________________
५७८
द्वितीये काण्डे
'प्रसिद्धसाधर्म्यात्' इत्यागमपूर्विका प्रसिद्धिर्दर्शिता । आगमस्तु 'यथा गौस्तथा गवयः' इत्येवम् प्रसिद्धन साधयं प्रसिद्धं वा साधर्म्यमिति साधर्म्यप्रसिद्धः संस्कारवान् पुरुषः कदाचिदरण्ये परिभ्रमन् समानमर्थ यदा पश्यति तदा तज्ज्ञानादागमाहितसंस्कारप्रवोधः ततः स्मृतिः 'गोसदृशो गवयः' इत्येवंरूपा स्मृतिसहायेन्द्रियार्थसन्निकर्षण 'गोसदृशोऽयम्' इति ज्ञानमुत्पाद्यते तच्चेन्द्रियार्थ५सन्निकर्षजत्वात् प्रत्यक्षफलम् तदेवाव्यपदेश्यादिविशेषणविशिष्टार्थोपलब्धिजनकत्वाद् गोसारूप्यज्ञानमुपमानम् । न च तत्रैव विषये हेयादिज्ञानोत्पादकत्वेनोपमानप्रमाणताप्रसक्तिः हेयादिज्ञानस्येन्द्रियार्थसन्निकर्षजत्वात् तजनकत्वेनास्य प्रत्यक्षप्रमाणताप्रसक्तेः । न च शब्देन साधं यथोक्तमुत्पादयदेतच्छाब्दं प्रसज्यते अव्यपदेश्यपदाध्याहारात् । अव्यभिचार्यादिपदानां तु पूर्ववद् व्यवच्छेद्यं
द्रष्टव्यम् । नन्वेवमप्यनुमाने प्रसङ्गः तस्य यथोक्तफलजनकत्वात्, न; अविनाभावसम्बन्धस्मृति१० पूर्वकस्य परामर्शज्ञानस्य विशिष्टफलजनकत्वेनानुमानत्वात् । न चाधिकृतज्ञानमविनाभावसम्वन्ध
स्मृतिपूर्वकम् गोसदृशस्य गवयशब्दवाच्यत्वेनान्यस्याप्रसिद्धत्वात् । 'गोसदृशस्य गवयशब्दः संज्ञा' इति आगमात् प्रतीतिरिति चेत्, न तस्य सन्निधीयमानगोसदृशपिण्डविषयत्वेनाप्युपपत्तेः निश्चितश्चान्वयः साध्यप्रतिपत्त्यङ्गम् न च तदोपलभ्यमानाद् गोसदृशपिण्डाद् व्यतिरिक्तगोसदृशसद्भावनिश्चायकं प्रमाणमस्ति । न चात्र व्यतिरेक्यपि हेतुः समस्ति सपक्षासत्त्वप्रतिपादकप्रमाणाभावात् १५ अतो नाविनाभावसम्वन्धानुस्मृतिः। व्याप्तिरहितेऽपि चागमे 'गोसदृशो गवयः' इति सकृदुच्चारिते
उत्तरकालं गोसदृशपदार्थदर्शनात् 'अयं स गवयशब्दवाच्यः' इति प्रतिपत्तिर्भवतीति नानुमानमेतत्; संज्ञासंशिसम्बन्धज्ञानं त्वागमिकं न भवत्येव शब्दस्य तज्जनकस्य तदाऽभावात् शब्दजनितं च शाब्द प्रमाणमिति व्यवस्थितम् । प्राक् शब्दप्रतीतत्वात् शाब्दमिति चेत्, नन्वनुमानस्याप्येवमभावप्रसक्तिः
अग्निसामान्यस्य प्राक् प्रत्यक्षेण प्रतीतत्वात् न ह्यप्रतीते महानसादावग्निसामान्येऽनुमानप्रवृत्तिरिति २० अप्रतीतार्थाप्रतिपादकत्वादनुमानं न प्रमाणं भवेत् । न च विशिष्टदेशाद्यवच्छेदसाधकत्वेनास्य प्रामाण्यम् इतरत्रापि समानत्वात् । तथाहि-सन्निधीयमानपिण्डविषयत्वेनं स्वप्रतिपाद्यमिदं प्रतिपादयति आगमस्त्वसन्निहितपिण्डविषयत्वेन । न चागमात् संज्ञासंशिसम्वन्धः प्रतीयते ततः सारूप्यमात्रप्रतीतेः । यत्र च शब्दस्यैव साधकतमत्वं तदेव शाब्दफलम् न च विप्रतिपत्त्यधिकरणे
संज्ञासंज्ञिसम्बन्धज्ञाने एतत् समस्ति । प्रत्यक्षफलं तु न भवत्येवैतत् संज्ञासंज्ञिसम्बन्धस्येन्द्रियेणा२५सन्निकर्षात् तदसन्निकर्षश्चन्द्रियाविषयत्वात् तस्य । तदेवं संज्ञासंझिसम्बन्धप्रतिपत्तिरूपं फलं यतः
समुपजायते तदुपमानम् आह च सूत्रकार:-"साध्यसाधनम्" [ न्यायद०१-१-६] इति । साध्य विशिष्टं फलम् तस्य साधनं जनकं यत् तदुपमानम् । एवं सारूंप्यज्ञानवत् सारूप्यस्याप्युपमानत्वं न पुनः संज्ञासंशिसम्बन्धज्ञानस्य फलाभावात् । न च हेयादिज्ञानमस्य फलं प्रत्यक्षादिफलत्वात् । तथाहि-हेयादिज्ञानं पिण्डविषयं तच्चेन्द्रियार्थसन्निकर्षादुपजायते यथा प्रत्यक्षफलमनुमानं विशिष्ट३० फलजनकत्वात् । एवं प्रमाणान्तरानिष्पाद्यविशिष्टफलजनकत्वात् प्रमाणान्तरमुपमानम् ।
[ मीमांसकेन अर्थापत्तेः स्वरूपव्यावर्णनपूर्वकं प्रमाणान्तरत्वसमर्थनम् ] अपत्तिरपि प्रमाणान्तरम् यतस्तस्या लक्षणम्-"अर्थापत्तिरपि दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पना" [१-१-५ शावरभा०]। कुमारिलोऽप्येतदेव भाष्यवचनं विभजन्नाह
"प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवेत् । अदृष्टं कल्पयत्यन्य साऽर्थापत्तिरुदाहृता ॥ दृष्टः पञ्चभिरप्यस्माद् भेदेनोक्ता श्रुतोद्भवा ।
प्रमाणग्राहिणीत्वेन यस्मात् पूर्वविलक्षणा" ॥ [ श्लो० वा० अर्थाप० श्लो० १-२] १ "गवयरूपम्"-बृ. ल. टि.। २ तथेन्द्रि-बृ० । ३-ज्ञानत्वविशि-आ. हा० वि० ।-ज्ञानविशिल० ।-ज्ञानाविशि-बृ० । ४-रिक्तःगो-वा० बा० । ५ शाब्दप्र-ल. । ६-सक्तेः आ० हा० वि०। ७-न प्रतिवा. बा. भां० मां० विना। ८ विधिप्र-भां० मां० । विधि प्र-बृ०।९ पृ. ५७७ पं० ११।१०-रूप्यं ज्ञा-वृ०। ११ तत्त्वसं० पजि. पृ० ४५६ पं० २३-२४ । १२ “यत्रार्थोऽनन्यथा भवन्"-ल. टि. । “यत्रार्थो नान्यथा भवन् अदृष्ट कल्पयेदन्यम्-पाठान्तरम्"-बृ. ल. टि.। १३-ल्पयन्त्यन्यं बृ. आ. हा० ।-"रूपयेदन्यं"-श्लो० वा० । १४ “अर्थम्"- बृ० ल. टि.।
प्रस्तुता टीका कौमारिलं श्लोकवार्तिकमनुसरति-श्लो. वा. अर्थाप.लो. १-८८ पृ. ४५०-४७२ ।