________________
ज्ञानमीमांसा। प्रत्यक्षादिभिः षभिः प्रमाणैः प्रसिद्धो योऽर्थः स येन विना नोपपद्यते तस्यार्थस्य प्रकल्पनमर्थापत्तिः यथाग्नेर्दाहकत्वम् । तत्र प्रत्यक्षपूर्विकार्थापत्तिः यथाग्नेः प्रत्यक्षेणोष्णस्पर्शमुपलभ्य दाहकशक्तियोगोऽर्थापत्त्या प्रकल्प्यते न हि शक्तिरध्यक्षपरिच्छेद्या नाप्यनुमानादिसमधिगण्या अप्रत्यक्षेणार्थन शक्तिलक्षणेन कस्यचिदर्थस्य सम्बन्धासिद्धेः । अनुमानपूर्विका त्वर्थापत्तिः यथा आदित्यस्य देशान्तरप्राप्त्या देवदत्तस्येव गत्यनुमाने ततो गमनशक्तियोगोऽर्थापत्त्यावसीयते । उपमानपूर्विका त्वर्थापत्तिः५ यथा 'गवयवद् गौः' इत्युक्तेराद् वाहदोहादिशक्तियोगस्तस्य प्रतीयते अन्यथा गोत्वस्यैवायोगात् । शब्दपूर्विकार्थापत्तिः यथा शब्दादर्थप्रतीतौ शब्दस्यार्थेन सम्बन्धसिद्धिः । अर्थापत्तिपूर्विकार्थापत्तिः यथोक्तप्रकारेण शब्दस्यार्थेन सम्बन्धसिद्धावन्नित्यत्वसिद्धिः पौरुषेयत्वे शब्दस्य सम्बन्धायोगात् । अभावपूर्विकार्थापत्तिः यथा जीवतो देवदत्तस्य गृहे अदर्शनादर्थाद् वहिर्भावः। अत्र चतसृभिरर्थापत्तिभिः शक्तिः साध्यते, पञ्चम्यां नित्यता, पठ्यां गृहाद् वहिर्भूतो देवदत्त एव साध्यत इत्येवं षट्प्र-१० कारा अर्थापत्तिः। अन्ये तु श्रुतार्थापत्तिमन्यथोदाहरन्ति 'पीनो देवदत्तो दिवा न भुते' इति वाक्यश्रवणाद् रात्रिभोजनवाक्यप्रतिपत्तिः श्रुतार्थापत्तिः । गवयोपमितस्य गोस्तज्ज्ञानग्राह्यताशक्तिरुपमानपूर्विकार्थापत्तिः । तदुक्तम्
"तत्र प्रत्यक्षतो ज्ञातात् दाहाद्दहनशक्तिता। वढेरनुमितात् सूर्ये यानात् तच्छक्तियोगिता” ॥ [ श्लो० वा० अर्थाप० श्लो० ३] १५ "पीनो दिवा न भुते इत्येवमादिवचःश्रुतौ।
रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते” ॥ [ श्लो० वा० अर्थाप० श्लो० ५१ ] "गवयोपमिताया गोस्तज्ञानग्राह्यशक्तिता" ॥ [ श्लो० वा० अर्थाप० श्लो० ४] "अभिधानप्रसिद्ध्यर्थमर्थापत्त्यावबोधितात् ।।
शब्दे वाचकमामात् तन्नित्यत्वप्रमेयता" ॥ [ श्लो० वा० अर्थाप० श्लो०५] २० "प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् । गेहाच्चैत्रबहिर्भावसिद्धिर्या विह दर्शिता" ॥ "तामभावोत्थितामन्यामपनिमुदाहरेत्"।
[श्लो० वा० अर्थाप० श्लो०८-९] इत्यादि । इयं च पट्प्रकाराप्यर्थापत्तिर्नाध्यक्षम् अतीन्द्रियशक्त्याद्यर्थविषयत्वात् । अत एव नानुमानम् प्रत्यक्षा-२५ वगतप्रतिवद्धलिङ्गप्रभवत्वेन तस्योपवर्णनात् अर्थापत्तिगोचरस्यार्थस्य कदाचिदप्यध्यक्षाविषयत्वात् तेन सहार्थापत्त्यन्थापकस्यार्थस्य सम्बन्धाप्रतिपत्तस्तदैवार्थापत्त्या ततस्तस्य प्रकल्पनात् प्रमाणान्तरमेवार्थापत्तिः।
[ मीमांसकेन अमावस्य प्रमाणान्तरत्वसमर्थनम् ] "अर्थस्थासन्निकृष्टस्य प्रसिद्ध्यर्थ प्रमान्तरम् । प्रमाभावमभावाख्यं वर्णयन्ति तथाऽपरे" ॥ [
प्रमाणान्तरपरीक्षायामापत्तिविचारे पूर्वपक्षप्रसो शान्तरक्षित इंटगेव अर्थापत्तिस्वरूपं तद्भेदांश्च निरूपितवान् तचात्र तत्कारिकाकैरेव निर्दिश्यते-तत्त्वसं० का० १५८७-१६०६ पृ. ४५६-४६१ ।
प्रमेयकमलमार्तण्डस्तु प्रस्तुतटीकया अक्षरशः साम्यं विभर्ति-पृ. ४८ द्वि. पं०६-पृ. ४९ प्र० पं० ८। श्रीधरोऽपि तामनुमानेऽन्तभावयन् व्याख्यातवान्-प्रशस्त. कं० पृ. २२२-२२५ ।
श्रीधरानुसारी जयन्तस्तु अर्थापति व्यावर्णयन् नोज्नितवान् प्रस्तुतटीकासाम्यम्-न्यायमज. आ. १ पृ. ३६ पं. ८-पृ० ४९ पं० ४।
१-स्तज्ञा-आ० हा०वि० विना। २ तत्त्वसंग्रहे ईदृशी एव कारिका-१५८८ । “ज्ञानाद् दाहाद्दहनशक्तता । वहेरनुमिता सूर्ये यानात्तच्छक्तियोग्यता"-श्लो. वा.३ "गवयोपमिता या गीस्त ज्ज्ञानग्राह्यता मता"-श्लो० वा० । “गवयोपमिता या गौस्तज्ज्ञानग्राह्यशक्तता"-तत्त्वसं. का० १५९९ । ४ "शब्दे बोधकसामर्थ्यात् तन्नित्यत्वप्रकल्पनम्"-श्लो० वा० ।
५ अर्थापत्तिचर्चायामिव अत्र अभावच यामपि समानप्रायाणि लोकवार्तिक-तत्त्वसंग्रह-प्रमेयकमलमार्तण्ड-कन्दलीन्यायमजरीणामभावनिरूपकाणि तत्तचर्चास्थलानि अवधारणीयानि-लो. १-५८ पृ० ४७३-४९२ । का० १६४८१६५९ पृ० ४७०-४७३ । पृ० ४९ प्र. पं. ९-पृ. ५. प्र. पं. ४ । पृ. २२५-२३० । पृ० ४९-५१ ।