________________
द्वितीये काण्डेयथोक्तम्-"उपमानमपि सादृश्यादसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति यथा गवयदर्शनं गोस्मरणस्य" [१-१-५ शाबरभा० ] इति । अस्यायमर्थः-येन प्रतिपत्रा गौरुपलब्धो न गवयः न चातिदेशवाक्यं 'गौरिव गवयः' इति श्रुतम् तस्याटव्यां पर्यटतः गवयदर्शने प्रथमे उपजाते परोक्षगवि सादृश्यज्ञानं यदुत्पद्यते 'अनेन सदृशो गौः' इति तदुपमानमिति । तस्य विषयः सादृश्यविशिष्टः परोक्षो गौः ५ तद्विशिष्टं वा सादृश्यम् सादृश्यं च वस्तुभूतमेव । यदाह
"सादृश्यस्य च वस्तुत्वं न शक्यमववाधितुम् । भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत्" ॥
[श्लो० वा० उपमान० श्लो० १८] इति । अस्य चानधिगतार्थाधिगन्तृतया प्रामाण्यमुपपन्नम् यतोऽत्र गवयविषयेण प्रत्यक्षेण गवय एव १० विपयीकृतो न पुनरसन्निहितोऽपि सादृश्यविशिष्टो गौः तद्विशिष्टं वा सादृश्यम् । यदपि तस्य 'पूर्व
गौः' इति प्रत्यक्षमभूत् तस्यापि गवयोऽत्यन्तमप्रत्यक्ष एवेति कथं गवि तदपेक्षं तत्सादृश्यज्ञानम् ? तदेवं गवयसदृशो गौरिति प्रागप्रतिपत्तेरनधिगतार्थाधिगन्तृ परोक्षे गवि गवयदर्शनात् सादृश्यज्ञानम् । तदुक्तम्
"तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता ॥ प्रत्यक्षेऽपि यथा देशे स्मर्यमाणेच पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥"
[श्लो० वा० उपमान० श्लो० ३७-३९] इति । न चेदं प्रत्यक्षम् परोक्षविषयत्वात् सविकल्पत्वाच्च; नाप्यनुमानम् हेत्वभावात् । न च स एव दृश्यमानो गवयविशेषः तद्गतं वा सादृश्यं हेतुः उभयस्यापि धर्मिणा सह प्रतिबन्धाभावात् न चाप्रतिवद्धो हेतुः अतिप्रसङ्गात् । न च गोगतं सादृश्यं गौर्वा हेतुःप्रतिज्ञार्थंकदेशत्वात् । न च सादृश्यमात्र प्राक् प्रमेयेण सम्बद्ध प्रतिपन्नम् । न चान्वयप्रतिपत्तिमन्तरेण हेतोः साध्यप्रतिपादकत्वमुपलब्धम् । २५ तदेवं गवार्थदर्शने गवयं पश्यतः सादृश्येन विशिष्ट गवि पक्षधर्मत्वग्रहणं सम्वन्धानुस्मरणं चान्तरेण
प्रतिपत्तिरुपजायमाना नानुमानेऽन्तर्भवतीति प्रमाणान्तरमुपमानम् । तदुक्तम्
१ "उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे” इत्यादि-शाबरभा० पृ. ८ पं० १४। “उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे" इत्यादि-तत्त्वसं० पजि. पृ० ४४४ पं० ९ ।
प्रमाणान्तरपरीक्षायामुपमान विचारे पूर्वपक्षमारचयन् शान्तरक्षितः पूर्वं तावत् प्रस्तुतचर्चया साम्यं बिभ्रत् शबरस्वामिसंमतोपमानसमर्थनमाह-तत्त्वसंका. १५२६-१५४२ पृ. ४४४-४४७ । २-जायते बृ० वा. बा.। ३-शिष्टं वा सादृश्यं च वस्तु-वा. बा. भां मां० ।-शिष्टस्य सादृश्यं च वस्तु-आ० हा० वि० । ४ “सादृश्यस्यापि वस्तुलं न शक्यमपवाधितुम्"-श्लो० वा० । “सादृश्यस्य च वस्तुत्वं न शक्यमपबाधितुम्"-तत्त्वसं० का० १५३३ पृ० ४४५ । ५ “सादृश्यं वा तदाश्रितम्"-तत्त्वसं० का० १५३५ पृ. ४४५। ६ स्मृतेः वा. बा० ।
"प्रत्यक्षेणावबुद्धे च सादृश्ये च गवि स्मृते। विशिष्टस्यान्यतोऽसिद्धरुपमायाः प्रमाणता ॥ प्रत्यक्षेऽपि यथा देशे स्मर्यमाणेऽपि पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता" ॥
-तत्त्वसं० का. १५३६-१५३७ पृ. ४४६ । ७ "न हि प्रत्यक्षतासिद्ध विज्ञानस्योपपद्यते । इन्द्रियार्थाभिसंवन्धव्यापारविरहात् तदा"।
-तत्त्वसं० का १५३८पृ०४६ । ८ "त्ररूप्यानुपपत्तेश्च न च तस्यानुमानता । पक्षधर्मादि नैवात्र कथंचिदवकल्पते"॥
-तत्त्वसं० का. १५३९ पृ.४४६ । ९ "गवा"-बृ.टि.।