________________
ज्ञानमीमांसा।
५७५
२०
"सामान्यविषयत्वं हि पदस्य स्थापयिष्यते ॥ धर्मी धर्मविशिष्टश्च लिङ्गीत्येतच्च साधितम् । न तावदनुमानं हि यावत्तद्विषयं न तत् ॥ अथ शब्दोऽर्थवत्त्वेन पक्षः कस्मान्न कल्प्यते ॥ प्रतिज्ञार्थंकदेशो हि हेतुस्तत्र प्रसज्यते । पक्षे धूमविशेषे हि सामान्यं हेतुरिष्यते ॥ शब्दत्वं गमकं नात्र गोशब्दत्वं निषेत्स्यते । व्यक्तिरेव विशेष्याऽतो हेतुश्चैका प्रसज्यते" ॥ इति ।
वा० शब्दप०५५-५६,६२-६३-६४] शब्दस्य चार्थेन सम्बन्धाभावतो यथा न पक्षधर्मत्वं तथान्वयोऽपि प्रमेयेण व्यापाराभावतोऽसंगत १० एव । तदुक्तम्
"अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते । व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥ यत्र धूमोऽस्ति तत्राग्नेरस्तित्वेनान्वयः स्फुटः। न त्वेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चयः॥ ने तावद्यत्र देशेऽसौ न तत्कालेऽवगम्यते । भवेन्नित्यविभुत्वाच्चेत् सर्वार्थेष्वपि तत्समम् ॥ तेन सर्वत्र दृष्टत्वाद्व्यतिरेकस्य चागतेः।
सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते” ॥ [ श्लो० वा० शब्दप० ८५-८८] अन्वयाभावे व्यतिरेकस्याप्यभावः। उक्तं च"अन्वयेन विना तस्माद्व्यतिरेकः कथं भवेत् ?"। [
] इति। तदेवमनुमानलक्षणाभावात् शाब्दं प्रमाणान्तरमेव ।
[मीमांसकेन उपमानस्य प्रमाणान्तरत्वस्थापनम् ] उपमानमपि प्रमाणान्तरम् । तस्य लक्षणम्
"दृश्यमानाद् यदन्यत्र विज्ञानमुपजायते ।
सादृश्योपाधि तत्त्वज्ञैरुपमानमिति स्मृतम्" ॥ [ १ "धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत् सुनिश्चितम् । न भवेदनुमानं च यावत् तद्विषयं न तत् ॥ यश्चात्र कल्प्यते धर्मी प्रमेयोऽस्य स एव च । न चानवधृते तस्मिंस्तद्धर्मवावधारणा ॥ प्राक् स चेत् पक्षधर्मवाद् गृहीतः किं ततः परम् । पक्षधर्मादिभितिर्येन स्यादनुमानता" ॥
-तत्त्वसं. का. १४९१-१४९३ पृ. ४३४ । २ चार्थत्वन आ० हा० वि० । ३-“मन्वितलं"-श्लो० वा. ।
"अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते । व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥ यत्र धूमोऽस्ति तत्राग्नेरस्तिखेनान्वयः स्फुटम् । नलेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चितम्"।
-तत्त्वसं० का० १४९४-१४९५ पृ० ४३४-४३५ । ४ “न तावत् तत्र देशेऽसौ तत्काले वाऽवगम्यते"-श्लो. वा।
"न तावत् तत्र देशेऽसौ न तत्काले च गम्यते । भवेनित्यविभुत्वाचेत् सर्वशब्देषु तत्समम् ॥ तेन सर्वत्र दृष्टखाद् व्यतिरेकस्य चागतेः । सर्वशब्देरशेषार्थप्रतिपत्तिः प्रसज्यते" ॥
तत्त्वसं० का० १४९६-१४९७ पृ. ४३५ । ५ शाब्दस्य अनुमानेऽन्तर्भावं प्रतिक्षिपन्त्याः ततश्च तत्पार्थक्यं समर्थयन्त्याश्च न्यायमञ्जरीगतायाश्चर्चायाःप्रस्तुतचर्चातः केवलं भनीभेदः न तु वाच्यभेदः। सा हि ततः “आह आस्तां तावदेतत् इदं तु चिन्त्यताम्-किमर्थमिदं पुनः शब्दस्य पृथग्लक्षणमुपवर्ण्यते” इत्यत आरभ्य “एवंविधविषयभेदात् सामग्रीभेदाच्च प्रत्यक्षवद् अनुमानादन्यः शब्द इति सिद्धम्" इत्यवसाना द्रष्टव्या-पृ० १५२५०४-पृ० १५५५२०।।
६ उपमानस्य प्रमाणान्तरखं ख्यापयन्त्येषा पद्ययुता चर्चा प्रमेयकमलमार्तण्डेऽपि ईदृश्येव वर्तते-पृ० ४८ प्र.पं. ५-द्वि०५०६