________________
ज्ञानमीमांसा
५८१
अभावश्च चतुर्धा व्यवस्थितः-प्रागभावः प्रध्वंसाभावः इतरेतराभावः अत्यन्ताभावश्चेति । तत्र
"क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ॥ नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः। शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते” ॥
[श्लो० वा० अभावप० श्लो० २-३-४] यदि चैतद्व्यवस्थापकमभावाख्यं प्रमाणं न भवेत् तदा प्रतिनियतवस्तुव्यवस्था दूरोत्सारितैव स्यात् । तदुक्तम्
"क्षीरे दधि भवेदेव दनि क्षीरं घटे पटः। शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ॥ अप्सु गन्धो रसश्चाग्नौ वायौ रूपेण तो सह । व्योम्नि संस्पर्शता ते च न चेदस्य प्रमाणता" ॥
[ श्लो० वा० अभावप० श्लो०५-६] इति । न च निरंशभावैकरूपत्वाद् वस्तुनस्तत्स्वरूपग्राहिणाऽध्यक्षेण तस्य सर्वात्मना ग्रहणादगृहीतस्य १५ चापरस्यासदंशस्य तत्राभावात् कथं तद्व्यवस्थापनाय प्रवर्त्तमानमभावाख्यं प्रमाणं प्रामाण्यमश्नुत इति वक्तव्यम् यतः सदसदात्मके वस्तुनि प्रत्यक्षादिना तत्र सदंशग्रहणेऽप्यगृहीतस्यासदंशस्य व्यवस्थापनाय प्रमाणाभावस्य प्रवर्तमानस्य न प्रामाण्यव्याहतिः। तदुक्तम्
"वरूप-पररूपाभ्यां नित्यं सदसदात्मके। वस्तुनि ज्ञायते किंचित् रूपं कैश्चित् कदाचन ॥ यस्य यत्र यदोद्भूतिर्जिघृक्षा चोपजायते । चेत्यतेऽनुभवस्तस्य तेन च व्यपदिश्यते ॥ तस्योपकारकत्वेन वर्ततेंऽशस्तदेतरः। उभयोरपि संवित्योरुभयानुगमोऽस्ति तु ॥ प्रत्यक्षाद्यवतारश्च भावांशो गृह्यते यदा । व्यापारस्तंदनुत्पत्तेरभावांशे जिघृक्षित" ॥
[श्लो० वा० अभावप० श्लो० १२-१३-१४,१७ ] इति । न च भावांशादभिन्नत्वादभावांशस्य तद्हणे तस्यापि ग्रह इति, सदसदंशयोर्धर्म्यभेदेऽपि भेदाभ्युपगमात् । उक्तं च
"ननु भावादभिन्नत्वात् सम्प्रयोगोऽस्ति तेन च । न हत्यन्तमभेदोऽस्ति रूपादिवदिहापि नः ॥ धर्मयोर्भेद इष्टो हि धर्म्यभेदेऽपि नः स्थिते । उद्भवाभिभवात्मत्वाद् ग्रहणं चावतिष्ठते" ॥[श्लो० वा० अभावप०१९-२०] इत्यादि ।
१पृ० १८६ पं० २२ टि० ११। २ तत्त्वसं० पजि० पृ. ४७२ पं० १४-१५। ३ "तौ गन्ध-रसौ"-बृ. ल० टि०। ४ संस्पर्शता भां० मा० विना । “संस्पर्शिता"-श्लो० वा० । “सस्पर्शकास्ते"-तत्त्वसं० पञ्जि. पृ० ४७२ पं०१६। ५ "गन्ध-रूप-रसाः"-बृ. ल.टि.। ६ तत्त्वसंका१६७२ । ७ “संवित्तावुभया"-श्लो० वा.। ८ तत्त्वसं. का. १६७३ । ९"अभावप्रमाणस्य"-वृ० ल.टि.। “व्यापारस्तदनुत्पत्ति"-श्लो० वा० । “तदनुत्पत्तिः प्रत्यक्षाद्यभाव इति-पार्थ० व्या० पृ. ४७८ । “व्यापारस्तदनुत्पत्ते"-तत्त्वसं० का० । “तदनुत्पत्तेापारः-तेषां प्रत्यक्षादीनामनुत्पत्तरभावस्येति यावत्"-तत्त्वसं० पजि. पृ० ४७७ पं० । १० जिविक्षत इति वा. बा० । “जिघृक्षिते"श्लो० वा० । तत्त्वसं० का० । “अभावांशे ग्रहीतुमिष्टे"-तत्त्वसं० पञ्जि० पृ. ४७७ पं०६। ११ "अभावेन"-बृ० ल. टि.। १२-पिन स्थिते हा०वि०।-पिनःस्थितेः भा. मां०। १३ “उत्कट खानुत्कटखात्मलातू"-वृ.टि.।