________________
५८२
द्वितीये काण्डेतदेवमगृहीतंप्रमेयाभावग्राहकत्वात् प्रमाणाभावस्य प्रमाणत्वम् प्रत्यक्षाष्विनन्तर्भावात् प्रमाणान्तरत्वं च व्यवस्थितम् । [ सौगतेन मीमांसकादिमतानामुपमानादीनामप्रमाणत्वं यथायथं प्रत्यक्षानुमानयोरन्तर्भावनेन
पृथक्प्रामाण्याभावं चोपपाद्य प्रमाणान्तरत्वप्रति विधानम् ] ५ अत्र प्रतिविधीयते-यत् तावत् शाब्दस्य त्रैरूप्यरहितत्वेन तादृग् विषयाभावाच्चानुमानानन्त
र्भावप्रतिपादनमभ्यधायि तद् युक्तमेव न ह्यप्रमाणस्यानुमानेऽन्तर्भावो युक्तः। कुतः पुनः शब्दोद्भवस्य ज्ञानस्याप्रामाण्यम् ? शब्दस्यार्थप्रतिबन्धाभावात् न हि शब्दोऽर्थस्य स्वभावः अत्यन्तभेदात् नापि कार्य तेन विनापि भावात् न च तादात्म्य-तदुत्पत्तिव्यतिरिक्तः सम्बन्धो गमकत्वनिबन्धनमस्ति ।
न च सङ्केतबलाद वास्तवप्रतिपत्तिशक्तियुक्तानां प्रदीपानामिवार्थप्रकाशकत्वं संभवति । न च १० व्यवस्थितैवार्थप्रतिपादनयोग्यता सङ्केतेन शब्दस्याभिव्यज्यत इति वक्तव्यम् पुरुषेच्छावशादन्यत्रार्थे
शब्दस्य समैयादप्रवृत्तिप्रसक्तेः दृश्यते च पुरुषेच्छावशादन्यत्रापि विषये शब्दानां प्रवृत्तिः । न च पुरुषेच्छावृत्तिः समयो वस्तुप्रतिवद्धः तदभावेऽपि तस्य प्रवृत्तेः । न च सङ्केतमन्तरेण शब्दस्य वस्तुप्रत्यायकत्वम् सङ्केताभावप्रसक्तेः । आप्तप्रणीतशब्दानां पुनरर्थाव्यभिचारेऽप्याप्तप्रणीतत्वानिश्चया
देवाप्रामाण्यं न पुनराप्तस्यैवासंभवात् तत्संभववाधकप्रमाणाभावात् । ततो बाह्ये विषये शब्दानां १५ प्रतिवन्धाभावतःप्रामाण्यमेव न संभवति पक्षधर्मत्वाद्यसंभवादनुमानत्वाभावप्रतिपादनं युक्तमेवेति स्थितम् । यत्रं तु वक्रभिप्रायसूचने प्रामाण्यमस्य तत्रानुमानलक्षणयुक्तस्यैव नान्यादृग्भूतस्येति न प्रमाणान्तरत्वम् ।
उपमानस्य त्वपूर्वार्थाधिगन्तृत्वाभावात् प्रामाण्यमेव न संभवति । नन्वस्यापूर्वार्थविषयता प्रागुप॑दर्शितैव सत्यमुपदर्शिता न तु युक्ता । तथाहि-तस्य विषयः सादृश्यविशिष्टो गौः तद्विशिष्टं वा १० सादृश्यमुपदर्शितं तच्च भूयोऽवयवसामान्ययोगलक्षणं प्रतिपादितम् । न च सामान्यं तद्योगो वा
वस्तु संभवीति प्रतिपादितम् तत्सद्भावेऽपि प्रत्यक्षविषयतया परैस्तस्येष्टेः कथमुपमानस्य तद्गोचरत्वेनागृहीतार्थग्राहित्वं प्रामाण्यनिवन्धनं भवेत् ? सादृश्यज्ञानस्य चोत्पत्तावयं क्रमः-पूर्व तावद गो-गवययोर्विषाणित्वादि सादृश्यं गवि प्रत्यक्षतः प्रतिपद्यते पश्चाद् गवयदर्शनानन्तरं 'यदेतद् विषाणित्वादि सादृश्यं पिण्डेऽस्मिन्नुपलभ्यते मया तद् गव्यप्युपलब्धम्' इति स्मरति तदनन्तरं गवि २५विषाणित्वादिसादृश्यप्रतिसन्धानं जायते 'अनेन पिण्डेन सदृशो गौः' इति । एवं च स्मार्तमेतद् ज्ञानं कथं प्रमाणान्तरं भवेत् ? यदि च गवि प्रत्यक्षेणोभयगतं विषाणित्वादिसादृश्यं प्रागे न प्रतिपन्नं
१-तमप्र-बृ० वा. बा० विना। २ पृ. ५७४ पं० ९।। ३ "वचसा प्रतिबन्धो वा को बाह्येष्वपि वस्तुषु । प्रतिपादयतां तानि येनैषां स्यात् प्रमाणता ॥ भिन्नाक्षग्रहणादिभ्यो नैकात्म्यं न तदुद्भवः । व्यभिचारान्न चान्यस्य युज्यतेऽव्यभिचारिता" ॥
-तत्त्वसं० का० १५१३-१५१४ पृ. ४४० । ४ "शब्दानाम्"-बृ० टि०। ५-मवायाद-आ० हा० वि०। ६ “वस्वभावे"-बृ० टि। ७ “यत्र त्वेषामभीष्टेयं व्यक्तं तत्र त्रिरूपता । विवक्षायां तु साध्यायां त्रैलक्षण्यं प्रकाशितम् ॥ एवं स्थितेऽनुमानत्वं शब्दे धूमादिवद् भवेत् । त्रैरूप्यसहितत्वेन तादृग्विषयसत्त्वतः" ॥
-तत्त्वसं. का. १५२४-१५२५ पृ. ४४३ । ८ पृ. ५७६ पं० ९ । ९ पृ० ५७६ पं० ७ । “भूयोवयवसामान्ययोगः सादृश्यमस्ति चेत्"।
-तत्त्वसं० का० १५४३ पृ. ४४७ ॥ १० “सामान्यानि निरस्तानि भूयस्ता तेषु सा कुतः"?।-तत्त्वसं० का० १५४४ पृ० ४४७ । ११ “एवं तु युज्यते तत्र गोरूपावयवैः सह । गवयावयवाः केचित् तुल्यप्रत्ययहेतवः ॥ तत्रास्य गवये दृष्टे स्मृतिः समुपजायते। असकृद् दृष्टपूर्वेषु गोरूपावयवेषियम् ॥"
-तत्त्वसं.का. १५४७-१५४८ पृ०४४७॥ १२-ग प्र-आ० हा० वि० ।