________________
ज्ञानमीमांसा। "न चैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात् । प्राक् प्रमेयस्य सादृश्यं न धर्मत्वेन गृह्यते ॥ गवये गृह्यमाणं च न गवार्थानुमापकम् । प्रतिज्ञार्थंकदेशत्वाद् गोगतस्य न लिङ्गता ॥ गवयश्चाप्यसम्बन्धान्न गोलिङ्गत्वमृच्छति । सादृश्यं न च पूर्वेण पूर्व दृष्टं तदन्वयि ॥ एकस्मिन्नपि दृऐऽर्थे द्वितीयं पश्यतो वने । सादृश्येन सहैकस्मिंस्तदैवोत्पद्यते मतिः" ॥
[ श्लो० वा० उपमान० श्लो० ४३-४६] इति । [नैयायिककृतमुपमानस्य स्वरूपवर्णनम् प्रमाणान्तरत्वसमर्थनं च] नयाँयिकास्तूपमानलक्षणमभिदधति-प्रसिद्धसाधात् साध्यसाधनमुपमानम्' [ न्यायद० १-१-६] इति । अत्र 'उपमानम्' इति लक्ष्यनिर्देशः 'प्रसिद्धसाधात् साध्यसाधनम्' इति लक्षणम् १ “(प्राग् गोगतं हि सादृश्यं न ) धर्मलेन गृयते । गवये गृह्यमाणं च न गवामनुमापकम्" ॥
-तत्त्वसं० का० १५४० पृ० ४४६ । २ "गवामनु"-श्लो० वा०। ३ "प्रतिज्ञार्थंकदेशवाद् गोगतस्य न लिङ्गता । गवयश्चाप्यसंबन्धान गोलिङ्गलमृच्छति॥
-तत्त्वसं• का० १५४१ पृ० ४४७ । ४"सादृश्यं न च सर्वेण"-श्लो० वा० श्लोकवार्तिकव्याख्याकारोऽपि 'सर्वेण' इति प्रतीकं गृहीत्वैव एनं श्लोकं व्याख्याति। तथाहि-"अत उक्तम् सर्वेण इति । सत्यं दृष्टम् न तु सर्वेण गवयं दृष्ट्वा तत्सादृश्यं गृहतैवमन्वयो गृहीतो भवतीति"-श्लो. वा. पार्थव्या० पृ. ४४७ पं० २०-२१ । प्रमेयकमलमार्तण्डेऽपि श्लोकवार्तिकवत् पाठः । तत्र च टिप्पण्याम् 'सर्वेण' इत्यस्य "पुंसा" इति स्पष्टीकरणम्-पृ० ४८ द्वि० पं० ५ टि० ३३।
५ "सहैवास्मिंस्त"-श्लो० वा० । पार्थ० व्याख्यायां तु 'एकस्मिन्' इति प्रतीकमस्ति । ६ “उपमानं सैव"-बृ० टि.। ७ नैयायिकसंमतमुपमानखरूपं तत्समर्थनं च सविशेष जिज्ञासमानैर्वात्स्यायनभाष्य-न्यायवार्तिक-तात्पर्यटीकागतं तदवधेयम्-पृ० २५ । पृ० ५७-५८ । पृ० १९६-२०१।।
मजरीकारीया तु उपमानविषया चर्चा तत्खरूपं स्पष्टयति, तस्य प्रमाणान्तरतां समर्थयते, मीमांसकोतं तत्स्वरूपं च समालोचयति सा च सर्वाप्यत्रावधारणीया-न्यायमञ्ज० आ०२ पृ० १४१-१४९ ।
८प्रस्तुतटीकाकारः पूर्व शबरखामिसमतामुपमानव्यवस्थामुपन्यस्य ततो नैयायिकसंभतां तामुपन्यस्यति शान्तरक्षितोऽपि तथैव तामुपन्यस्य परीक्षितवान् । तथाहि"श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने । संज्ञासंबन्धविज्ञानमुपमा कैश्विदिष्यते" ॥
-तत्त्वसं० का० १५६३ पृ० ४५१ । "कैश्चिदिति नैयायिकैः । त एवमुपमानस्य लक्षणमाहुः-प्रसिद्धमाधात् साध्यसाधनमुपमानमिति"-तत्त्वसं. पजि० पृ. ४५१५० १६।। वृद्धनैयायिकास्तु उपमानखरूपमित्थं वर्णयन्ति"किदृग्गवय इत्येवं पृष्टो नागरिकैर्यदा । ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा" ॥
-तत्त्वसं० का० १५२६ पृ. ४४४ । "कीदृशो गवय इत्येवंपृष्टस्य यद् वाक्यं यादृशो गौस्तादृशो गवय इति, अस्य वाक्यस्योपमानवं वृद्धनैयायिकानां प्रसिद्धम्"-तत्त्वसं० पजि० पृ० ४४४ पं० ६-७ ।
श्रीधरस्तु पूर्वमीमांसक-शबरखामिशिष्यप्रभृतिभिर्यत् पृथक् पृथग उपमानवरूपं वर्णितं तत् प्रदर्य तस्यानुमान एवान्तर्भावं करोति-प्रशस्त. कं० पृ. २२० पं० १६-पृ. २२२ पं० ८।
“अत्र वृद्धनैयायिकास्तावदेवमुपमानखरूपमाचक्षते-संज्ञासंज्ञिसंबन्धप्रतीतिफलं प्रसिद्धतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम्" इत्यादि-न्यायमज. आ. २ पृ० १४१ पं० १५-१६। कैश्चिद् अद्यतनैरपि यदितर उपमानखरूपं वर्णितं तदपि न्यायमजयां प्रदर्शितमस्ति-पृ० १४२ पं० १३-१५।
७४ स०त.