________________
ज्ञानमीमांसा।
५८३ भवेत् प्रतिपन्नमपि यदि विस्मृतं भवेत् तदा गवयदर्शने सत्यपि परोक्षगवि नैव सादृश्यज्ञानमुपजायेत । अतो विषाणित्वादिसादृश्यं पूर्वमेव गवि प्रत्यक्षेणावगतमिदानीं गवयदर्शनात् तत्रैव स्मर्यते तन्न गृहीतग्रहणात् सादृश्यज्ञानं प्रमाणम् । अथ पूर्वप्रत्यक्षेण गोगतमेव सादृश्यमवगतं गवयदर्शनेन तु तद्गतमेव उभयगतसादृश्यप्रतिपत्तिस्तु गवयदर्शनानन्तरं सादृश्यज्ञाननिबन्धनेति अगृहीतग्राहितया प्रमाणमुपमानम्, असदेतत् पूर्वमुभयगतसादृश्याप्रतिपत्तौ गवयदर्शनानन्तरमप्यप्रतिपत्ते-५ स्तदनुसन्धानप्रतिपत्तेरप्यसंभवात् न हि गवयपिण्डदर्शनानन्तरं प्रागप्रतिपन्नतत्सादृश्येऽश्वपिण्डे 'अनेन सदृशोऽश्वः' इति प्रतिपत्तिः कदाचिदपि भवति । तस्मात् प्रागध्यक्षावगतसादृश्ये प्रतियोगिग्रहणाद् व्यवहारमात्रप्रवृत्तिरेव तदा, प्राक् तदप्रवृत्तिः प्रतियोग्यपेक्षत्वात् तस्य भ्रात्रादिव्यवहारवत् । न चं तावता प्रामाण्यं युक्तम् प्रमाणानामियत्ताऽभावप्रसक्तेः । एवं च धूमदर्शनात् स्मर्यमाणाग्निसम्बन्धितयाऽध्यक्षानवगतप्रदेशे तदयोगव्यवच्छेदमवगमयन्ती प्रतिपत्तिरुपजायमाना-१० नुमितिः प्रमाणतां यथा समासादयति न तथा सादृश्यप्रतिपत्तिः गवाख्यधर्मिप्रतिपत्तिकाल एव भूयोऽवयवसामान्ययोगलक्षणस्य सादृश्यस्य प्रतिपत्तेः । तेन 'प्रत्यक्षेऽपि यथा देशे' इत्यादि वचनमयुक्ततया व्यवस्थितम् । किञ्च, यदि सादृश्यज्ञानं गृहीतग्राहित्वेऽपि व्यवहारमात्रप्रवर्तनात् प्रमाण तर्हि वैसदृश्यज्ञानमपि सप्तमं प्रमाणं भवेत् ।
___दृश्यात् परोक्षे सादृश्यधीः प्रमाणान्तरं यदि ।
वैधर्म्यमतिरप्येवं प्रमाणं किं न सप्तमम् ?” ॥ [ तथा सोपानमालामाकामतः प्रथमाकान्तं पश्चादाक्रान्ताद्दीर्घ महद् हवं चेत्याद्यने प्रमाणं प्रसक्तमिति कुतः प्रमाणपट्कवादः सङ्गतो भवेत् ?
"दृश्यमानव्यपेक्षंचेद दृष्टज्ञानं प्रमान्तरम। तत्पूर्वमस्मादित्यादि प्रमाणान्तरमिष्यताम्" ॥ [
] २० अप्रामाण्ये चास्य पक्षधर्मवाद्यभावप्रतिपादनं सिद्धसाधनमेव अप्रमाणस्यानुमानत्वानभ्युपगमात् । यदा च प्रत्यक्षेण प्रतियन्नपि गवावादी भूयोवयवसामान्ययोगं तद्वियोगं वा व्यामूढः सदृशासदृशव्यवहारं न प्रवर्तयति तदा विषयदर्शनेन विषयिणो व्यवहारस्य साधनात् त्रैरूप्यसद्भावादनुमानप्रमाणता समस्त्येव । तथाहि-गवावादी विपाणाद्यवयवसामान्ययोगस्तद्वियोगो वा प्रागुपलब्ध इदानीं स्मर्यमाण इति नासिद्धता हेतोः प्रवृत्तव्यवहारविपयश्च सर्व एवार्थोऽत्र दृष्टान्तोऽस्तीति नान्वयव्य-२५ तिरेकयोरप्यभावः । ततो 'न चैतस्यानुमानत्वम्' इत्यादि पक्षधर्मत्वाद्यसंभवप्रतिपादनमसंगतम् व्यवहारसाधने पक्षधर्मत्वादेः प्रसाधनात् ।।
१-जायतेऽतो आ० हा० वि०।२ "विज्ञातार्थप्रकाशलान्न प्रमाण मियं ततः"-तत्त्वसं० का० १५५० पृ०४४८। ३ "व्यवहारस्य"-बृ.टि.। ४ "एतावता च लेशेन प्रमाणलव्यवस्थितौ । नेयत्ता स्यात् प्रमाणानामन्यथाऽपि प्रमाणतः" ॥
-तत्त्वसं० का० १५५६ पृ. ४४९ । ५ पृ० ५७६ पं० १८। ६-दृशज्ञा-ल० वा. बा० । "गवयस्योपलम्मे च तुरनादौ प्रवर्तते । तद्वसदृश्य विज्ञानं यत् तदन्यप्रमा न किम्"?॥
-तत्त्वसं० का० १५५९ पृ० ४५० । ७ तत्त्वसंग्रहे खन्यया भझ्योदाहृतमस्ति
"तरुपतयादिसंदृष्टावेकपादपदर्शनात् । द्वितीयशाखिविज्ञानादाद्योऽसाविति निश्चयः॥ प्रमाणान्तरमासकं सादृश्याद्यनपेक्षणात् । गृहीतग्रहणानो चेत् समानमुपमाखपि ॥"
-तत्त्वसं• का० १५५७-१५५८ पृ० ४५० । ८पृ० ५७६ पं० २५। ९ "प्रतिपद्यमानोऽपि"-बृ० ल. टि.। १०-द्वियोगे वा ल• आ० ।-द्वियोगं च वि०। ११ पृ० ५७७ पं०१। १२ मीमांसकसंमतोपमानप्रतिवादिन्येषा चर्चा उपमानस्य प्रत्यभिज्ञात्मतां स्थापयन्ती प्रमेयकमलमार्तण्डीयां चर्चामनुसरति-प्रमेयक. पृ. ९९ द्वि०पं०६-पृ० १००प्र० पं०६।