________________
द्वितीये काण्डे
पूर्विका त्वर्थापत्तिर्योदाहता सा प्रमाणमेव न भवति स्मृतिरूपत्वात् न हि पावकादन्यैव दाहकशक्तिर्याऽर्थापत्तिसाध्या स्यात् । वह्निस्वरूपमेव दाहादिककार्यनिर्वर्तनसमर्थ शक्तिव्यपदेशमासादयति अध्यक्षेण च तत्स्वरूपं प्रतियता तदव्यतिरिक्ता शक्तिरपि प्रतिपन्नैव न हि कार्रणभावादन्या भावानां शक्तिः । स च कार्यात् प्राग्भाव एव । अन्वयव्यतिरेकौ च प्रत्यक्षानुपलम्भगम्यौ तौ ५च विशिष्टमेव प्रत्यक्षमिति प्रत्यक्षावगतत्वाच्छक्तेर्नार्थापत्तिविषयता । न च शक्तिः शक्तादन्यैव 'अस्येयं शक्तिः' इति सम्बन्धाभावप्रसक्तेः उपकारकल्पनायामनवस्थादिदोषात् व्यतिरिक्ताऽव्यतिरिक्तशक्तिप्रकल्पनायामपि विरोधादिदूषणं प्रतिपादितमेव । तन्न प्रत्यक्षपूर्विकाया अर्थापत्तेरुदाहरणं युक्तम् । अत एव 'चतसृभिरर्थापत्तिभिः प्रत्यक्षादिप्रसिद्धस्यार्थस्य शक्तिः साध्यते' इत्ययुक्तमुक्तम् वह्निरूपादिदर्शनाद् दाहकशक्तियुक्तवस्तुसाधनेऽभ्युपगम्यमाने चार्थापत्तिरनुमानमेव भवेत् । विशिष्ट१० रूपाद् विशिष्टस्पर्शानुमानाद् देशान्तरप्राप्त्या सवितुर्गन्तुरनुमानादनुमानपूर्विकार्थापत्तिरनुमानमेव ।
अर्थापत्तिपूर्विका चार्थापत्तिरनुमितानुमानम् अर्थापत्तेरनुमानेऽन्तर्भावात् । यनूदाहरणम्-'शब्दस्यार्थेन सम्बन्धसिद्धेरान्नित्यत्वसिद्धिः' इति, तदयुक्तम्। पौरुषेयाणामपि हस्तसंज्ञादीनां सङ्केतसम्बन्धादर्थप्रतिपादनसामोपलब्धेः । नित्यस्य क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् कस्यचिद् भावस्यासंभवात् कथमर्थापत्त्या सम्बन्धस्य नित्यत्वं साध्येत? चक्षुरादिज्ञानान्यथानुपपत्त्या लोच१५ नादिप्रतीतिस्त्वनुमानमेव । तथाहि-येषु सत्स्वपि ये कादाचित्काः परिदृश्यमानकारणव्यतिरिक्तकारणान्तरसापेक्षास्ते यथाऽङ्कुरादयोऽसमग्रसामग्रीकाः कादाचित्कं चेदं रूपालोकमनस्कारादिषु सत्वपि चक्षुर्ज्ञानमिति स्वभावहेतुः । न चैवं धर्म्यसिद्धिः ज्ञानस्यैव धर्मित्वात् । अत्र यत् तत्कारणं तचू चक्षुरिति व्यवहियते । न चैतत्प्रतिपत्तिविषयस्य चक्षुषः स्वलक्षणत्वात् कथमस्याः प्रतिपत्तेरनुमानतेति वक्तव्यम् स्वलक्षणस्य चक्षुरादेरस्यां प्रतिपत्तावप्रतिभासनात् तत्र शास्त्रकृतां विप्रतिपत्ति२० दर्शनात् तत्सद्भावे तस्यायोगात् । उपमानस्य चाप्रमाणत्वात् तत्पूर्विकाऽर्थापत्तिःप्रमाणत्वेन दूरापास्तैव । याँऽपीयमभावपूर्विकार्थापत्तिः साऽपि न प्रमाणान्तरम् । तथाहि-देवदत्तो धर्मी बहिर्भावस्तस्य साध्यो धर्मः गृहासंसृष्टजीवनं हेतुः । एवंविधस्य गृहासंसृष्टजीवनस्य साध्येन व्याप्तेः खात्मन्येव निश्चयादनुमानमेव । कथं पुनर्देवदत्तस्यानुपलभ्यमानस्य जीवनं सिद्धं येन हेतुर्भवेदिति
चेत्, न; भवदभ्युपगमेन सिद्धमङ्गीकृत्य हेतुत्वेनोपन्यासात् परमार्थतस्तु सन्दिग्धमेव यतो युष्माभि२५रप्यसिद्धेनैव जीवनेन बहिर्भावः साध्यत इति समानता न्यायस्य । श्रुतार्थापत्तिरपि प्रमाणं न भवति।
१पृ. ५७९ पं० २। २-हश-भां. मां. विना। ३-दिका-बृ. ४-मर्थश-बृ. हा. वि.। ५-तिनियता ल०। ६-रणाभा-ल०। ७ पृ. ५७९ पं०१०। ८० ५७९ पं०४। ९पृ.५७९ पं०८। १० "अनन्यस्ववियोगेऽपि शब्दानां न विरुध्यते । अर्थप्रत्यायनं यद्वत् पाणिकम्पादिकारणम्" ॥
-तत्त्वसं० का० १६३५ पृ० ४६७ । ११-त्वादत्र यत्र यत्का-भा० मां०। १२ तत् बृ० । अत्र न्यस्तोऽयं द्वितीयोऽङ्कः 'तत् तत्' इति वीप्सासूचको भाति। १३ "उपमायाः प्रमाणत्वे विस्तरेण निराकृते । अर्थापत्तेस्तदुत्थाया वारितैव प्रमाणता" ॥
-तत्त्वसं० का० १६३२ पृ. ४६७ ॥ १४ पृ. ५७९ पं०९। १५ “तदापि गेहायुक्तलं दृष्ट्याऽदृष्टेर्विनिश्चितम् । अतस्तत्र बहिर्भावो लिङ्गादेवावसीयते ॥
सद्मना यो ह्यसंसृष्टो नियतं बहिरस्त्यसौ। गेहाङ्गणस्थितो दृष्टः पुमान् द्वारि स्थितैरिव ॥ विपक्षोऽपि भवत्यत्र सदनान्तर्गतो नवः । अर्थापत्तिरियं तस्मादनुमानान्न भिद्यते" ॥
-तत्त्वसं० का० १६४५-१६४७ पृ. ४७०