________________
ज्ञानमीमांसा ।
तथाहि-पीनो देवदत्तो दिवा न भुते' इत्येतद्वाक्यं स्वार्थप्रत्यायनद्वारेण रात्रिभोजनवाक्यान्तरमुपकल्पयतीत्यभ्युपगमः । न च स्वार्थमेतत् प्रतिपादयति बहिरर्थे शब्दानां प्रतिबन्धाभावतः प्रामाण्यानुपपत्तेः । अथ कुतश्चित् प्रमाणाद् दिवाभोजनप्रतिषेधे भोजनकार्यस्य पीनताविशेषस्य प्रतिपत्तिर्न तर्हि श्रुतार्थापत्तिर्भवेत् कार्यतो रात्रिभोजनकारणप्रतिपत्तेरनुमानेऽन्तर्भावात । वाक्याद वाक्यान्तरप्रतिपत्तिस्त्वयुक्तैव तेन सह वाक्यस्य प्रतिबन्धासंभवात् न हि दिवाभोजनप्रतिषेध-५ वाक्यस्य रात्रिभोजनवाक्येन कश्चित् कार्यकारणभावादिकः सम्बन्धः संभवतीत्युक्तम् । तेन्नार्थापत्तिः प्रमाणान्तरम् । अभावाख्यं तु प्रमाणं त्रिप्रकारम्-'प्रमाणपञ्चकाभावः तदन्यज ज्ञानम आत्मा वा ज्ञानविनि
। तत्राद्यस्य तावत् पक्षस्यासंभव एव यतः प्रमाणपञ्चकाभावो निरुपाख्यत्वान्न किश्चितः स कथं प्रमेयाभावं परिच्छिन्द्यात् परिच्छित्तेनिधर्मत्वात् ? अथ प्रमाणपश्चकाभावो १० वस्त्वभावविषयज्ञानं प्रमाणं जनयन्नुपचाराभावाख्यं प्रमाणमुच्यते; नन्वेवमपि प्रमाणपश्चकाभावस्यावस्तुत्वाद् अभावज्ञानजनकत्वायोगात् प्रमाणत्वमनुपपन्नम् । तथाहि-वस्त्वेव कार्यमुत्पादयति नावस्तु तस्य सकलसामर्थ्यविकलत्वात् सामर्थ्य वा तस्य भावरूपताप्रसक्तेः तथा चाभावाद भवति ज्ञानमिति 'भावान्न भवति' इति हेतुप्रतिषेध एव तस्य कृतः स्यात् एवं च देशकालादिप्रतिनियमो न स्यात् । अपि च
"शब्दस्य वृत्तेः सर्वत्र पञ्चानामपि न क्वचित् । प्रमाणानामभावोऽतो नार्थाभावविनिश्चयः॥ अगृहीतान्न चाभावात् प्रमेयाभावनिर्णयः। तहहोऽप्यन्यतो भावादनवस्था दुरुत्तरा॥ मेयाभावात् प्रमाभावनिर्णयेऽन्योन्यसंश्रयः। मेयाभावात् प्रमाणस्य तस्मात् तस्य विनिर्णयात् ।। अज्ञातस्यापि चाक्षस्य प्रमाहेतोः प्रमाणता।
प्रमाभावस्त्वसामर्थ्यान्नाज्ञातोऽभाववेदकः" ॥ [ द्वितीयपक्षे तु यत् तदन्यज्ञानं प्रत्यक्षमेव तत् प्रमाणम् पर्युदासवृत्या च तदेवाभावप्रमाणशब्दवाच्यतामनुभवति । तथाविधेन च तेन तदन्यंभावलक्षणो भावः परिच्छिद्यत एव । यत् पुनः 'इह २५ घटो नास्ति' इति ज्ञानं तत् प्रत्यक्षसामर्थ्यप्रभवत्वात् स्मृतिरूपतामासादयन्न प्रमाणम् । तयो हि सकलत्रैलोक्यव्यावृत्तपदार्थसामोद्भूततदाकारदर्शनानन्तरं विकल्पद्वयम् ‘इमत्रास्ति' 'इदं नास्ति' इति दर्शनसामर्थ्यभावि तद्गृहीतमेवार्थमुल्लिखदुपजायते । तत्र दर्शनमेव भावाभावयोः प्रतिपादकत्वात् प्रमाणं न तु विधिप्रतिषेधविकल्पो गृहीतग्राहित्वात् अन्यभावलक्षणस्य भावाभावस्याध्यक्षेणैव सिद्धत्वात् । व्यवहार एवान्योपलब्ध्याऽपि साध्यते स्वयमेव वा 'नास्तीह घटः' इति विकल्पयति न३० च तावता प्रमाणान्तरत्वं यथादृष्टस्यैव विकल्पनात् । सकल त्रैलोक्यव्यावृत्तस्वरूपस्याध्यक्षण ग्रहणेऽपि य एव निराकर्तुमिष्टो घटादिकोऽर्थः स एव व्यवच्छिद्यते नान्यः तेन 'न प्रत्यक्षेण घटादी
१ "पीनो दिवा न भुङ्क्ते चेत्यस्मिन्नर्थे न निश्चयः । द्वेषमोहादिभिर्योगादन्यथाऽपि वदेत् पुमान् ॥
अर्थगत्यनपेक्षेण यदि वाक्यान्तरं पुनः । सार्थमाक्षिप्यते तेन स्यादाक्षेपो वचोन्तरे ॥ अथोपगमरूपेण तत्रार्थगतिरिष्यते । प्रमाणान्तरतो यद्वा भवत्वर्थगतिस्ततः” ।
-तत्त्वसं० का० १६२०-१६२२ पृ. ४६४ । २ "पीनताविशेषरूपात्"-बृ० टि.। ३-न्धाभावा-भां० मां०। ४ अर्थापत्तेः पृथक्प्रमाणतां प्रतिविदधाना अनुमाने च तस्या अन्तर्भावं समर्थयमाना सविस्तरा चर्चा प्रमेयकमलमार्तण्डे स्याद्वादरत्नाकरे च दृश्यते-पृ० ५० प्र० पं. १०-पृ. ५४ । पृ० २८३ पं० २२-पृ० ३०९ पं० २२ आ० ।
५ अभावस्य प्रामाण्यं प्रतिक्षिपन्ती विस्तरयुता चर्चा तत्त्वसंग्रहे मार्तण्डे न्यायमचर्याम् रत्नाकरे च विद्यते-तत्त्वसं. का. १६६०-१६९१ पृ. ४७४-४८२ । प्रमेयक० पृ. ५४ प्र. पं०८-पृ. ५७ द्वि. पं० १४ । न्यायमज आ० १ पृ. ५१५०१०-पृ. ५४ पं० ७ । स्याद्वादर. पृ. ३१० पं० १-पृ. ३१३ पं० १० आ०। ६ पृ. ५८०५०२। ७-न्यजू शा-बृ० सं०। ८-न्यताभाव-बृ०। ९ स्मृत्या"-बृ० टि०। १०-माभा-आ० हा० वि०।