________________
५८४
द्वितीये काण्डेनैयायिकोपर्वर्णितमप्युपमानमनधिगतार्थाधिगन्तृत्वाभावात् प्रमाणं न भवति । तथाहि-यथा गौस्तथा गवय इति वाक्याद् गोसदृशार्थसामान्यस्य गवयशब्दवाच्यताप्रतिपत्तेः अन्यथा विसदृशमहिष्याद्यर्थदर्शनादपि 'अयं स गवयः' इति संज्ञासंशिसम्बन्धप्रतिपत्तिः किं न भवेत् ? तस्माद् यथा कश्चित् 'योऽङ्गदी कुण्डली छत्री स राजा' इति कुतश्चिदुपश्रुत्य अङ्गदादिमदर्थदर्शनात् 'अयं स ५राजा' इति प्रतिपद्यते । न चासौ प्रतिपत्तिः प्रमाणम् उपदेशवाक्यादेवाङ्गदादिमतोऽर्थस्य राजशब्दवाच्यत्वेन प्रतिपन्नत्वात् तथेहापि 'यथा गौस्तथा गवयः' इत्यतिदेशवाक्यात् सम्बन्धमवगत्य गवयदर्शनात् सङ्केतानुस्मरणे सति 'अयं स गवयशब्दवाच्योऽर्थः' इति प्रतिपत्तरप्रमाणमुपमानम् । यदि पुनरतिदेशवाक्यात् सम्बन्धप्रतिपत्ति भ्युपगम्यते पश्चादपि 'अयं स गवयशब्दवाच्यः' इति
प्रत्ययो न स्यात् तदपरनिमित्ताभावाद दृश्यते च तस्माद गृहीतग्रहणान्नेदं प्रमाणम् । अथातिदेशवा१०क्यात् पूर्व गोसदृशार्थस्य गवयशब्दवाच्यता सामान्येन प्रतीता गवयदर्शनानन्तरं तु गवयविशेष
तच्छब्दवाच्यत्वेन पूर्वमप्रतीतं प्रतिपद्यत इति न गृहीतग्राहिता, असदेतत्; सन्निहितगवयविशेषविषयस्य ज्ञानस्य प्रत्यक्षतयोपमानत्वानुपपत्तेः । गवयदर्शनोत्तरकालभावितु 'अयं स गवयशब्दवाच्योऽर्थः' इति यद् ज्ञानं तत् प्रत्यक्षवलोत्पन्नत्वात् स्मृतिरेव न प्रमाणम् । किश्च, गवयविशेषस्य
गवयशब्दवाच्यता यद्यतिदेशवाक्यान्न प्रतिपन्ना कथं तर्हि गवयविशेषदर्शन उपजातेऽकस्मादस्य १५ तच्छब्दवाच्यतां प्रतिपद्यते ? यस्यैवार्थस्य सम्वन्धग्रहणकाले येन सह सम्बन्धोऽनुभूतस्तस्यैवार्थस्य
तेन सह सम्बन्धे तच्छब्दवाच्यता कालान्तरेऽपि दृश्यते ततः सामान्येन सङ्केतकाल एव सम्बन्धः प्रतीतः पश्चाद गवयदर्शन उपजाते सङ्केतमनुसृत्य 'अयं स गवयशब्दवाच्योऽर्थः' इति प्रतिपद्यते इत्यभ्युपगन्तव्यम् । एतेन
"उपयुक्तोपमानस्तु तुल्यार्थग्रहणे सति ।
विशिष्टविषयत्वेन सम्बन्ध प्रतिपद्यते" ॥[ इत्यपि निरस्तम् विशेषस्य सङ्केतकालानुभूतस्य व्यवहारकालाननुगमादवाच्यत्वाच्च । यश्च शब्दप्रभवप्रतिपत्तावर्थः प्रतिभाति स एव शब्दवाच्यः न च विशेषस्तत्र प्रतिभाति अक्षज्ञान इव विशदाभासस्य तत्रासंवेदनात् संवेदने वा विकल्परूपताविरहादर्थरूपस्यैवानुकारात् तस्य च शब्दसंसर्गविकलत्वात् तत्सामर्थ्यप्रभवे च ज्ञाने असतस्तत्र शब्दस्याप्रतिभासनान्न विशेषः शब्दवाच्यः या च 'अय २५मसौ गवयशब्दवाच्यः' इति विशेषस्य वाच्यताप्रतिपत्तिः सा दृश्यविकल्प(ल्प्य)योरेकीकरणाद्
१ पृ० ५७७ पं० ११। २ "तत्रापि संज्ञासंबन्धप्रतिपत्तिरनाकुला । तस्यातिदेशवाक्यस्य तदैव श्रवणे यदि ॥ तथा परिगृहीतार्थग्रहणान्न प्रमाणता । स्मृतेरिवोपमानस्य करणार्थवियोगतः" ॥
-तत्त्वसं० का० १५६४-१५६५ पृ० ४५२ । ३-त् स योङ्गदी भा० मा० । ४ “अथ सा नैव संजाता तथापि प्रतिपद्यते । सोऽयं यस्य मया संज्ञा संश्रुतेति कथं तदा ॥ तथाह्यश्रुततत्संज्ञो गवयस्योपलम्भने । तन्नाम श्रुतमस्येति न ज्ञातुं कश्चन प्रभुः"॥
-तत्त्वसं० का० १५६६-१५६७ पृ. ४५२ । ५ इतः "उपयुक्तोपमानस्तु" इति पद्यपर्यन्ता चर्चा अविद्धकर्णसंमतेति कमलशील आह । तथाहि"अविद्धकर्णस्वाह-आगमात् सामान्येन प्रतिपद्यते विशेषप्रतिपत्तिस्तूपमानादिति । अतस्तन्मतमाशङ्कते xxx
उपयुक्तोपमानश्चेत् तुल्यत्वग्रहणे सति । विशिष्टविषयखेन सम्बन्धमवगच्छति ॥ उपयुक्तमुपमानमतिदेशवाक्यं यस्य स तथोक्तः।xxx आगमाद्धि स संबन्धं वेत्ति सामान्यगोचरम् । विशिष्टविषयं तं तु विजानात्युपमाश्रयात्"॥
-तत्त्वसं. का० १५६८-१५६९ पृ. ४५२ । अस्य अविद्धकर्णमतस्य प्रतिविधानमपि चतसृभिः कारिकाभिः कृतं वर्तते तत्त्वसंग्रहे-का. १५७०-१५७३ पृ. ४५२-४५३ । ६ गोशब्दार्थस्य ल०। ७-जायते-आ० हा०वि०। ८ अनेन पद्येन समानभावं बिभ्राणा तत्त्व. संग्रहीया कारिका द्रष्टव्या-प्र. पृ० टि. ५। ९एक श-वा. बा० । १. "अर्थरूपस्य"-बृ. टि. । ११ "अर्थरूपसामर्थ्य"-बृ.टि.। १२-वाच्यो यथा यम-आ० हा०वि०।