________________
५८०
द्वितीये काण्डे"अभावोऽपि प्रमाणाभावः 'नास्ति'इत्यर्थस्यासन्निकृष्टस्य" [१-१-५ शाबरभा०] इति वचनात् । अन्ये पुनरभावाख्यं प्रमाणं त्रिधा वर्णयन्ति-प्रमाणपञ्चकाभावलक्षणोऽनन्तरोक्तोऽभावः, प्रतिषिध्यमानाद् वा तद्न्यज्ञानम् आत्मा वा विषयरूपेणानभिनिवृ(निवृत्तस्वभाव इति अनेन चाभाव. प्रमाणेन प्रदेशादौ घटादीनामभावो गम्यते । तदुक्तम्
"प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता" ॥ [ श्लो० वा० अभावप० श्लो०१] "प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते। सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि" ॥
[ श्लो० वा० अभावप० श्लो० ११ ] इति । १० न च प्रत्यक्षेणैवाभावोऽवसीयते तस्याभावविषयत्वविरोधात् भावांशेनैवेन्द्रियाणां संयोगात् । तदुक्तम्
"न तावदिन्द्रियेणैपा नास्तीत्युत्पाद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हिं" ॥
[श्लो० वा० अभावप० श्लो०१८] इति। १५ नाप्यनुमानेनासौ साध्यते हेत्वभावात् । न च प्रदेश एव हेतुः तस्य साध्यधर्मित्वेनाभ्युपगमात् । न
चैवमपि हेतुः प्रतिज्ञार्थंकदेशताप्राप्तेः न च प्रदेशविशेषो धर्मी तत्सामान्यं हेतुः तस्य घटाभावव्यभिचारात् न हि सर्वत्र प्रदेशे घटाभावः शक्यः साधयितुं सघटस्यापि प्रदेशस्य संभवात् । अथ घटानुपलब्ध्या प्रदेशे धर्मिणि घटाभावः साध्यते, असदेतत् साध्यसाधनयोः कस्यचित् सम्वन्धस्याभावात् । तस्मादभावोऽपि प्रमाणान्तरमेव । न चाभावस्य तद्विषयस्याभावादभावप्रमाणान्तरवैयर्थ्यम् २०प्रागभावादिभेदेन चतुर्विधस्य वस्तुरूपस्याभावस्य भावात् अन्यथा कारणादिविभागतो व्यवहारस्य लोकप्रतीतस्याभावप्रसङ्गात् । तदुक्तम्
"न च स्याद् व्यवहारोऽयं कारणादिविभार्गतः।
प्रागभावादिभेदेन नाभावो यदि भिद्यते" ॥ [ श्लो० वा० अभावप० श्लो०७] अभावस्य च प्रागभावादिभेदान्यथानुपपत्तेरापत्त्या वस्तुरूपताऽवसीयते । तदुक्तम्
"न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता। कार्यादीनामभावः को भावो यः कारणादि न" ॥
[श्लो० वा० अभावप० श्लो०८] इति । अनुमानप्रमाणावसेया वाऽभावस्य वस्तुरूपता । यदाह
"यद्वाऽनुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद् गवादिवद् वस्तु प्रमेयत्वाच्च गृह्यताम्" ॥
[श्लो० वा० अभावप० श्लो०९] इति ।
२५
१ "तत्र कुमारिलेन त्रिविधोऽभावो वर्णितः-आत्मनोऽपरिणाम एकः पदार्थान्तरविशेषज्ञानं द्वितीयः xxx प्रमाणनिवृत्तिमात्रात्मकस्तृतीयः"-तत्त्वसं० पजि. पृ. ४७३ पं० ११-१३ ।
२-नभिर्निवृत्त-आ० ।-नभिवृत्त-ल० वा० बा० । “अपरिणत-"बृ० टि.।
__“सात्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनीति । सा-प्रत्यक्षादेरनुत्पत्तिः निषेध्याभिमतघटादिपदार्थज्ञानरूपेणापरिणतं साम्यावस्थमात्मद्रव्यमुच्यते घटादिविविक्तभूतलज्ञानं वा" -तत्त्वसं० पञ्जि. पृ० ४७१ पं० १०-१२ ।
३-शानं चान्य-भां. मां० । “सात्मनः परिणामो वा"-श्लो. वा० । तत्त्वसं. का. १६४९ पृ. ४७१। ४“न तावदिन्द्रियैरेषा नास्तीत्युत्पद्यते मतिः"-श्लो० वा. पृ. ३५१५० १३। ५ "प्रमेयतया"-बृ० ल.टि.। ६-गशः बृ०। ७ "नाभावो विद्यते यदि"-तत्त्वसं. का. १६५४ पृ. ४७२ । श्लोकवार्तिकेऽपि “नाभावो विद्यते यदि"-इति पाठान्तरं विद्यते। ८-रणादित इ-हा० वि०।-रणोदित इ-आ० । “योऽभावः कारणादिनः"-श्लो० वा० । “यो भावः कारणादिना"-तत्त्वसं० का० १६५५ पृ. ४७२ । ९-"बुद्धयो यो यतः खयम्"-तत्त्वसं० का० १६५६ पृ०४७३ ।