________________
ज्ञानमीमांसा।
५८५ भ्रान्तिः अन्यथा पूर्वानुभूतोकारपरामर्शन दृश्यमानस्य 'अयमसौ गवयशब्दवाच्यः' इति प्रतिपत्तिः कथं भवेत् अतिदेशवाक्यश्रवणसमये विशेष सम्बन्धाप्रतिपत्तेः ? प्रतिपत्त्यभ्युपगमे वा विशेषेऽपि सामान्यवत् स्मृतिरेवेति कुतः प्रामाण्यमुपमानस्य ? यदपि 'गौरिव गवयः' इति गो-गवययोरतिदेशवाक्यात् सादृश्यमात्रप्रतिपत्तिः 'संज्ञासंशिसम्बन्धप्रतिपत्तिस्तूपमानात्' तदप्यसमीक्षिताभिधानम्, यतो गवयदर्शनानन्तरम् 'अयं स गवयशब्दवाच्यः' इति प्रतिपत्तिरुपजायते इयं च नाध्यक्षप्रतिप-५ त्तिफलम् अश्रुतातिदेशवाक्यस्य प्रभ्रष्टसंस्कारस्य वा तत्सद्भावेऽप्यस्यानुत्पत्तेर्विशेषशब्दवाच्यत्वस्याध्यक्षविषयत्वानभ्युपगमाच्च । अतिदेशवाक्यस्मरणसहायस्य गवयदर्शनस्य तत्प्रतिपत्तिजनकत्वे स्मर्यमाणमतिदेशवाक्यमेव तजनकमभ्युपगतं भवेन्न दर्शनम् न हि यत्राध्यक्षमप्रवृत्तिमत् तत्र शब्दस्मरणसहितमपि प्रवर्तते यथा चक्षुर्ज्ञानं गन्धस्मरणसहायं परिमलप्रतिपत्तौ अतिदेशवाक्याच्च सम्बन्धाप्रतिपत्तावपरस्य तत्प्रतिपत्तिनिमित्तस्याभावात् 'अयं स गवयशब्दवाच्यः' इति पूर्वानुभूतपरा-१० मर्शन प्रतिपत्तिर्न स्यात् अपि तु 'अयं गोसदृशः' इत्येवं भवेत् । न चैतत्प्रतिपत्त्यन्यथानुपपत्त्यैव ' प्रमाणान्तरमुपमाख्यमेतत्प्रतिपत्तिजनकं प्रकल्पनीयम् 'यः कुण्डली स राजा' इति श्रुतातिदेशवाक्यस्य तदर्शनानन्तरम् 'अयं स राजशब्दवाच्यः' इति प्रतिपत्तेरप्युपमानफलत्वप्रसक्तेः । अथात्र तेच्छब्दवाच्यता अतिदेशवाक्यादेव प्रतिपन्नेति नातिप्रसक्तिस्तर्हि 'गौरिव गवयः' इत्यतिदेशवाक्याद् गोसदृशस्यार्थस्य गवयशब्दवाच्यताऽपि प्रतिपन्नेति नोपमानप्रमाणफलता 'अयं स गवयश-१५ ब्दवाच्यः' इति प्रतिपत्तेः । तस्मात् स्मृतिरूपत्वादस्याः प्रतिपत्ते तस्या जनकस्य प्रमाणतेति अनुमानानन्तर्भावप्रतिपादनं न दोषायेत्यलमतिविस्तरेण । ___ अर्थापत्तेस्तु षट्प्रकारायाः 'प्रत्यक्षादिप्रमाणप्रसिद्धोऽर्थो येन विना नोपपद्यते तस्यार्थस्य प्रकल्पनमापत्तिः' इति लक्षणं नोपपत्तिमत् यतोग्नेर्दाहकत्वेन विनाऽग्नित्वं नोपपद्यत इति तदा दाहकत्वं परिकल्प्यते यदि तयोः कश्चित् संवन्धो भवेत् असति च तत्र सत्यप्यग्नौ दाहकत्वस्याभावः२० असत्यपि च भाव इति कथं दाहकत्वमन्तरेण वढेरभावसिद्धिरिति दाहकत्ववदाहकत्वमपि कल्पनीयं स्यात् । अतः सम्बन्धे निश्चिते सति एकमविनाभूतं सम्बन्धिनमुपलभ्य द्वितीयस्य सम्बन्धिनः प्रकल्पना युक्तिमती । एवं च प्रकल्पने अनुमानत्वमेव सम्बन्धनिश्चयपूर्वकत्वाद्' एकस्माद् द्वितीयपरिकल्पनस्य कृतकत्वदर्शनपूर्वकाऽनित्यत्वानुमानवत् । सम्बन्धश्चार्थापत्तिप्रवृत्तेः प्रागेव तयोः प्रतिपत्तव्यः । एवं ह्यापत्त्युत्थापकस्यार्थस्यानन्यथाभावोऽर्थापत्तेराश्रयः सिद्धो भवेत् । अथ २५ प्रकल्प्यमानार्थानन्यथाभवनमर्थापत्त्युत्थापकस्यार्थस्य तदैव सिद्धमित्यनुमानादापत्तेर्भेदः, ननु यदि तस्यानन्यथाभवनं प्रमाणान्तरात् प्रतिपन्नमर्थापत्तेराश्रयस्तदाऽनुमानेऽन्तर्भावः अथ न सिद्धं तदा नार्थापत्तिप्रवृत्तिरतिप्रसङ्गादित्युक्तम् । अथार्थापत्तिरेव प्रकल्प्यानन्यथाभवनं दृष्टस्य श्रुतस्य वार्थस्य प्रकल्पयति तींतरेतराश्रयत्वम्-अनन्यथाभवनसिद्धौ तस्यार्थापत्तिप्रवृत्तिः तत्प्रवृत्तेश्च तस्यानन्यथाभवनप्रसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् । ततस्तादात्म्य-तदुत्पत्तिप्रतिबन्धलक्षणान-३० न्यथाभवननिश्चयमन्तरेणान्यतरः सम्बन्धी अन्यतोऽर्थादर्थापत्त्या प्रकल्पयितुं न शक्यत इत्यन्वयव्यतिरेकसिद्धिः । पक्षधर्मता त्वर्थापत्तिसमाश्रयोऽर्थो यत्र धर्मिणि प्रमाणतो निश्चीयते तत्रैव स्वप्रकल्प्यं प्रकल्पयतीति न दुरुपपादा कारण-व्यापकयोरेव प्रतिबन्धात्तयोश्चान्यत्र सद्भावे कार्य-व्याप्ययोरपरत्रासंभवात् । एवमर्थापत्तेरनुमानेऽन्तर्भावात् तल्लक्षणमनुमानलक्षणात् पृथगयुक्तम् । प्रत्यक्ष
१-तानाका-आ०। २“गवयसद्धावे"-बृटि०। ३ "राज"-बृ.टि.। ४ "उपमामानविचारः"-बृ० टि.। प्रमेयकमलमार्तण्डे नैयायिकसंमतमुपमानं प्रतिविदधत्येषा चर्चा भगीभेदेन दृश्यते-पृ० १०. प्र. पं०७-1 ५पृ० ५७९पं०१६-पर्विकानि-वा० बा०।-पूर्वकनि-बृ० आ० हा० वि०। ७"अोपत्तिप्रवृत्तिकाले"बृ.टि.। ८ प्रपन्न-वा. बा०। ९सिद्धः त-बृ०। १०-स्य चा-वा० बा० भां० मा० । ११ "तत्र शक्कातिरेकेण न शक्तिर्नाम काचन । याऽर्थापत्त्याऽवगम्येत शक्तश्चाध्यक्ष एव हि ॥
दाहादीनां तु यो हेतुः पावकादिः समीक्ष्यते । असंशयाविपर्यासं शक्तिः कान्या भवेत् ततः ॥ व्यतिरिके तु कार्येषु तस्या एवोपयोगतः । भावोऽकारक एव स्यादुपयोगे न भेदिनी ॥ अर्थक्रियासमर्थ हि खरूपं शक्तिलक्षणम् । एवमात्मा च भावोऽयं प्रत्यक्षाद् व्यवसीयते" ॥
-तत्त्वसं० का० १६०७-१६१० पृ० ४६१ । ७५स. १०