिर्मुक्तात्मनि च तस्याभावात् । अथ "चैतन्यं पुरुषस्य खरूपम्" [
] इति वचनात् तस्यैतद्रूपतेष्यते तर्हि ज्ञानविनिर्मुक्त इति न वक्तव्यम् ५स्वरूपहानिप्रसक्तेः पुरुषस्यैव च प्रत्यक्षादिप्रमाणत्वं भवेद् बोधरूपत्वात् । अभ्युपगम्यत एवेति चेत् तर्हि बुद्धिजन्म प्रत्यक्षमिति न वक्तव्यम् । ततः प्रमाणपञ्चकाभावो ज्ञानविनिर्मुक्तात्मलक्षणश्चाभाव: प्रमाणं न भवति तदन्यज्ञानलक्षणश्चाभावः प्रत्यक्षमेवेति न प्रमाणान्तरमभावः । यच्च अमावस्य प्रागभावादिभेदतश्चातुर्विध्यं वस्तुस्वरूपत्वं च प्रतिपादितम् तदसङ्गतमेव यतः स्वस्वभावव्यवस्थितयः सर्व एव भावा नात्मानं परेण मिश्रयन्ति तस्यापरत्वप्रसक्तेः । न चान्यतोऽव्यावृत्तस्वरूपाणामेषां १० भिन्नोऽभावांशः संभवति तद्भावे वा तस्यापि पररूपत्वाद् भावेन ततोऽपि व्यावर्तितव्यमित्यपराभावपरिकल्पनयाऽनवस्थाप्रसङ्गतो न कुतश्चिद् भावेन व्यावर्तितव्यमिति द्रव्यमेकं विश्वं भवेत् ततश्च सहोत्पत्त्यादिप्रसङ्गः परभावाभावाच्च व्यावर्तमानस्य भावस्य पररूपताप्रसक्तिरिति पूर्वोक्त एव दोषः। न चेतरेतराभावात्मकत्वे भावानां घटाभावात्मकात् कटाद् व्यावर्तमानः पटो यथा न घटस्तथा
परभावाभावादपि निवर्तमानस्य तस्य न पररूपतेति वक्तव्यम् यतो नास्माकं घटात् पटो भिन्नः १५कटलक्षणाभाववशात् यतो निवर्तमानस्य ततस्तस्य घटरूपताप्रसक्तिर्भवतामिव अपि तु स्वस्वभाववशात् परस्परतो भेदमनुभवन्ति भावा इत्युक्तं प्राक् तेन खत एव घटाभावरूपः पटःन पुनर्वस्तुभूताभावांशवशात् येन भवतामिव ततो व्यावर्तमानस्य तस्य पररूपताप्रसक्तिर्भवेत् । स्वभावादपि परगतादस्य निवृत्तेः न पररूपतेति चेत् न, उभयतो व्यावृत्तस्यापि यथा परस्य पररूपताऽभ्युपगता तथाऽस्यापि स्यात् उभयरूपता वा स्यात् ततो निवर्तमानो भावः स्खेनैव रूपेणान्यतो निवर्तते २० नाभावांशवशादिति कुतोऽस्मत्पक्षसमानताप्रसक्तिः? यदि पुनरस्मदभ्युपगत एव न्यायोऽभ्युप
गम्यते तदाऽसदंशप्रकल्पनमनर्थकमासज्येत । न च सदंशासदंशयोरात्यन्तिकमेदाभावान्नायं दोषः 'धर्मयोर्भेद इष्टो हि' इत्यादिवचनतस्तयोर्भेदाभ्युपगमात् आत्यन्तिकमेदस्य च परस्य क्वचिदनिष्टेः।
"सणदव्यरूपेण पाटेकतेष्यते।
खरूपापेक्षया चैषां परस्परं विभिन्नता" ॥ [ श्लो० वा० अभावप० श्लो० २४] २५ इति वचनात् । एवं चात्यन्तिकस्य क्वचिदपि भेदस्याभावादभावरूपता भावानामन्योन्यं न सिद्धयेदित्यन्योन्याभावाभाव एव । एवं कारणे कार्याभावः कार्यात् कारणाच्च भेदात् तद्वयादपि व्यावर्तमानोऽपरापराभाववशाद् व्यावर्तत इत्युभयतोऽनवस्थालतां निरवसानामातनोति तथा कार्ये कारणाभावश्च । अथ कार्यादीनामभावः कारणाद्यात्मकः स्वभावेनैव कार्यादिरूपविकलतया भिद्यते
ततो नान्याभाववशादेवं कार्यात्मा कारणादीनामभावोऽपि; नन्वेवं कारणादयोऽपि कार्यादिभ्यः ३०स्वभावेनैव मेत्स्यन्त इति किमपराभावाशपरिकल्पनया? अत एव "कार्यादीनामभावः को भावो य:
कारणादि न" इत्यपि सङ्गतं स्यात् कारणादेरेव स्वरूपस्य पर्युदासवृत्त्या कार्याद्यभावशब्दवाच्यत्वात् तस्य च कारणादिस्वरूपस्याभावस्य वस्तुरूपताऽस्माकमिष्टैव । प्रागभावादेश्च कारणादिभावरूपतया कारणादिविभागतो व्यवहारो लोकस्याप्येवं सिद्ध एव । अनुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वात् तत्स्वभावो गवादिवदित्यत्रापि हेतुरसिद्धः साधनविकलश्च दृष्टान्तः अबाधितानुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वस्य
१पृ० ५८० ५० १०-१५। २ पृ. ३०७ पं० १४ टि० ८। ३-द्रपं नेष्य-आ० हा० वि०। ४ पृ.५८१ पं०१ तथा पृ. ५८० पं० २०। ५भिन्नो भा-बृ० विना०। ६ “भिन्नाभावांश"-बृ० टि०। ७-भावाभावाबृ० । अत्र '६-१' इत्यङ्केन 'भावस्य अभावात्' इति षष्ठीतत्पुरुषः सूच्यते इति भाति । ८-त्मकत्वात् बृ० । ९-वादपि वा. बा.। १०-त् स्वाभा-वा० बा० भां० मा०। ११-रस्पररू-बृ० ल. विना। १२ पृ. ५८१५०३२ । १३-स्परवि-भां० मा०। १४ पृ. ५८० पं० २६ । १५ “अनुवृत्तव्यावृत्तखभाव"-बृ० ल.टि.। १६ पृ०५८. पं०३०। १७ “सौगतानां गवादावप्यनुवृत्तिव्यावृत्तिबुद्धिग्राह्यवस्या सिद्धेः"-बृ० ल.टि.।